"त्याज्यं दोषवदित्येके..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
:'''यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥'''
:'''यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥'''


अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य तृतीयः(३) श्लोकः ।
==पदच्छेदः==
==पदच्छेदः==
त्याज्यं दोषवत् इति एके कर्म प्राहुः मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥
त्याज्यं दोषवत् इति एके कर्म प्राहुः मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥

०८:००, १८ नवेम्बर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः

त्याज्यं दोषवत् इति एके कर्म प्राहुः मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥

अन्वयः

एके मनीषिणः दोषवत् कर्म त्याज्यम् इति प्राहुः । अपरे यज्ञदानतपःकर्म च न त्याज्यम् इति ।

पदार्थः

एके = अन्ये
मनीषिणः = बुधाः
दोषवत् = दोषः इव
त्याज्यम् = वर्जनीयम्
प्राहुः = वर्णयन्ति
अपरे = इतरे
यज्ञदानतपःकर्म = यागवितरणतपःकर्म ।

तात्पर्यम्

अन्ये बुधाः यथा दोषः तथा कर्म वर्जनीयम् इति वदन्ति । इतरे तु यज्ञदानतपःकर्म न वर्जनीयम् इति वदन्ति । व्याकरणम् - यज्ञश्च दानं च तपश्च यज्ञदानतपांसि - द्वन्द्वः । यज्ञदानतपांसि इति कर्म यज्ञदानतपःकर्म - कर्मधारयः । त्यजधातोः कर्मणि ण्यति त्याज्यमिति शब्दः, त्यक्तव्यम् इत्यर्थः ।

सम्बद्धसम्पर्कतन्तुः