"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः
(लघु)No edit summary |
No edit summary |
||
पङ्क्तिः ३६: | पङ्क्तिः ३६: | ||
| leader_title = [[Governors of Uttarakhand|Governor]] |
| leader_title = [[Governors of Uttarakhand|Governor]] |
||
| leader_name = अझीझ् खुरेशि |
| leader_name = अझीझ् खुरेशि |
||
| leader_title1 = मुख्यमन्त्री |
| leader_title1 = [[मुख्यमन्त्री]] |
||
| leader_name1 = |
| leader_name1 = विजय बहुगुण |
||
| leader_title2 = विधानमण्डलम् |
| leader_title2 = विधानमण्डलम् |
||
| leader_name2 = 70 seats |
| leader_name2 = 70 seats |
||
पङ्क्तिः ६४: | पङ्क्तिः ६४: | ||
| blank_name_sec1 = [[Human Development Index|HDI]] |
| blank_name_sec1 = [[Human Development Index|HDI]] |
||
| blank_info_sec1 = 0.515 |
| blank_info_sec1 = 0.515 |
||
| blank1_name_sec1 = HDI rank |
| blank1_name_sec1 = मानवविकाससूचकाङ्कः (HDI rank) |
||
| blank1_info_sec1 = |
| blank1_info_sec1 = सप्तमः (२०११) |
||
| blank_name_sec2 = |
| blank_name_sec2 = साक्षरता |
||
| blank_info_sec2 = |
| blank_info_sec2 = ७९.६३ |
||
| blank1_name_sec2 = |
| blank1_name_sec2 = लिङ्गानुपातः |
||
| blank1_info_sec2 = |
| blank1_info_sec2 = ९६३ |
||
| blank2_name_sec2 = |
| blank2_name_sec2 = भाषाः |
||
| blank2_info_sec2 = [[हिन्दीभाषा]], गर्वाली, कुमोनि, |
| blank2_info_sec2 = [[हिन्दीभाषा]], गर्वाली, कुमोनि, |
||
| blank3_name_sec2 = |
| blank3_name_sec2 = राजभाषा |
||
| blank3_info_sec2 = [[हिन्दीभाषा]], [[संस्कृतम्]] |
| blank3_info_sec2 = [[हिन्दीभाषा]], [[संस्कृतम्]] |
||
| website = [http://uk.gov.in/ uk.gov.in] |
| website = [http://uk.gov.in/ uk.gov.in] |
||
| footnotes = |
| footnotes = |
||
}} |
}} |
||
⚫ | '''उत्तराखण्डराज्यं''' ({{lang-hi|उत्तराखण्ड राज्य}}, {{lang-en|Uttarakhand State}}) [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य [[२०००]] तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] रचनार्थं [[हिमालयः|हिमालयपर्वत]]प्रान्तस्य, उत्तराञ्चलराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]] अस्ति । अस्य राज्यस्य नाम [[२००७]] तमे संवत्सरे 'जनवरी'-मासे '''उत्तराञ्चलात्''' '''उत्तराखण्डः''' इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः [[नैनिताल्]] नगरे अस्ति । |
||
⚫ | '''उत्तराखण्डराज्यं''' (Uttarakhand) [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम् । |
||
{{लघुचतुर्धाम}} |
{{लघुचतुर्धाम}} |
||
==विभागः== |
==विभागः== |
||
[[चित्रम्:UttarakhandDistricts.png|thumb|'''मण्डलानि''']] |
[[चित्रम्:UttarakhandDistricts.png|thumb|'''मण्डलानि''']] |
||
अस्मिन् राज्ये विभागद्वयं भवति [[ |
अस्मिन् राज्ये विभागद्वयं भवति [[गढवाल]] तथा [[कुमाऊं]] इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । [[गढवाल]]विभागे [[चमोलीमण्डलम्|चमोलीमण्डलं]], [[[[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[पौडीगढवालमण्डलम्|पौडीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]], [[टिहरिगढवालमण्डलम्|टिहरिगढवालमण्डलं]], [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलं]] चास्ति । [[कुमाऊं]]विभागे [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[बागेश्वरमण्डलम्|बागेश्वरमण्डलम्]], [[नैनितालमण्डलम्|नैनितालमण्डलं]], [[पिथौरागढमण्डलम्|पिथौरागढमण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलम्]], [[उधमसिंहनगरमण्डलम्|उधमसिंहनगरमण्डलं]] चास्ति । राज्यस्य मुख्यराजभाषा [[हिन्दी]], उपराजभाषा [[संस्कृतभाषा]] चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । [[देहरादून]]-[[हरिद्वार]]-[[नैनिताल]]-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः [[नन्दादेवी]] (७८१६ मी.), [[बदरीनाथः]](७१४० मी.), [[चौखम्बा]](७१३८ मी.) तथा [[त्रिशूल्]](७१२० मी.) सन्ति । |
||
==इतिहासः== |
==इतिहासः== |
||
प्राचीनहिन्दूग्रन्थेषु |
