"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding mg:Uttarakhand
(लघु) r2.7.2) (Robot: Adding vec:Uttarakhand
पङ्क्तिः १५७: पङ्क्तिः १५७:
[[uk:Уттаракханд]]
[[uk:Уттаракханд]]
[[ur:اتراکھنڈ]]
[[ur:اتراکھنڈ]]
[[vec:Uttarakhand]]
[[vi:Uttarakhand]]
[[vi:Uttarakhand]]
[[war:Uttarakhand]]
[[war:Uttarakhand]]

००:०४, २२ फेब्रवरी २०१३ इत्यस्य संस्करणं

उत्तराखण्डराज्यं भारतीयराज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य नवमे दिनाङ्के रचना जाता। उत्तरप्रदेशराज्यस्य हिमालयपर्वतप्रान्तात् उत्तराञ्चलराज्यस्य विभागः कृतः। राज्यस्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशश्च भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरीमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति।

चतुर्धाम
केदारनाथः बदरीनाथः
गङ्गोत्री यमुनोत्री

विभागः

मण्डलानि

अस्मिन् राज्ये विभागद्वयं भवति गढ्वाल् तथा कुमाव् इति। अस्मिन् राज्ये १३ मण्डलानि सन्ति। गढ्वाल् विभागे चमोली, डेहराडून्, हरिद्वारम्, पौडि, रुद्रप्रयाग, टिह्रि गढ्वाल् तथा उत्तरकाशी मण्डलानि सन्ति। कुमाव् विभागे अल्मोरा, बागेश्वर्, नैनिताल्, पिथोरागढ्, चम्पावत् तथा उधमसिंङ्ग मण्डलानि सन्ति। राज्यस्य शासनभाषा हिन्दी भवति। “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः। उत्तराखण्डस्य विस्तीर्णं ५१,१२५ चतुरस्रकि.मी अस्ति। प्रायः जनसंख्या ८५ लक्षजनाः सन्ति। डेहराडून्, हरिद्वारम् तथा नैनिताल् इत्यादयः अस्य राज्यस्य प्रमुखनगराणि सन्ति। राज्यस्य ९२.५७% भागः पर्वतप्रदेशः अस्ति। ६३% भागः अरण्यप्रदेशः अस्ति। उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) भवन्ति।

इतिहासः

प्राचीनहिन्दूग्रन्थेषु खेदारमानसाखण्डयोः मिलित्वा उत्तराखण्डः इति उल्लेखः दृश्यते। उन्नतपर्वताः, दर्दराः, नद्यः तथा पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति इत्यतः “देवभूमिः” इति व्यवहारः अस्ति। ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन्। वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन्। तस्मिन् काले ॠषीणां साधूनाञ्च इष्टतमं स्थानम् आसीत्। व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति। अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा इति जनानां विश्वासः। एतत् स्थलम् अशोकस्य काले बौद्धधर्मप्रभावितम् आसीत्। आदिशङ्कराचार्यस्य प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम्। गच्छता कालेन जनाः आगताः। मध्यकाले गढ्वाल् तथा कुमाव् संस्थाने उत्तराखण्डे आस्ताम्। कुमावसंस्थाने ’चन्दवंशस्य’ शासकाः शासनं कुर्वन्ति स्म। गढ्वाल् संस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म। नेपालदेशस्य ’गूर्खा’ शासकाः १७९१ तमे संवत्सरे कुमावराज्यं तथा १८०३ तमे संवत्सरे गढ्वाल् राज्यम् आक्रान्तवन्तः। १८१६ तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत्। अस्मिन् युद्धे एते शासकाः पराजिताः। अनन्तरं पूर्वगढ्वाल् तथा कुमाव् प्रदेशौ आङ्ग्लशासने आस्ताम्। भारतस्य स्वातन्त्र्यानन्तरं टिह्रि संस्थानम् उत्तरप्रदेशराज्ये मेलितवन्तः।

राज्यजनसमुदायः

उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति। सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति। पञ्जाबराज्यात् आगताः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति। एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति। राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति।

