"संन्यासस्य महाबाहो..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
:'''त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥'''
:'''त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥'''


अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य प्रथमः(१) श्लोकः ।
==पदच्छेदः==
==पदच्छेदः==
सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥
सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

०७:५७, १८ नवेम्बर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः

अर्जुन उवाच -

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः

सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

अन्वयः

महाबाहो हृषीकेश केशिनिषूदन ! सन्न्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुम् इच्छामि ।

पदार्थः

तत्त्वम् = याथात्म्यम्
केशिनिषूदन = केशिसंहारक !
वेदितुम् = ज्ञातुम् ।

तात्पर्यम्

श्रीकृष्ण ! सन्न्यासस्य याथात्म्यं त्यागस्य च याथात्म्यं पृथक् पृथक् ज्ञातुम् अभिलषामि ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=संन्यासस्य_महाबाहो...&oldid=284461" इत्यस्माद् प्रतिप्राप्तम्