प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । [[वेद]]काले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । [[व्यासः|व्यासमहर्षिः]] अस्मिन्नेव स्थले [[महाभारतम्|महाभारत]]काव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् [[अशोकः|अशोक]]काले [[बौद्धधर्म:|बौद्धधर्मप्रभावितम्]] आसीत् । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यस्य]] प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले [[गढवाल]],[[कुमाऊं]] च द्वे संस्थाने उत्तराखण्डे आस्ताम् । [[कुमाऊं]]संस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । [[गढवाल]]संस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । [[नेपालदेशः|नेपालदेशस्य]] ’गूर्खा’ शासकाः [[१७९१]] तमे संवत्सरे कुमाऊंराज्यं, [[१८०३]] तमे संवत्सरे [[गढवाल]]राज्यञ्च आक्रान्तवन्तः । [[१८१६]] तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं [[गढवाल]]-[[कुमाऊं]]प्रदेशौ आङ्ग्लशासने आस्ताम् । [[भारतम्|भारतस्य]] स्वातन्त्र्यानन्तरं [[टिहरि]]संस्थानम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्ये]] शासनमकरोत् । |
||
==राज्यजनसमुदायः== |
==राज्यजनसमुदायः== |
||
उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । [[पञ्जाबराज्यम्|पञ्जाबराज्यात्]] आगताः जनाः [[हिमालयः|हिमालयस्य]] ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति । |
उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । [[पञ्जाबराज्यम्|पञ्जाबराज्यात्]] आगताः जनाः [[हिमालयः|हिमालयस्य]] ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति । |
||
११:१४, २५ नवेम्बर् २०१३ इत्यस्य संस्करणं
उत्तराखण्डराज्यम् उत्तराखंड |
|||
---|---|---|---|
— State — | |||
|
|||
भारते उत्तराखण्डराज्यम् | |||
उत्तराखण्डराज्यस्य भूपटः | |||
Coordinates (देहरादून्): ३०°२०′उत्तरदिक् ७८°०४′पूर्वदिक् / 30.33°उत्तरदिक् 78.06°पूर्वदिक्निर्देशाङ्कः : ३०°२०′उत्तरदिक् ७८°०४′पूर्वदिक् / 30.33°उत्तरदिक् 78.06°पूर्वदिक् | |||
Country | भारतम् | ||
Established | ९ नवेम्बर् २००० | ||
Capital | देहरादून् | ||
Largest city | देहरादून | ||
Districts | १३ | ||
सर्वकारः | |||
• Governor | अझीझ् खुरेशि | ||
• मुख्यमन्त्री | विजय बहुगुण | ||
• विधानमण्डलम् | 70 seats | ||
• Parliamentary constituency | 5 | ||
• High Court | Uttarakhand High Court | ||
विस्तीर्णता | |||
• संहतिः | ५१,१२५ km२ | ||
क्षेत्रविस्तारः | 18th | ||
जनसङ्ख्या (2011) | |||
• संहतिः | १,०१,१६,७५२ | ||
• रैङ्क् | 19th | ||
Indian Standard Time (IST) (UTC+05:30) | |||
ऐ एस् ओ ३१६६ कोड् | IN-UT | ||
HDI | 0.515 | ||
मानवविकाससूचकाङ्कः (HDI rank) | सप्तमः (२०११) | ||
साक्षरता | ७९.६३ | ||
लिङ्गानुपातः | ९६३ | ||
भाषाः | हिन्दीभाषा, गर्वाली, कुमोनि, | ||
राजभाषा | हिन्दीभाषा, संस्कृतम् | ||
जालस्थानम् | uk.gov.in |
उत्तराखण्डराज्यं (हिन्दी: उत्तराखण्ड राज्य, आङ्ग्ल: Uttarakhand State) भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयपर्वतप्रान्तस्य, उत्तराञ्चलराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम २००७ तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति ।
चतुर्धाम | |
---|---|
केदारनाथः | बदरीनाथः |
गङ्गोत्री | यमुनोत्री |
विभागः
अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, [[देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरिगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) सन्ति ।
इतिहासः
प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् अशोककाले बौद्धधर्मप्रभावितम् आसीत् । आदिशङ्कराचार्यस्य प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले गढवाल,कुमाऊं च द्वे संस्थाने उत्तराखण्डे आस्ताम् । कुमाऊंसंस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । गढवालसंस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । नेपालदेशस्य ’गूर्खा’ शासकाः १७९१ तमे संवत्सरे कुमाऊंराज्यं, १८०३ तमे संवत्सरे गढवालराज्यञ्च आक्रान्तवन्तः । १८१६ तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं गढवाल-कुमाऊंप्रदेशौ आङ्ग्लशासने आस्ताम् । भारतस्य स्वातन्त्र्यानन्तरं टिहरिसंस्थानम् उत्तरप्रदेशराज्ये शासनमकरोत् ।
राज्यजनसमुदायः
उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । पञ्जाबराज्यात् आगताः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति ।
