"रविशङ्कर (धर्मगुरुः)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (रोबॉट: mk:Рави Шанкар की जगह mk:Шри Шри Рави Шанкар जोड़ रहा है
पङ्क्तिः ५०: पङ्क्तिः ५०:
[[mk:Шри Шри Рави Шанкар]]
[[mk:Шри Шри Рави Шанкар]]
[[ml:ശ്രീ ശ്രീ രവിശങ്കർ]]
[[ml:ശ്രീ ശ്രീ രവിശങ്കർ]]
[[ne:श्री श्री रविशंकर (धार्मिक गुरु)]]
[[nl:Ravi Shankar (spiritueel leider)]]
[[nl:Ravi Shankar (spiritueel leider)]]
[[ru:Шри Шри Рави Шанкар]]
[[ru:Шри Шри Рави Шанкар]]

१८:१९, २७ फेब्रवरी २०१३ इत्यस्य संस्करणं

श्री श्री रविशङ्करः ।
श्री श्री रविशङ्करगुरुः ।
जन्मतिथिः क्रि.श. १९५६तमवर्षस्य मे मासस्य १३दिनाङ्कः ।
जन्मस्थानम् तमिळुनाडुराज्यम्, भारतम्
पूर्वाश्रमनाम रवि रत्नम् ।
तत्त्वचिन्तनम् अध्यात्म

श्री श्री रविशङ्करः (तमिळ: ஸ்ரீ ஸ்ரீ ரவி ஷங்கர்),कश्चित् सनातनधर्मगुरुः क्रि.श. १९५६तमे वर्षे तमिळुनाडुप्रदेशे अजायत । भारतस्य अध्यत्मनायकस्य अस्य प्रथमः आचार्यः महर्षिः महेशयोगी । [१]अस्य मूलं नाम रविशाङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति । एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य बिबाधां, सामाजिकसमस्याः, हिंसाचारं शमनस्य लक्ष्ययुतम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति ।[२] एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्यम्, ग्रामीणाभिवृद्धिकार्ये निरता अस्ति ।

जीवनवृत्तान्तः

क्रि.शा. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् ।[३] ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशाकः भारतीयभाषानां विद्वान् चासीत् । रविशङ्करस्य मात विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् । [२][४] बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवप्नोत् । स्नातकपदव्याः पश्चात् वेदविज्ञानस्य विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् आयुर्वेदकेन्द्राणि स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् ।[५] एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु पण्डितः रविशङ्करः इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।[२]क्रि.श. १९८०तमदशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । सुदर्शनक्रिया इति विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आरब्धवान् [३] प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिनासम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति ।[६] अस्य प्रोत्साहनेन अस्य पिता अन्यैः बेङ्गळूरुनगरप्रमुखैः सह मिलित्वा वेदविज्ञानमहाविद्यापीठम् इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति ।[७]क्रि.श. १९८३तमे वर्षे प्रथमवारं रविशङ्करः यिरोप् देशस्य स्विट्जर्लेण्ड् नगरे सर्वप्रथमं जीवनकलाप्रणालीं समचालयत् ।क्रि.श. १९८६तमे वर्षे अमिरिकादेशस्य क्यालिपोर्नियायाः एपल् व्यालिमध्ये एतत् चालितवान् ।[८]

अध्यात्मगुरुः

रविशङ्करः वदति आध्यात्मिकता मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितं न । एतत् विश्वधर्मस्य हृदयभागम् अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति ।[९] श्वासः अस्माकं देहमनसोः मध्ये अनुबन्धः अस्ति रविशङ्करस्य प्रतिपादनम् । अतः मनः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यत्म च परस्परम् सम्बद्धानुबन्धः । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । [१०]

मानवहितकार्याणि

क्रि.श.१९९०तमे काले जीवनकलासंस्थायाः अन्यराष्ट्रियसंस्थायाः चाश्रयेण नैकानि मानवहितकारिकार्याणि आरब्धानि । तानि अद्यापि अनुवर्तन्ते । क्रि.श. १९९२तमे वर्षे कारावारेषु बद्धानानां पुनश्चेतनेन प्रधानवाहिन्याम् आनेतुं तत्र अनेकाः कार्यक्रमाः कृताः । [११]क्रि.श. १९३७तमे वर्षे मानवमौल्यानाम् अताराष्ट्रियसंस्था इति मानवहितकारी सङ्घः आरब्धः । तस्य 5Hकार्यक्रमेण ग्रामीणप्रदेशेषु सुस्थिराभिवृद्धिः, मानवीयमौल्यपुनश्चेतनं च लक्षितम् ।[१२]न्यूयार्क नगरस्य विश्ववाणिज्यकेन्द्रस्य उदर्के क्रि.श.२००१तमे वर्षे सम्भूते भयोत्पादकाक्रमणावसरे सञ्जातजनमानसविबाधानिरारणार्थं [६]एतत् प्रतिष्ठानं कोसोवो युद्धपीडितस्य प्रदेशे परिहारकार्याणि, आरोग्यसंरक्षणकार्याणि च अकोत् ।क्रि.श. २००३तमे वर्षे आक्रान्ते इराक् देशे कार्यनिरतं भूत्वा जनमानसः विबाधां शमयितुं प्रयत्नम् अकरोत् ।[१३] आफ्घनिस्ताने क्रि.श. २००३तः २००६पर्यन्तम् एतादृशानि एव परिहारकार्याणि अकरोत् । क्रि.श. २००७श्री श्री रविशङ्करः प्रधानमन्त्रिणह् नौरि अल् मौलिकि इत्यस्य निमन्त्रणम् अङ्गीकृत्य इराक् प्रवासं कृत्वा सुन्नि शिया कुर्दि नायकानां सन्दर्शनं कृतवान् ।[१४]एषः क्रि.श.२००४तमे वर्षे पाकिस्तानस्य प्रवासं कृत्वा जागतिकशान्तिप्रेरणां कर्तुं कांश्चन मतीयनायकान् सन्दृष्टवान् ।[१५]बहवः कार्यकर्ताराः क्रि.श. २००४ । क्रि.श. २००४तमे वर्षे हिन्दुमहासागरस्य भूकम्पन सुनामी जञ्झावातस्य सन्त्रस्तानां सहायार्थं कार्याणि कृतवान् । SMART इति परिचितस्य कारावारस्य बन्धिनां मानसविबाधापरिहारार्थं कार्यक्रमान् योजितवान् । रविशङ्करः अन्तर्मतीयकसंवादेषु अपि आसक्तः अस्ति । प्रस्तुतम् एलिजा अन्तर्मतीयसंस्थायाः विश्वमतनायकसमितौ रविशङ्करः स्थान् प्राप्तवान् ।[१६]

