"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: + {{Interwiki conflict}}
No edit summary
पङ्क्तिः ३१: पङ्क्तिः ३१:


==क्रीडाङ्गणं क्रीडोपकरणानि च==
==क्रीडाङ्गणं क्रीडोपकरणानि च==

:(क)क्रीडा`णरुपं काष्ठपीठम्
:(क)क्रीडा`णरुपं काष्ठपीठम्
‘टेबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।
‘टेबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।
पङ्क्तिः ४७: पङ्क्तिः ४६:


==क्रीडकाः क्रीडा विधयश्च==
==क्रीडकाः क्रीडा विधयश्च==

'''क्रीडकाः'''
'''क्रीडकाः'''
अस्यां क्रीडायां द्वौ चत्वारो वा क्रीडका भागं ग्रुहीतुं शक्नुवन्ति । उभयतो यदैकैकः क्रीडको भवति तदा ’सिंगल्स्-गेम’ एकलक्रीडा तथा यदा द्वौ द्वौ क्रीडकौ भवतस्तदा ‘डबल्स-गेम’ युग्मकक्रीडेति कथयन्ति ।
अस्यां क्रीडायां द्वौ चत्वारो वा क्रीडका भागं ग्रुहीतुं शक्नुवन्ति । उभयतो यदैकैकः क्रीडको भवति तदा ’सिंगल्स्-गेम’ एकलक्रीडा तथा यदा द्वौ द्वौ क्रीडकौ भवतस्तदा ‘डबल्स-गेम’ युग्मकक्रीडेति कथयन्ति ।
पङ्क्तिः ८९: पङ्क्तिः ८७:
[[वर्गः:कन्दुकक्रीडाः]]
[[वर्गः:कन्दुकक्रीडाः]]


{{Link GA|fr}}
{{Link FA|de}}
{{Link FA|af}}
[[it:Tennis tavolo]]
[[jv:Ping pong]]
{{Interwiki conflict}}
{{Interwiki conflict}}

१३:४६, २४ मार्च् २०१५ इत्यस्य संस्करणं

टेबल्-टेनिस्-क्रीडा
Table tennis at the highest level
नियामकगणः International Table Tennis Federation
प्रथमक्रीडा 1880s England
वैशिष्ट्यसमूहः
सम्पर्कः No
गणसदस्याः Single or doubles
वर्गीकरणम् Racquet sport, indoor
उपकरणम् Celluloid, 40 mm
उपस्थितिः
ओलिम्पिक् Part of Summer Olympic programme in 1988 to today

काष्ठपीठफलककन्दुकक्रीडा (Table Tennis)

अत्यन्त-स्वल्पभारं द्रवरचितमहो ! कन्दुकं काष्ठपीठे
जालं बदध्वाऽथ मध्ये तदुभय तटयोः क्रीडकौ वर्तमानौ ।
आयान्तं वा प्रयान्तं फलक पटलतस्ताडयन्तौ रमेते
सेयं क्रीडा मनोज्ञा रसयति हृदयं टेनिसाख्याऽद्वितीया ॥

ऐतिहासिकी पृष्ठभूमिः

इयं क्रीडा कदा कुत्र प्रारब्धा ? विषयेऽस्मिन् नास्ति मतैक्यं सर्वेषाम् । श्रूयते यत् पुरा प्रारम्भे क्रीडामिमां ‘पिंग्-पांग्’ नाम्ना सम्बोधयन्ति स्म । केषाञ्चिदभिमतमस्ति यदियं क्रीडा सर्वप्रथममिङ्लैण्डवासिभिः क्रीडिता । अपरे च मतमिदं खण्डयन्ति, तथापीदं तु निश्चिचतमेवास्ति यत् प्रायः सन् १८६२ तमवर्षस्य निकटे क्रीडेयं ‘पिंग-पांग’ नम्ना फान्स-अमेरिका -इंग्लैण्ड -प्रभृतिषु देशेषु क्रीडयते स्म । द्वितीय-महायुद्धानन्त्रमस्या अभिधानं ‘टेबल् टेनिस’ इति प्रसिद्धि मागमत् । अधुनातः शतवर्षेभ्यः पूर्वं जना इमां क्रीडां क्रीडां न मत्वा केवलं बालचापलमेव मन्वते स्म । इंग्लैण्डेऽपि, यदस्याः क्रीडाया जन्मस्थानं मन्यते, अस्यै १६२० ई० वर्षे मान्यताऽदियत किञ्च तत्रापि कारणमिदमभूद यदस्यै यदि मान्यता न दास्यते तदेयं चिरकालाय समाप्स्यतीति । अस्याः क्रीडायाः प्रथमा विश्व्प्रतियोगिता १६२६ वर्षे समायोज्यत । तदैव ‘इंगलिश टेबल टैनिस एसोसिएशन्’ संस्थायाः संस्थापनमभूद् नियमाश्च निर्धारिताः । साम्प्रतमियमतीव लोकप्रियतां प्राप्यान्ताराष्ट्रियां ख्यातिमर्जयन्ती सर्वत्र क्रीडयते । भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऐंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।