प्राकृतिकवर्णनम्
उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति । हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति । हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः । वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः । अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। भारतीयपवित्रतमौ महानद्यौ गङ्गा यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते । हिमालयपर्वतश्रेणेः दक्षिणे भागे उत्तराखण्डः अस्ति । उन्नतप्रदेशाः हिमेण तथा शिलया च आवृताः सन्ति । ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति । नैनिताल् जनपदस्य रामनगरे “जिम् कार्बेट् राष्ट्रियोद्यानम्” अस्ति । चमोलीजनपदे पुष्पकन्दरराष्ट्रियोद्यानम् नन्दादेवीराष्ट्रियोद्यानञ्च स्तः। उत्तरकाशीमण्डले “गोविन्दपशुराष्ट्रियोद्यानम्” “गङ्गोत्रीराष्ट्रियोद्यानञ्च” स्तः। हरिद्वारमण्डले “राजाजि राष्ट्रियोद्यानम्” अस्ति ।
प्रवासोद्यमविभागः
उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति । नैनिताल्, मस्सूरी, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।
धार्मिकक्षेत्राणि
हैन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः(चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि च भवन्ति। तथैव हरिद्वारम्, हृषीकेशः च पवित्रक्षेत्रे भवतः । सिक्खधर्मस्य “हेमकुण्डसाहेब्” पुण्यं स्थानं भवति । टिबेट् बौद्धधर्मस्य बुद्धस्थूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति ।
पुष्पकन्दरः
उत्तराञ्चलराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० कि.मी. दीर्घः २ कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च बहवः अत्र आगच्च्छन्ति । जूनमासतः सप्तम्बरमासपर्यन्तम् अत्र आगन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।
भूमार्गः
गोविन्दघाटतः गङ्गरिया २४.कि.मी. दूरे अस्ति ।
नैनिताल्
कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराज्यस्य किञ्चन नगरम् । नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतत् नगरम् कथयन्ति । नैनिताल् नगरे स्थितानि सरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणम् इत्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराणि तृणावृतप्रदेशाः अरण्यानि समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं "A Jewel among the Tourist Places" इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम अदृष्टमेव आसीत् । शिवालिकपर्वतश्रेणिः , पर्वताः, प्रपाताः च मनोहराणि सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रियोद्यानं जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे राणीखेत् अल्मोरा इत्यादीनि गिरिधामनि सन्ति ।
मार्ग:
३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । देहलीतः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।
पिण्डारी
एतत् गढवाल् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अधः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता च अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । पैन् वृक्षाणां समूहः, फेर्न् शाद्वलाः स्वाभाविकतया विकसितानि पुष्पाणि, पुष्पवन इत्यादीनि अविस्मरणीयानि भवन्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वेषामपि जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।
मार्गः
हृषीकेशतः कापकोटे पर्यन्तं वाहनप्रवासः । अनन्तरं पादचारणं च । पुनरागमन समये बजनाथतः अल्मोरा आगत्य नैनिताल् मार्गेण प्रवासः कर्तुं शक्यः । सप्टम्बर अक्टोबरमासौ उत्तमौ । P.W.D वसतिगृहणि सन्ति । हृषिकेशतः ३६६ कि.मी. । पिण्डारीतः अल्मोरा १५५ कि.मी. ।
जिम् कार्बेट् राष्ट्रियोद्यानम्
उत्तराञ्चलराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३चतुरस्र कि.मी. अस्ति । कुमाम्व् पर्वतप्रदेशे रामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः जिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।
धूमशकटमार्गः
समीपे रामनगरम् इति स्थाने धूमशकटनिस्थानम् अस्ति ।
भूमार्गः
देहलीतः २१० कि.मी. ऋजु-भूमार्गः अस्ति ।
देहरादून्
