"बृहत्संहिता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
fix
(लघु) Bot: Migrating 15 interwiki links, now provided by Wikidata on d:q858348 (translate me)
पङ्क्तिः १६: पङ्क्तिः १६:
[[वर्गः:हिन्दूधर्मः]]
[[वर्गः:हिन्दूधर्मः]]


[[bn:বরাহমিহির]]
[[en:Varāhamihira#Brihat-Samhita]]
[[en:Varāhamihira#Brihat-Samhita]]
[[es:Varaja Mijira]]
[[fa:واراهامیهیرا]]
[[fi:Varahamihira]]
[[fr:Varahamihira]]
[[hi:वराह मिहिर]]
[[ht:Varahamihira]]
[[hu:Varáhamihira]]
[[ja:ヴァラーハミヒラ]]
[[ml:വരാഹമിഹിരൻ]]
[[mr:वराहमिहिर]]
[[ru:Варахамихира]]
[[sh:Varāhamihira]]
[[te:వరాహమిహిరుడు]]
[[zh:伐罗诃密希罗]]

१३:०६, ९ मार्च् २०१३ इत्यस्य संस्करणं

एष ग्रन्थः शताध्यायात्मकः-३९०० पद्यात्मकश्च विस्मयजनको विश्वकोशः । बृहत्संहिता नाम महान् समुच्चयः । संहिता नामान्यैः कृतानां ग्रन्थानां ग्रन्थभागानां वा संकलनम् । परन्तु बृहत्संहिता स्वोपज्ञम् । कदाचिच्च अन्यरचितानां ग्रन्थानां ग्रन्थभागानां वा अधमर्णत्वमत्र पाठकानां ज्ञायते । तादृशेषु प्रसंगेषु निः संकोचं परकृतीनामाधमर्ण्यमत्र सुविस्पष्ट मभिहितं ग्रन्थं कर्त्रा । अमुकभागस्य रचनार्थं माननीयोऽमुक इति स्पष्टं नामतः कीर्तयति ग्रन्थं कर्ता ।

रचनाकारोऽस्या बृहत्संहितायाः प्रसिध्दो ज्योतिर्विद् वराहमिहिरः । धन्यजन्मनोऽस्य पृथिव्यामवतारः क्रि.श.५०५ ईसव्यामिति विदितम् पिताऽस्यादित्यदासः । रचना अदसीया इमाः -१. पञ्चसिध्दान्तिका । २. बृहज्जातकम् ३. लघुयात्रा (योगयात्रा)। ४. विवाहपटलम् । ५. बृहत्संहिता । एतासु रचनासु प्राथमिकस्य ग्रन्थचतुष्ट्वस्य ज्यौतिषकोटयन्तर्गतत्वं सुगमम् । अन्तिमं तु प्रकृतविचार्यो विश्वकोशः ।

