"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः
No edit summary |
|||
पङ्क्तिः ७५: | पङ्क्तिः ७५: | ||
==भूगोलम्== |
==भूगोलम्== |
||
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे [[पाकिस्तानदेशः]], [[पञ्जाबराज्यम्]], [[हरियाणाराज्यम्|हरियाणाराज्यञ्च]] भवन्ति । दक्षिणे [[मध्यप्रदेशराज्यम्]], [[गुजरातराज्यम्|गुजरातराज्यञ्च]] भवतः । पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]] [[मध्यप्रदेशराज्यम्|मध्यप्रदेशश्च]] भवतः। पश्चिमे [[पकिस्तानदेशः]] भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति । माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे [[भारतम्|भारते]] विद्यमाना बृहत् थार भूमिः अस्ति । अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति । [[भारतम्|भारते]] अतीवबृहत् राज्यं भवति। |
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे [[पाकिस्तानम्|पाकिस्तानदेशः]], [[पञ्जाबराज्यम्]], [[हरियाणाराज्यम्|हरियाणाराज्यञ्च]] भवन्ति । दक्षिणे [[मध्यप्रदेशराज्यम्]], [[गुजरातराज्यम्|गुजरातराज्यञ्च]] भवतः । पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]] [[मध्यप्रदेशराज्यम्|मध्यप्रदेशश्च]] भवतः। पश्चिमे [[पकिस्तानदेशः]] भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति । माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे [[भारतम्|भारते]] विद्यमाना बृहत् थार भूमिः अस्ति । अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति । [[भारतम्|भारते]] अतीवबृहत् राज्यं भवति। |
||
==प्रसिद्धानि नगराणि== |
==प्रसिद्धानि नगराणि== |
१०:४२, १७ मे २०१३ इत्यस्य संस्करणं
Rajasthan राजस्थानराज्यम् | ||
---|---|---|
राज्यम् | ||
| ||
भारते राजस्थानराज्यम् | ||
राजस्थानराज्यस्य भूपटः | ||
राष्ट्रम् | भारतम् | |
उद्घोषणम् | १ नवम्बर १९५६ | |
राजधानि | जयपुर | |
मण्डलम् | ३३ | |
Government | ||
• राज्यपालः | मार्गरेट आल्वा | |
• मुख्यमन्त्री | अशोकः घेलोट | |
Area | ||
• Total | ३४२२३९ km२ | |
Area rank | १म | |
Population (२०११) | ||
• Total | ६८६२१०११२ | |
• Rank | ८म | |
• Density | २,०००/km२ | |
Time zone | UTC+05:30 (भारतीय कालगणनम्) | |
साक्षरतापरिमाणम् | ६८% (१५तम) | |
भाषा | हिन्दि, राजस्थानी, मारावाडी | |
Website | http://assam.gov.in assam.gov.in |
राजस्थानराज्यम् (Rajasthan) भारतस्य विशालतमं राज्यम् अस्ति । इदं भारतवर्षस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम्(सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे राजपूतानानाम्ना विख्यातम् । अपूर्वलोकगीतानि लोकनृयत्यानि पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लम् ३,४२,२३९ वर्ग किमी अस्ति । अस्य जनसन्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबू , तथा दिल्वारा पर्वतौ अपि प्रसिद्धौ भवतः । पूर्वराजस्थाने व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्कामृगधाम, भरतपुरादिप्रदेशेषु पक्षिसंरक्षणाकेन्द्राणि प्रसिद्धानि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।
प्राचीनेतिहासः
राजस्थानस्य प्रमुखभागेषु मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन्। गुजरात तथा राजस्थानस्य अधिकभागः “गुर्जरात्र” नाम गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि गुर्जरशासकाः "उत्तरभारतं" यवनशासकैः रक्षितवन्तः आसन् । रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनं आरब्धवन्तः । वंशस्य उत प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशाणां नामानि स्थापयन्ति स्म । उदयपुर, डूङ्गरपूर, बांसवाडा, प्रतापगढ, जोधपुर, बीकानेर, किशनगढ, सिरोही, कोटा, बून्दी, जयपुरम्, अलवर, भरतपुर, करौली, झालावाड, टोंक च संस्थानानि भवन्ति । ब्रिटिष् शासनकाले राजस्थानस्य “राजपूताना” नाम आसीत् । वंशभूषणः असाधारणः देशभक्तः “महाराणाप्रतापसिंहः” स्वपराक्रमेण विश्वेस्मिन् प्रसिद्धः आसीत् । राजस्थानराज्यं भारतस्य महत्वपूर्णं राज्यं भवति । अधीनराजानां शासने विद्यमानाः प्रान्ताः विलीनो भूत्वा ३० मार्च १९४९ तमे संवत्सरे भारतस्य राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य “राज्ञां स्थानं” इत्यर्थः । कुतश्चेत् अस्मिन् राज्ये गुर्जर, राजपूत, मौर्य तथा जाट वंशीयाः राजानः आसन् ।
