"वानप्रस्थाश्रमः" इत्यस्य संस्करणे भेदः
(लघु) added Category:सारमञ्जूषा योजनीया using HotCat |
(लघु) clean up using AWB |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
[[गृहस्थाश्रमः|गृहस्थाश्रमे]] सर्वान् सुखभोगान् भुक्त्वा अपि तेषु आसक्तिम् अकृत्वा इन्द्रियशक्तिषु शिथिलीभूतासु तृप्तात्मना गार्हस्थ्यभारं पुत्रेषु निक्षिप्य वनं समाश्रीयते । सोऽयं तृतीयो '''वानप्रस्थाश्रमः''' । अत्र वनं समाश्रित्य स्वकर्तव्यपालनपुरस्सरं चतुर्थाश्रमस्य पूर्वसिद्धता कर्तव्या अथवा व्यक्तिगतजीवनानुरागम् अपास्य तीर्थयात्रादेशपर्यटनादिद्वारा अथवा समाजसेवाम् एव नारायणसेवा इति मत्वा समष्टिहिताय प्रयतितव्यम् । |

तत्र अग्निपुराणे (१६०-३) एवम् उक्तम्- |
तत्र अग्निपुराणे (१६०-३) एवम् उक्तम्- |
||
:''देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।'' |
:''देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।'' |
||
जीवनस्य तृतीय आश्रमोऽस्ति ‘वानप्रस्थः’ । प्राचीनयुगे ‘वानप्रस्थ’शब्दस्य '''वैखानस'''शब्दः प्रयुक्त इति ज्ञायते । ‘वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः’ ‘वनप्रस्थ एव वानप्रस्थः’ इति याज्ञवल्क्यस्मृतेः ‘मिताक्षरा’ व्याख्यायाः कथनेन नियमपूर्वकं वने चरणं हि वानप्रस्थाश्रम इति ज्ञायते । अस्मिन् आश्रमे संयमपालनं योगादिकर्मसु विशिष्टप्रवृत्तिश्च प्रमुखं कर्म । <br /> |

वार्धक्ये समागते पत्नीं पुत्रेषु विसृज्य अथवा तया साकं धर्माचरणाय ब्रह्मसाक्षात्काराय च वनं गच्छेत् । तत्र च नित्यम् आत्मपरमात्मनोः तत्त्वं विचिन्तयन् संसारबन्धनाद्विषण्णो भवेत् । विषयोपसेवनस्य परित्याग आश्रमस्यास्य प्रथमं कर्तव्यम् । <br /> |