एते विचारा बृहत्संहिताप्रतिपाद्याः-१-२६. पीठिका, विविधा ज्यौतिषोपयोगिनो विषयाः, ग्राहचारो ग्रहभुक्तिर्ग्र्हयुध्दमित्यादि । २७. वायुर्यद वाति विविधैः प्रकारैस्तेषां फलानि ।२८. वृष्टेः पूर्वानुमानानि । २९. पुष्पलता- समृध्दया आरोग्य-वृष्टि-दुर्भिक्षादीनां पूर्वानुमानानि । ३० सन्ध्याकालीयानां वर्णानां विविधानां च प्रकाराणां वीक्षणेन निसर्गे संभाव्यमानानां घटनानां पूर्वानुमानम् । ३१-३२. भूकम्पः । ३३. उल्का । ३४. सूर्यपरिवेषश्चन्द्रपरिवेषश्च (सूर्यं चन्द्रं च परितः कदाचिद् दृश्या वर्तुलाकारा प्रकाशरेखा) ३५. अतिपेलवानां मेघानां कारणतः (हिमनिबिडेषु प्रदेशेषु ) दृश्यमानस्य प्रतिसूर्यस्य लक्षणानि ।३८. वायोरतितीव्रेण वेगेन उध्दूयमानस्य धूलेर्विचारः । ३९. वात्या । ४०-४१. ज्यौतिषशास्त्रानुसारिणी कृषिसमृध्दिः । ४२. नक्षत्रराश्यानुगुण्येन वित्तस्फातिः, महार्घता, मौल्यह्रासश्च । ४३.इन्द्रध्वजनिर्माणविधानं, तन्महिमानश्च । ४४. देवताविग्रहाः, तथा, वह्नि-वृक्ष-स्तम्बकरि-वृष्टि –जल-प्रसूतिसमय-चतुष्पादिपशु –वायु ध्वजानाम् आकस्मिकानि वैपरीत्यानि च । ४७. आकाशकायानां दर्शनेन ज्ञातव्यं राष्ट्रभवितव्यम् । ४७. पुष्ये मासि राजभिरनुष्ठातव्यो मङ्गलस्नानाचारः । ४९. राजभिर्धारणीयानि मुकुटानि । ५०. खड्गनां लक्षणम् । ५१. दैहिकानामङ्गानां परीक्षया सूचनीयानि भवितव्यानि । ५२.श्वित्रैः (pimples) सूच्यमानं भवितव्यम् । ५३. वास्तुवुद्या । ५४. दकार्गला अर्थात्, पृथ्व्याः बाह्यैः कैश्चिन् चिह्नैरन्तर्जलानां शोधनं, वापीकूपतटाक निर्माणायोत्खननप्रसंगे मध्ये जायमानानां शिलानां भङ्गर्थम् अभ्युपायाः, लब्धे जले पानानर्हे तस्य पानार्हतासंपादनार्थं क्रियमाणाः क्रमाः । ५५. वृक्षायुर्वेदः ।५६. देवस्थानलक्षणम् । ५७. अतिदृढस्य वज्रलेपस्य निर्माणम् । ५८. प्रतिमालक्षणम् । ५९. वनसंप्रवेशविधिः । ६०. मूर्तिप्रतिष्ठापनम् । ६१-६७ गो-श्व –कुक्कुट- कूर्म –च्छागा –श्व –गजानां लक्षणानि ।६८-७०. स्त्रीपुरुषाणां लक्षणानि । ७१. वस्त्रभङ्गे शकुनम् । ७२-७३. छत्रचामरयोर्लक्षणम् । ७४. स्त्रीप्रशंसा । ७५. सौभाग्यकरणम् (personality development) | ७६. वीर्यवृध्दे-रुपायाः । ७७. सुगन्धद्रव्यनिर्माणम् । ७८ संभोगसंबध्दाः केचन विचाराः । ७९. शय्यासनानां लक्षणम् । ८०-८३ मुक्ता पद्मरागमरकतानां लक्षणम् । ८४. दीपलक्षणम् । ८५. दन्तधावनार्थानां काष्ठानां लक्षणम् । ८६-९६. विविधानि शुकनानि । ९७. केषुचन नैसर्गिकेषु वैपरीत्येषु संभूतेषु तत्फल- जननसमयावधिः । ९८-१००. तिथिनक्षत्रकरण संबध्दानां नित्यनैमित्तिकानां कर्मणां सुमुहूर्तदुर्मुहूर्तानि । १०१.जन्मनक्षत्रा नुगुण्येन भविष्यकथनम् । १०२. खगोलीयानां राशीनां विभागः । १०३. विवाहप्रसंगे ग्रहनक्षत्रादीनां स्थितिगतीरवलम्ब्य पूर्वानुमेयानि भवितव्यानि; विविधच्छन्दोबन्धानाम् उदाहरणनि च । १०४-१०५. नक्षत्रपुरुषोपासनाः । १०६. उपसंहारः । विषयानुक्रमणिका

एतेन विस्पष्टायते यद् बृहत्संहिता विस्मयजनकानां वस्तूनां महान् रसराशिः । ज्यौतिषे शास्त्रे ग्रन्थं कर्तुः परमा प्रीतिः । प्रकृते ग्रन्थे सर्वेऽपि विषयाः ज्यौतिषशास्त्रेणैव परम्परया साक्षाद् वा संबध्दा इति स पर्यगणयदिति प्रतिभाति । तस्मादेव कारणात् सः “ स्वबुध्दयाख्येन मन्दरेण लोकापकारशास्त्राख्यं चन्द्रं ज्योतिः शास्त्रसमुद्रात् निर्मथ्योध्दृतवानस्मि” इति वदति ।

अत्र भूयस्या मात्रया लभ्यमानं छन्द आर्याछन्दः । परन्तु विविधानां छन्दसां प्रयोगेषु कवेरतिभूयसी नैपुणी –छन्दः शास्त्रदृष्टया १०३ तमोऽध्यायः कुतूहलप्रदः । अत्र ६३ छन्दसां नामानि मुद्रालंकारेण योजितानि । तस्मात् संस्कृतच्छन्दः शास्त्र्चरित्रं रचयितृणामपि बृहत्संहिता प्रयोजनाधिक्यं जनयतीत्यत्र न संशीतिलेशः ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=बृहत्संहिता&oldid=233530" इत्यस्माद् प्रतिप्राप्तम्