"दशकुमारचरितम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding ml:ദശകുമാരചരിതം
(लघु) r2.7.1) (Robot: Adding ja:ダシャクマーラチャリタ
पङ्क्तिः १९: पङ्क्तिः १९:
[[en:Dashakumaracharita]]
[[en:Dashakumaracharita]]
[[hi:दशकुमारचरित]]
[[hi:दशकुमारचरित]]
[[ja:ダシャクマーラチャリタ]]
[[ml:ദശകുമാരചരിതം]]
[[ml:ദശകുമാരചരിതം]]

०६:३८, २७ फेब्रवरी २०१३ इत्यस्य संस्करणं

'दण्डिनः सुप्रसिद्धं गद्यकाव्यं विद्यते दशकुमारचरितम् । काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति ।

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुर्वधने ॥

अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री वीष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्जीवरमिति नाम्नाधुना प्रसिद्ध्-नगरे अभवत् । काञ्च्याः पल्लवनरेशस्य पुत्रस्य शिक्षायै दण्डी ' काव्यादर्शम्' रचितवान् इति प्रसिद्धास्ति किंवदन्ती ।

स्थिति- कालः

नवमशतब्द्याः ग्रन्थेषु दण्डिनः नामोल्लेखः प्राप्यते । अतः दण्डिनः समयो नवमशताब्द्याः पूर्वं भवितुमर्हति । "काव्यादर्शः"अस्य मौलिकग्रन्थो प्रतिभाति । प्राचीनमपि पद्यं काव्यादर्शे दृश्यते । "लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः" इत्यादौ दण्डी, महाकविकालिदासस्य "मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति" इति पद्यांशमुद्धरति । अतः कालिदासस्य पद्यादेवास्यास्तित्वमिति निर्विरोधम् ।

प्रो आर् नृहिंसाचार्यः काव्यादर्शे उल्लिखितं राजवर्मणं नृसिंहवर्मणा उपनाम्ना प्रसिद्धं मत्वा दण्डिनः स्थितिकालं सप्तमशताब्द्याः उत्तरार्धे स्वीकतरोति । वस्तुतस्तु पल्लवराजस्य नृसिंहवर्मणः समयः ६९० ई आरभ्य ७१५ ई पर्यन्तं मन्यते । अत अस्यैव सभापण्डितस्य दण्डिनः समयः सप्तमशताब्द्याः अन्ते अष्टम- शताब्द्यास्चादौ वा मन्तव्य इति यिक्तिसङ्गतं प्रतिभाति ।

दशकुमारचरितं दण्डिनः गद्यकाव्यं विद्यते । दशकुमाराणां चरितं काव्येऽस्मिन् वर्णितमतो दशकुमारचरितमिति नाम ।

"https://sa.wikipedia.org/w/index.php?title=दशकुमारचरितम्&oldid=227384" इत्यस्माद् प्रतिप्राप्तम्