"यज्ञे तपसि दाने च..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
:'''कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥'''
:'''कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥'''


अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।
==पदच्छेदः==
==पदच्छेदः==
यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥
यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥

०७:४६, १८ नवेम्बर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥

अन्वयः

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तदर्थीयं कर्म च एव सत् इति एव अभिधीयते ।

पदार्थः

स्थितिः = वृत्तिः
तदर्थीयम् = यज्ञदानतपःप्रयोजनार्थम्
अभिधीयते = प्रोच्यते ।

तात्पर्यम्

यज्ञाय तपसे दानाय च या स्थितिः क्रियते सापि सत् इति कथ्यते । तथा तेषां यज्ञादीनां यद् अनुकूलं कर्म वर्तते तदपि सत् इति शब्देनैव उच्यते ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=यज्ञे_तपसि_दाने_च...&oldid=284459" इत्यस्माद् प्रतिप्राप्तम्