१६२६ ई० वर्षे टेबल-टैनिस-क्रीडायाः प्रगतिश्चरम-सीम्नि प्रगता यदा विक्टरबार्ना-क्रीडकः स्वीयं कलात्मकं क्रीडनं प्रदर्श्य विश्वं विस्मितवान । स रक्षात्मकमाक्रमणात्मकं च क्रीडनं सम्मिश्रय फोरहेण्ड -बेक-हेण्ड-क्रीडयोश्च सारल्येन मिश्रणं विधायास्यै च क्रीडायै नवीनं रुपमदात् । तस्यैतेन कलात्मकेन क्रीडनेन नवनवेषु क्रीडकेषु नवीनाः प्रेरणाः प्रवर्तिताः । ततः परमद्यावधि क्रीडेयं निरन्तरं प्रगतिमती दृश्यते ।

क्रीडाङ्गणं क्रीडोपकरणानि च

(क)क्रीडा`णरुपं काष्ठपीठम्

‘टेबल-टेनिस’ -क्रीडा कस्यापि भू-क्षेत्रस्य क्रीडा नास्ति, अपि त्वियमेकस्मिन् विशाले काष्ठपीठे (मेज) क्रीडयते । अत एवास्या अभिधानं ‘टेबल्-टैनिस’ इत्यस्ति । केवलं ‘टेनिस’ इति कथनेन स्पष्टं न भवति स्म, यत इयं भूमावपि क्रीडयते स्म तथा काष्ठ्पीठेऽपि ।

पीठाय काष्ठफलकस्य स्थूला न्यूनातिन्यूनं ३/४ इञ्चमिता तथाऽधिकाधिकम् १ इञ्चमिता भवति । अन्तराष्ट्रियासु प्रतियोगितासु प्रायः २/४ मिता स्थूलता स्वीक्रियते । फलकमतिस्निग्धं समतलञ्चापेक्षितमस्ति । साम्प्रतं काष्ठस्य स्थानेऽन्येषां पदार्थानामप्युपयोगो भवति । पीठस्य परिक्षणाय कन्दुक १२ इञ्चोर्ध्वतः पात्यते पतनात् परं तस्य पुनरुत्पतनं ८-९ इञ्चमितमावश्यकं मन्यते । पीठस्यायामः ९ फुटमितः ५ फुटमितश्च विस्तारः । पादानामुच्चताः १ १/२ फुटमिता भवन्ति । पीठस्योपरितनो भागः ‘फ्लेइंग-सरफेस’ क्रीडनीय मुखभाग इति कथ्यते । अस्य भागस्य दीप्तिमत्ता नापेक्षिता, अपि तु गहनेन वर्णन रञ्जनं विधाय चतुर्भिरपि तटभागैः सह ३/४ इञ्चस्थूला श्वेता पंकितराकृष्यते । मञ्चस्य ५ फुटमिता विस्तृत भागस्य रेखा ‘एण्डलाइन्’ अन्त्यरेखा तथा ९ फुटमिते प्रलम्बाभागस्य रेखे ‘साइड-लाइन’ पार्श्वरेखे उच्येते । अस्याः क्रीडार्थं भूतलभागः २५ फुट-आयतः १५ फुट-विस्तृतश्च भवति । काष्ठपीठाद् भवनभित्तेरन्तरं ८ फुटमितं क्रियते । क्रीडाभवने प्रकाशव्यवस्था समीचीना विधीयते । महिलाभ्यओ भूतल-भागः ३६ फुट आयतस्तथा १८ फुट विस्तृत उत्तमो गण्यते ।

