"नष्टो मोहः स्मृतिर्लब्धा..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
:'''स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥'''
:'''स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥'''


अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(६३) श्लोकः ।
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(७३) श्लोकः ।


==पदच्छेदः==
==पदच्छेदः==

०६:५७, १९ नवेम्बर् २०१४ इत्यस्य संस्करणं

गीतोपदेशः

अर्जुन उवाच -

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(७३) श्लोकः ।

पदच्छेदः

नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव ॥

अन्वयः

अच्युत ! तव प्रसादात् मोहः नष्टः । स्मृतिः मया लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।

पदार्थः

अच्युत = श्रीकृष्ण !
त्वत्प्रसादात् = भवदनुग्रहात्
मोहः = अविवेकः
स्मृतिः = स्मरणम्
लब्धा = प्राप्तम्
गतसन्देहः = विगतसंशयः
स्थितः = भूतः
वचनम् = वाक्यम्
करिष्ये = आचरिष्यामि ।

तात्पर्यम्

श्रीकृष्ण ! भवदनुग्रहात् अविवेकः अपगतः । कर्तव्यस्मरणं मम जातम् । विगतसन्देहः स्थितः अस्मि । तव वचनम् आचरयिष्यामि ।

सम्बद्धसम्पर्कतन्तुः