सुदर्शनक्रिया

सुदर्शनक्रिया श्वसोच्छ्वासाधृतं तन्त्रम् । [१७] Art of living प्रणाल्याः मुख्यभागः प्रतिष्ठानस्य आघातपरिहारकर्यक्रमस्य मूलशिला भवति ।[१७] अस्य केषुचित् उपन्यासेषु सुदर्शनक्रियां लयबद्धा श्वासक्रिया दैहिकमनसिकभावनत्मकस्तरान् परिशोधयति समरसं करोति च इति वर्णितवान् । [१८]अस्य तन्त्रस्य विषये नैकानि वैद्यकीयाध्ययननि तज्ञानां विमर्षाः वृत्तपत्रिकासु प्रकाशिताः । मानसिकविबाधायाः शमनम्, आरोग्यरक्षणम्, उद्वेगनियन्त्रणं, मनःखिन्नतापरिहारः इत्यादयः साध्याः इति निर्णिताः । [१९]

टीकाः

  1. रविशङ्करस्य गाथा
  2. २.० २.१ २.२ A. ಸಾಲ್ಕಿನ್, एम्परर् आफ् एर्,योग जर्नल्२००२
  3. ३.० ३.१ Mahadevan, Ashok (February 2007). "Face to face". Reader's Digest. आह्रियत 2009-06-05. 
  4. इण्डिया बयोग्रफी
  5. गौटियर्, फ्राकय्स्, दि गुरु आफ् जाय्, न्यूयार्क्, हए हौस्,२००८,पि. ३६.
  6. ६.० ६.१ MacGregor, Hillary E (2004-10-31). "Breathe deeply to relieve stress, depression". The Seattle Times. आह्रियत 2009-06-05. 
  7. http://expressbuzz.com/Cities/Bangalore/dutch-honour-for-sri-sri-ravi-shankar/64181.html
  8. http://artofliving.eu/index.php?id=205&L=17
  9. श्री श्री रविशङ्करः ब्याङ्ग् आन् दि डोर् साण्टा बार्बरा, CA: आर्ट् आफ् लिविङ्ग् फौण्डेशन्१९९५. ISBN 1-885289-31-6
  10. वषिङ्क्टन् पोस्ट् सन्दर्शनम्
  11. "इन् प्रिसन्, प्रवीण् महाजन्, & दावूद्स् ब्रदर् जायिन्१५००, अदर्स् इन् योग एण्ड् भजन्स्", MUMBAI न्यूस् लैन् - मुम्बै क्रि.श. २००७तम्वर्षस्य एप्रिल् मासस्य ३०दिनाङ्कः ।
  12. श्री श्री रविशङ्करः, दि हफिङ्ग्टन् पोस्ट् क्रि.श. २०१०, अगस्त् १२।
  13. BBCवार्ता| भारतीय स्ट्रेस् बस्टर्स् टार्गेट् इराक्
  14. Art of living guru in irraq to talk peace
  15. there is dignity of religion in pakistan,The times of India
  16. The elija interfaith institute - hindu members of the board of the world religious leaders
  17. १७.० १७.१ page on Art of living
  18. perma link to article about payed association attempt on ravishankar •Newನ್ಯೂಸ್ ಸ್ಟೋರಿ ಫ್ರಂ 31 ಮೇ 2010
  19. Anti dipresent officasy of Sudarshana kriyayoga (SKY) In melankoliya : A randamised compresion with electroconvelsive theraphy(ECT) And impramise जानकिरामय्य एन्., गङ्गाधर बि.एन्., नागवेङ्कटेशमूर्ति पि.जे, हरीश् एम्.जि, सुब्बकृष्ण डि.के., वेदमूर्ताचार् - A gernal of effective disarorders ५७तमे सम्पुटम् । सङ्ख्या क्रि.श. २०००, जनवरि प्रथमदिनाङ्कः ।http://www.ncbi.nlm.nih.gov/pubmed/10708840

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=रविशङ्कर_(धर्मगुरुः)&oldid=227422" इत्यस्माद् प्रतिप्राप्तम्