(ख) जालिका (नैट) तत्स्तम्भौ (नैट-पोस्ट) च -

पीठस्यायामीयभागयो ४ १/२ फुटमितेऽन्तराले, एका जालिका निबद्धयते, या अन्त्यपङ्कतेः समानान्तरेण मञ्चं द्वयोर्भागयोर्विभनक्ति । जालिकाया आयामः ६ फुटमितस्तथा मञ्चपटलात् (प्लेइंग सरफेसतः) ६ इञ्चमित उन्नतोऽधोभागश्च तस्यास्तत्पटलस्पृग भवति । जालिकाया उभयोर्भागयोर्निबद्धयोः स्तम्भयोस्सकृष्टा च क्रियते । पार्श्चरेखाभ्यां जालिका ६ इञ्चमिता बहिर्निः सृता भवति ।

(ग) कन्दुकः-

कन्दुको वृत्ताकारः श्वेत -सोमूलाइट -पदार्थेन निर्मितश्च भवति । अस्य भारः ३७ तः ३९ ग्रेनमितोऽपेक्ष्यते । वृत्तस्याकारः ४ १/२ तः ४ ३/४ इञ्चमितःअ साधु मन्यते ।

(घ) फलकम् (रैकेट अथवा बेट)

फलकमिदं केनापि वस्तुना निर्मितं गृह्यते परं तद् दिप्तिमद् श्वेतवर्णं वा न भवेत् । आकारस्य विषये नास्ति कश्चन विशिष्टो बन्धः । अस्य निर्मितौ विशिष्टप्रकारस्य काष्ठफलकस्य प्रयोगो विधीयते । सर्वप्रथमं येन फलकेन क्रीडयते स्म स ‘कार्क सेण्डपेपर’ स्याथवा काष्ठस्य भवति स्म । साम्प्रतं ‘प्लाईवुड्’ निर्मितमुपयुज्यते तदुपरि कणापूर्णं रबर्-पदार्थस्यावरणमपि योज्यते । अस्य भारः ४ १/२ औसतो ६ १/२ औसपर्यन्तो भवति । अस्य नमनीयताऽपि साधीयसी मन्यते । धारणप्रक्रिया टेनिस्-फलकवदेव विद्यते

क्रीडकाः क्रीडा विधयश्च

क्रीडकाः अस्यां क्रीडायां द्वौ चत्वारो वा क्रीडका भागं ग्रुहीतुं शक्नुवन्ति । उभयतो यदैकैकः क्रीडको भवति तदा ’सिंगल्स्-गेम’ एकलक्रीडा तथा यदा द्वौ द्वौ क्रीडकौ भवतस्तदा ‘डबल्स-गेम’ युग्मकक्रीडेति कथयन्ति ।

क्रीडाविधयः

(क) क्रीडारम्भस्य तथा क्षेत्रचयनस्य नियमाः प्रायः पूर्ववर्णित -लान् -टेनिस क्रीडवदेव सन्ति ।
(ख) क्रीडारम्भण- क्षेत्रपरिवर्तन-नियमाः- पञ्चअङ्कनप्राप्यनन्तरं क्रीडरम्भणस्य परिवर्तनं भवति तच्च प्रतिपञ्चाङ्कनोपलब्ध्यनन्तरं क्रमेण विधीयते । गेम-पूर्त्यनन्तरं पुनर्येन क्रीडकेन प्रारम्भो विहितस्तस्य प्रतिपक्षी प्रारम्भणं करोति । यदि प्रतिस्पर्धा एकस्य चक्रस्याथवा तदधिकचक्राणां भवति तदा २० अङ्कनप्राप्त्यनन्तरं क्रीडाक्शेत्रं परिवर्त्यते ।
(ग) उत्तमप्रतिदानम् (गुड्-सर्विस)

प्रारम्भकः कन्दुकं करतले संस्थाप्योच्छालयति ततः परं च फलकेन ताडयति । प्रतिपक्षी क्रीडकोऽपि तथैव प्रतिददाति तदा तद् ‘गुडरिटर्न’-उत्तमप्रतिदानं गद्यते । लैट-परिणामराहित्यं, अङ्कन-पराजयः, कन्दुकस्य क्रीडावस्थितिः क्रीडाक्रमनिर्वाचनं, नियमभङ्गश्च पूर्ववदेव प्रायः सन्ति । गणनायां यस्याङ्क नान्यधिकानि भवन्ति स विजयते । अस्याः क्रीडायाः स्पर्धायां १० अङ्कनानन्तरं क्रीडकाः स्थानपरिवर्तनं कुर्वन्ति । एकस्मिन् चक्रे १२ अङ्कनानि भवन्ति । येन क्रीदकेन पूर्वं ११ अङ्कनानि प्राप्तानि स विजयी भवति । यदि द्वावपि क्रीडकौ २०-२० अङ्कने प्राप्नुतस्तर्हि विजयिना क्रीड्केन द्व अङ्कने भूयोऽपि प्रापणीये भवतः । इयं गणना ३०-३२ पर्यन्तमपि कदाचिद् गच्छति । एकलक्रीडने ३ अथवा ५ क्रीडाचक्राणां ‘गेम्’ भवति । सम्प्रति प्रायः १ गेम -क्रीडवत्येव प्रतियोगिता भवति ।