भूगोलम्
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यम्, हरियाणाराज्यञ्च भवन्ति । दक्षिणे मध्यप्रदेशराज्यम्, गुजरातराज्यञ्च भवतः । पूर्वे उत्तरप्रदेशः मध्यप्रदेशश्च भवतः। पश्चिमे पकिस्तानदेशः भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति । माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे भारते विद्यमाना बृहत् थार भूमिः अस्ति । अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति । भारते अतीवबृहत् राज्यं भवति।
प्रसिद्धानि नगराणि
जयपुर
- पाटलनगरम्(Pink city) इत्यव प्रसिद्धम् ।
- अस्य राज्यस्य राजधानी ।
- सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
- नगरस्य प्रासादः मोघल तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
- “हवामहल्” सा.श. १७९९ तमे संवत्सरे सवायी प्रतापसिंहस्य नृपस्य शासनकाले निर्मतम् आसीत्। वास्तुशिल्पकारः “लाल् चन्द उस्व”।
- अमेर दुर्गे मन्दिराणि,सुन्दरौद्यानञ्च वर्तन्ते ।
- सार्वकारस्य वस्तुसङ्ग्रहालयस्य सा.श. १८७६ तमे संवत्सरे निर्माणं कृतवन्तः ।
- अभरणानि, काश्टेन निर्मितानि वस्तूनि, शस्त्राणि,चित्राणि, वस्त्राणिच सङ्ग्रहालये सन्ति ।
- जलमहल् सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
- कनकवृन्दावनं जनप्रियम् विहारस्थानं भवति ।
भरत्पूर
- राजस्थानस्य पूर्वस्य प्रवेश मार्गः भरत्पूर भवति ।
- केवलादेवी अन्ताराष्ट्रिय उद्यानम् अस्ति । बहुप्रसिद्धः पक्षिधामः अपि अस्ति ।
- लोहदुर्गः(लोहगढ) भरत्पूरस्य सुप्रसिद्धः स्थानविशेषः भवति। “ऐरन् पोर्ट”इति प्रसिद्धिः अस्य ।
- भरत्पूरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीय वीराणां शौर्यं स्फुटीकरोति ।
- भरत्पूरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं “नेहरू उद्यानम्” अस्ति ।
- डीगप्रासादः सुन्दरः बृहच्च भवति। शासकानां ग्रीष्मकालीन आवासस्थलम् आसीत।
जोधपूर
- राजस्थानस्य पश्चिमभागे विद्यमानः प्रदेशः राज्ये द्वितीयं नगरञ्च भवति । सुन्दरदुर्गः, मन्दिराणिच यात्रिकान् मोहयन्ति ।
- अस्मिन् नगरे केचन धातूनां, वस्त्राणाञ्च उद्योगाश्रिताः जनाः भवन्ति ।
- सुप्रसिद्धेषु भारतीय दुर्गेषु “मेहरानगढ” दुर्गः अपि एकः । अस्य दुर्गस्य अन्ते मोतिमहल्, फूलमहल्, शीशमहलच भवन्ति। अस्मिन्नेव कश्चन वस्तुसङ्ग्रहालयः अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानिच सन्ति ।
- उम्मेदभवन प्रासादः प्रसिद्धः सुन्दरश्च भवति ।
- “बालसमन्द सरोवरः” विहाराय योग्यं स्थलं भवति ।
- “मारवाड” प्रमुखः उत्सवः भवति। अक्टोबरमासे आचर्यते ।
- अक्टोबरमासादारभ्य मार्चमासपर्यन्तं पर्यटनार्थं योग्यः कालः ।
शिक्षणसंस्थाः
- राजस्थानविश्वविद्यालयः
- राजस्थानतान्त्रिकविश्वविद्यालयः
- राजस्थान केन्द्रीय विश्वविद्यालयः
- मोदी प्रौद्योगिकी तथा विज्ञान संस्थानम्,लक्ष्मणगढ़, (मानित विश्व विद्यालयः)
- वनस्थली विद्यापीठम् (मानित विश्विविद्यालयः)
- बिरला प्रौद्योगिकी एवं विज्ञान संस्थानम्, पिलानी (मानित विश्व विद्यालयः)
- जैन विश्विभारती विश्ववविद्यालय (मानित विश्वाविद्यालयः)
- एलएनएम सूचना प्रौद्योगिकी संस्थावनम् (मानित विश्ववविद्यालयः)
- मालवीय राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्ववविद्यालयः)
- मोहनलाल सुखाडिया विश्वपविद्यालयः,
- राष्ट्रियविधिविश्वमविद्यालयः,
- राजस्थानकृषिविश्वविद्यालयः,
- राजस्थान आयुर्वेदविश्वविद्यालयः,
- राजस्थान संस्कृपतविश्वविद्यालयः,
- बीकानेर विश्वविद्यालयः,
- कोटा विश्वविद्यालयः
मण्डलनि
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।