प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । अस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं विश्वे एव प्रथमम् अस्ति । अत्र एव भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । इतः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । सर्वतः भव्यानि अरण्यानि पर्वतप्रदेशाः नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति ।
मार्गः
हरिद्वारतः ५६ कि.मी. ।
धूमशकटमार्गः
डून् एक्सप्रेस् , मस्सूरी एक्सप्रेस् तः देहरादून् पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।
मसूरी पर्वतधाम
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भट्टफाल्स् स्तः । अत्युन्नतं स्थानं लालतिलनामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामल्स् बाक्स् , अथवा गन् हिल् स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।
मार्गः
देहरादून्तः २२ कि.मी. देहली-सहारनपूर- देहरादून् मार्गः । वासार्थमत्र उत्तमवसतिगृहणि सन्ति ।
गढवाल् हिमालयः
गढवाल् हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम्। उत्तराञ्चलराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति । गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति । अत्रैव चमोली, पौरिगढवाल्, टिहरीगढवाल्, देहरादून् च मण्डलानि सन्ति । गढवाल् प्रवासिजनानां स्वर्गमिति कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति । पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति। नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति । हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति ।
मार्गः
देहरादून् गढवाल् हिमालयस्य प्रवेशाय प्रवेशद्वारम्
मसूरी अतिशीतलं स्थानम् अस्ति । हिमालये यमुनानद्याः जन्मस्थानं यमुनोत्री हरिद्वारतः २६ कि.मी. दूरेऽस्ति । निबिडारण्ये एतत् सरोवरम् अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां ग्रहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लेषियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव हेमकुण्डः, पुष्पकन्दरः, दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । पिण्डारीहिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । बदरीनाथक्षेत्रं हृषीकेशतः २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । गङ्गाभागीरथ्योः सङ्गमस्थानं देवप्रयागः इति प्रसिद्धम् । गङ्गामन्दाकिन्योः सङ्गमः रुद्रप्रयागः इति ख्यातः । कर्णगङ्गागङ्गयोः सङ्गमस्थानं कर्णप्रयागः इति प्रसिद्धम् । विष्णुप्रयागः नन्दप्रयागः इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति । अत्र जनाः स्नानं कुर्वन्ति । देवालयस्य अग्रे अलकनन्दानदी प्रवहति । देवालये नारायणस्य सुन्दरी लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थानि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।
केदारनाथः पौराणिकपावित्र्यम्
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति । अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्री शङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं दर्शनीयस्थानम् ।
भूमार्गः
देहरादून् तः बदरीनाथक्षेत्रं ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवतः । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरूकैः भाव्यम् ।
अल्मोरा
हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्दराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते ।
वाहनमार्गः
मथुरा-बरेली-कोतगोण्ड-अल्मोरा – देहली-पन्तनगरम्-अल्मोरा इति वाहनमार्गः अस्ति । कतगोण्डतः ९० कि.मी. दूरं भवति । अल्मोरानगरी वसतिगृहणि सन्ति ।
गौमुखम्
उत्तरकाशीमण्डलस्य एतत् प्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति ।
मार्गः
गङ्गोत्रीतः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।
हिमालययात्रा
उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तॄन् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।
हरिद्वारं हृषीकेशः च
गङ्गानद्याः अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे गङ्गामाता मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति । हरिद्वारतः १४ कि.मी. दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।
भूमार्गः
देहलीतः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।
धूमशकटमार्गः
हृषीकेशक्षेत्रे धूमशकटनिस्थानम् अस्ति । देहलीतः अनेकानि यानानि सञ्चरन्ति ।
बाह्यानुबन्धः
- Government
- Other
.