पङ्क्तिः ३९: | पङ्क्तिः ३९: | ||
==बाह्यसम्पर्कतन्तुः== |
==बाह्यसम्पर्कतन्तुः== |
||
[[वर्गः:धर्मशास्त्रम्]] |
[[वर्गः:धर्मशास्त्रम्]] |
||
[[वर्गः:आश्रमव्यवस्था]] |
[[वर्गः:आश्रमव्यवस्था]] |
१४:११, १३ जनवरी २०१४ इत्यस्य संस्करणं
गृहस्थाश्रमे सर्वान् सुखभोगान् भुक्त्वा अपि तेषु आसक्तिम् अकृत्वा इन्द्रियशक्तिषु शिथिलीभूतासु तृप्तात्मना गार्हस्थ्यभारं पुत्रेषु निक्षिप्य वनं समाश्रीयते । सोऽयं तृतीयो वानप्रस्थाश्रमः । अत्र वनं समाश्रित्य स्वकर्तव्यपालनपुरस्सरं चतुर्थाश्रमस्य पूर्वसिद्धता कर्तव्या अथवा व्यक्तिगतजीवनानुरागम् अपास्य तीर्थयात्रादेशपर्यटनादिद्वारा अथवा समाजसेवाम् एव नारायणसेवा इति मत्वा समष्टिहिताय प्रयतितव्यम् । तत्र अग्निपुराणे (१६०-३) एवम् उक्तम्-
- देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।
जीवनस्य तृतीय आश्रमोऽस्ति ‘वानप्रस्थः’ । प्राचीनयुगे ‘वानप्रस्थ’शब्दस्य वैखानसशब्दः प्रयुक्त इति ज्ञायते । ‘वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः’ ‘वनप्रस्थ एव वानप्रस्थः’ इति याज्ञवल्क्यस्मृतेः ‘मिताक्षरा’ व्याख्यायाः कथनेन नियमपूर्वकं वने चरणं हि वानप्रस्थाश्रम इति ज्ञायते । अस्मिन् आश्रमे संयमपालनं योगादिकर्मसु विशिष्टप्रवृत्तिश्च प्रमुखं कर्म ।
वार्धक्ये समागते पत्नीं पुत्रेषु विसृज्य अथवा तया साकं धर्माचरणाय ब्रह्मसाक्षात्काराय च वनं गच्छेत् । तत्र च नित्यम् आत्मपरमात्मनोः तत्त्वं विचिन्तयन् संसारबन्धनाद्विषण्णो भवेत् । विषयोपसेवनस्य परित्याग आश्रमस्यास्य प्रथमं कर्तव्यम् ।
निःश्रेयसाधिगमस्यायमाश्रमो द्वारभूतो विद्यते । गृहस्थाश्रमे गृहस्थेषु नैसर्गिकानां क्रोधाभिमानेर्ष्या-तृष्णा-परपीडनादि दोषाणां त्यागः समुत्पद्यते ।
ये ज्ञानयुक्ताः वानप्रस्थाः स्वाश्रमविहितं तपः कर्म, हिरण्यगर्भादिविषयाविद्याः सेवन्ते । भैक्ष्यचर्यां चरन्ति ते क्षीणपुण्यपापकर्माणः सन्तः ब्रह्मलोके महीयन्त-इति मुण्डकोपनिषदः वाक्यम्-
- तपः श्रद्धे ये ह्युपसन्त्यरण्ये
- शान्ता विद्वांसो भैक्ष्यचर्या चरन्तः ।
- सूर्यद्वारेण ते विरजाः प्रयान्ति
- यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥
इति । [मुण्डकोपनिषद् ११] ’वार्धक्ये मुनिवृत्तीनाम्’ इति महाकवेः कालिदासस्य रघुवंशस्य श्लोकवाक्यमपि वार्धक्ये सर्वोऽपि जनः विषयसुखेष्वनासक्तो मुनिवृत्तिं स्वीकुर्यादिति आशयमेव व्यनक्ति ।
- तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।
- तानेवाग्नीन् परिचरेद् यजमानो दिवौकसः ।
इत्यनेन महाभारतस्य शान्तिपर्वस्थश्लोकेन वानप्रस्थाश्रमप्रवेशः सुस्पष्टः ।
- सदारो वाऽप्यदारो आत्मवान् संयतेन्द्रियः ।
- वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहस्थाश्रमात् ॥
इति तत्रस्थेन श्लोकान्तरेण गृहस्थस्तदाश्रमकृत्यानि साधु निर्वाह्य सपत्नी कोऽपत्नीको वानप्रस्थाश्रमं प्रविशेदिति ज्ञायते । वार्धक्ये समागते इन्द्रियाणां शैथिल्यकारणात् विषयेभ्यो विरागभावना नैसर्गिकी । तथापि गार्हस्थ्यं प्रति वैराग्योत्पादनाय गार्हस्थ्यदोषा महाभारते एवम् उपवर्णिताः । तथा हि-
- इदं तु दुष्करं कर्म कुटुम्बमभिसंज्ञितम्
- दानमध्ययनं यज्ञः प्रज्ञा सन्तानमार्जवम् ।
- यद्येतदेव कृत्वापि न विमोक्षोऽस्ति कस्यचित्
- धिक् कर्तारं च कार्य च श्रमश्चायं निरर्थकः ॥
धनार्जनादिसांसारिकदायित्वमापूर्य, ऋणेभ्यो मुक्तिं प्राप्य, गृहभारं कर्त्तव्यनिष्ठेषु पुत्रेषु आरोप्य, सर्वविधानि कर्त्तव्यानि परिसमाप्य, विषयपराङ्मुखः सन् वनमभ्येत्यात्मोन्नति कुर्यादिति वानप्रस्थाश्रमस्य व्यवस्थां पूर्वजाः मुनिकविजनाः मुक्तकण्ठं प्रशंसन्ति । कविकुलगुरुः कालिदासः शाकुन्तलनाटके रमणीये चतुर्थाङ्के शकुन्तलापतिगृहगमनमभिवर्णयन् कण्वमुखादस्याश्रमस्य वैशिष्ट्यमुपस्थापयति । तथा हि-
- भूत्वा चिराय चतुरन्त महीसपत्नी
- दौष्यन्तिमप्रतिरथं तनयं निवेश्य
- भर्त्रा तदर्पित कुटुम्ब भरेण सार्धं
- शान्ते करिष्यति पदं पुनराश्रमेऽस्मिन् ॥ इति । [अ. शा. चतु. २०]
- वेदानधीत्य ब्रह्मचर्येण पुत्रं
- पुत्रानिच्छेत् पावनार्थं पितृणाम् ।
- अग्निनाधाय विधिवच्चेष्टयज्ञो
- वनं प्रविश्याथ मुनिर्वुभूषेत् ॥
- अतः परं परममुदारमाश्रमं
- तृतीय माहुस्त्यजतां कलेवरम् ।
- वनौकसां गृहपतिनामनुत्तमं
- श्रुणुष्व संश्लिष्ट शरीरकारिणाम् ॥