प्राकृतिकवर्णनम्

नन्दादेवीशिखरप्रदेशः

उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति। प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः अस्ति। अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति। हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति। अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति। हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः। वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः। अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। भारतीयपवित्रतमौ महानद्यौ गङ्गा यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते। हिमालयपर्वतश्रेणेः दक्षिणे भागे उत्तराखण्डः अस्ति। उन्नतप्रदेशाः हिमेण तथा शिलया च आवृताः सन्ति। ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति। नैनिताल् जनपदस्य रामनगरे “जिम् कार्बेट् राष्ट्रियोद्यानम्” अस्ति। चमोलीजनपदे पुष्पकन्दरराष्ट्रियोद्यानम् नन्दादेवीराष्ट्रियोद्यानञ्च स्तः। उत्तरकाशीमण्डले “गोविन्दपशुराष्ट्रियोद्यानम्” “गङ्गोत्रीराष्ट्रियोद्यानञ्च” स्तः। हरिद्वारमण्डले “राजाजि राष्ट्रियोद्यानम्” अस्ति।

प्रवासोद्यमविभागः

उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति। सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति। नैनिताल्, मस्सूरी, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति। हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि अन्यतमम्। अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।

धार्मिकक्षेत्राणि

हैन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः(चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि च भवन्ति। तथैव हरिद्वारम्, हृषीकेशः च पवित्रक्षेत्रे भवतः। सिक्खधर्मस्य “हेमकुण्डसाहेब्” पुण्यं स्थानं भवति। टिबेट् बौद्धधर्मस्य बुद्धस्थूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति।

पुष्पकन्दरः

उत्तराञ्चलराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० कि.मी. दीर्घः २ कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च बहवः अत्र आगच्च्छन्ति । जूनमासतः सप्तम्बरमासपर्यन्तम् अत्र आगन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।

भूमार्गः

गोविन्दघाटतः गङ्गरिया २४.कि.मी. दूरे अस्ति ।

नैनिताल्

कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराज्यस्य किञ्चन नगरम् । नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतत् नगरम् कथयन्ति । नैनिताल् नगरे स्थितानि सरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणम् इत्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराणि तृणावृतप्रदेशाः अरण्यानि समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम अदृष्टमेव आसीत् । शिवालिकपर्वतश्रेणिः , पर्वताः, प्रपाताः च मनोहराणि सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रियोद्यानं जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे राणीखेत् अल्मोरा इत्यादीनि गिरिधामनि सन्ति ।

मार्ग:

३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । देहलीतः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।

पिण्डारी

पिण्डारी ग्लेषियर्

एतत् गढवाल् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अधः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता च अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । पैन् वृक्षाणां समूहः, फेर्न् शाद्वलाः स्वाभाविकतया विकसितानि पुष्पाणि, पुष्पवन इत्यादि अविस्मरणीयानि भवन्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वेषामपि जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।

मार्गः

हृषीकेशतः कापकोटे पर्यन्तं वाहनप्रवासः । अनन्तरं पादचारणं च । पुनरागमन समये बजनाथतः अल्मोरा आगत्य नैनिताल् मार्गेण प्रवासः कर्तुं शक्यः । सप्टम्बरअक्तोबरमासौ उत्तमौ । P.W.D वसतिगृहणि सन्ति । हृषिकेशतः ३६६ कि.मी. । पिण्डारीतः अल्मोरा १५५ कि.मी. ।

जिम् कार्बेट् राष्ट्रियोद्यानम्

उत्तराञ्चलराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३चतुरस्र कि.मी. अस्ति । कुमाम्व् पर्वतप्रदेशे रामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः जिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।

धूमशकटमार्गः

समीपे रामनगरम् इति स्थाने धूमशकटनिस्थानम् अस्ति ।

भूमार्गः

देहलीतः २१० कि.मी. ऋजु-भूमार्गः अस्ति ।

देहरादून्

प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । अस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं विश्वे एव प्रथमम् अस्ति । अत्र एव भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । इतः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । सर्वतः भव्यानि अरण्यानि पर्वतप्रदेशाः नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किश्चिदूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति ।

मार्गः

हरिद्वारतः ५६ कि.मी. ।

धूमशकटमार्गः

डून् एक्सप्रेस् , मस्सूरी एक्सप्रेस् तः डेह्राडून् पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।

मसूरी पर्वतधाम

अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भट्टफाल्स् स्तः । अत्युन्नतं स्थानं लालतिलनामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामल्स् बाक्स् , अथवा गन् हिल् स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।

मार्गः

डेह्राडूनतः २२ कि.मी. देहली-सहारनपूर- डेह्राडून् मार्गः । वासार्थमत्र उत्तमवसतिगृहणि सन्ति ।

गढवाल् हिमालयः

गढवाल् हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम्। उत्तराञ्चलराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते। प्रपातेषु सदा शीतलं जलं प्रवहति। तृणावृतानि समतलानि आकर्षकानि भवन्ति। गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति। अत्रैव चमोली, पौरिगढवाल्, टिहरीगढवाल्, देहरादून् च मण्डलानि सन्ति। गढवाल् प्रवासिजनानां स्वर्गमिति कथयन्ति। अत्र यात्रा साहसिकानामेव साध्या। पर्वतारोहिणाम् उत्साहः भवति। जलक्रीडासु जनाः मग्नाः भवन्ति। "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति। पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति। नन्दादेवी अत्युन्नतः पर्वतः अस्ति। अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति। तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति। हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि। प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति।

मार्गः

देहरादून् गढवाल् हिमालयस्य प्रवेशाय प्रवेशद्वारम्

मसूरी अतिशीतलं स्थानम् अस्ति । हिमालये यमुनानद्याः जन्मस्थानं यमुनोत्री हरिद्वारतः २६ कि.मी. दूरेऽस्ति । निबिडारण्ये एतत् सरोवरम् अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां ग्रहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लेषियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव हेमकुण्डः, पुष्पकन्दरः, दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । पिण्डारीहिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । बदरीनाथक्षेत्रं हृषीकेशतः २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । गङ्गाभागीरथ्योः सङ्गमस्थानं देवप्रयागः इति प्रसिद्धम् । गङ्गामन्दाकिन्योः सङ्गमः रुद्रप्रयागः इति ख्यातः । कर्णगङ्गागङ्गयोः सङ्गमस्थानं कर्णप्रयागः इति प्रसिद्धम् । विष्णुप्रयागः नन्दप्रयागः इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति । अत्र जनाः स्नानं कुर्वन्ति । देवालयस्य अग्रे अलकनन्दानदी प्रवहति । देवालये नारायणस्य सुन्दरी लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थानि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।

केदारनाथः पौराणिकपावित्र्यम्

नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्री शङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं दर्शनीयस्थानम् ।

भूमार्गः

डेह्राडूनतः बदरीनाथक्षेत्रं ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवतः । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरूकैः भाव्यम् ।

अल्मोरा

हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्दराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते।

वाहनमार्गः

मथुरा-बरेली-कोतगोण्ड-अल्मोरादेहली-पन्तनगरम्-अल्मोरा इति वाहनमार्गः अस्ति । कतगोण्डतः ९० कि.मी. दूरं भवति । अल्मोरानगरी वसतिगृहणि सन्ति ।

गौमुखम्

उत्तरकाशीमण्डलस्य एतत् प्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति ।

मार्गः

गङ्गोत्रीतः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।

हिमालययात्रा

उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तॄन् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।

हरिद्वारं हृषीकेशः

गङ्गानद्याः अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे गङ्गामाता मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति । हरिद्वारतः १४ कि.मी. दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।

भूमार्गः

देहलीतः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।

धूमशकटमार्गः

हृषीकेशक्षेत्रे धूमशकटनिस्थानम् अस्ति । देहलीतः अनेकानि यानानि सञ्चरन्ति ।


.

"https://sa.wikipedia.org/w/index.php?title=उत्तराखण्डराज्यम्&oldid=226929" इत्यस्माद् प्रतिप्राप्तम्