युग्मकक्रीडाया द्वौ प्रकारौ स्तः -१पुरुषयुग्मकः (मैन्स डबल्स्) तथा २-मिश्रितयुग्मकः (मिक्स्ड डबल्स) । अनयोः क्रमेण प्रथमे क्रीडने द्वौ द्वौ पुरुषौ भवतस्तथा द्वितीये एकः पुरुष एका महिला, अकः प्रुरुष एका महिला च । अस्यां क्रीडायां युग्मक एकं परित्यज्य तृतीयेऽवसरे कन्दुकताडनं करोति । एतेन मिश्रितयुग्मके पुरुषे महिला च दीर्धकालं यावत् क्रीडितुं शक्नुतः । पुरुषश्चाधिकस्फूर्तिमत्तयाऽधिकान्यङ्कनानि जेतुं शक्नोति ।

क्रीडामञ्चो द्वयोर्भागयोर्मध्यरेखया विभज्यते । वामक्षेत्रदक्षक्षेत्ररुपेण ख्याते इमे क्षेत्रे भवतः । रेखायां कन्दुको यदि भूमिस्पर्शं विधत्ते तहर्युत्तमः क्रीडारम्भोमन्येते । पञ्चाङ्कनानामारम्भणाक्रियानन्तरं क्रीडकाः स्वं स्थानं परिवर्तयितुं शक्नुवन्ति किं वा दक्ष-वामभागयोः परिवर्तने क्षमा भवन्ति ।

केचन विशिष्टा निर्देशाः शब्दाश्च

टेबल- टैनिस -क्रीडायाः सर्वत्र प्रचारेण् यस्य कस्यापि मनसि चिक्रीडिषोदेति । तदर्थं प्रारम्भिक-शिक्षर्थिना पूर्वं निम्नमिखितानां प्राक्रियाणामभ्यासः समीचीनतया कर्तव्यः -

१- कन्दुक -परिभ्रमणाभ्यासः -एतदर्थं क्रीडासु ‘स्पिन’ शब्दः प्रयुज्यते । कन्दुकस्य परिभ्रमणाय तदुपरि तादृशं ताडनं विधीयते येन कन्दुकः परिभ्रमन पूर्वं दक्षत आगच्छन प्रतीयेत परं स वामभागे पतेत् अयं विधिः क्रमशः पार्श्व वेधक विपरीतभ्रमण् -(साइडस्पिन-क्रास -स्पिन-टाप- स्पिन -बौटम- स्पिन) रुपैरभ्यस्तव्यः । एतेषां क्रीडन- पद्धतौ विशिष्य महत्त्वं विद्यते । क्रीडारम्भणा (सर्विस)-प्रक्रियायामेते ताडन- विधयः प्रत्युज्यन्ते । यदा कदा क्रीडको ‘ मिवस्ड्-स्पिन’ मिश्रितपरिभ्रामण’ -विधिमपि प्रयोजयति यस्मिन् ताडन-फलकस्य -प्रयोग-विशेषा यथा यथं विवेकेन प्रयोजनीया भवन्ति । एवमेव ताडन-द्वारा परावर्तन- क्रिया अपि ज्ञातव्याः सन्ति ।

अस्यां क्रीडन्यां शाट-ताडनम्, स्मेश-आक्रमणाताडनम्, ड्राइव -मन्दगत्या परावर्तनम् , फौरहैण्डा-अटैक-द्क्षवाम- हस्ताभ्यामाक्रमणं, डिफेन्सिव्-प्ले -प्रतिरक्षाक्रीडायां च प्लेट-किलशाट -चौपशाट-ब्लौकिंगशाट -फौरहेण्ड-चौप -बैकहेण्डचौप प्रभृतिशब्दा विशिष्टा ज्ञातव्यास्तथा तदनुसारं क्रीडासु प्रयोक्तव्याः ।

काष्ठ -मञ्चकमतीव विस्तृतं, क्षेत्ररुपमवलम्ब्य खेलने ।
कन्दुकं फलक -ताडानैर्भृशं, क्रीडयन्ति मुदिताः परस्परम् ॥१॥
प्रादानं वा प्रदानं विदधति विविधैस्ताडनैः ‘कन्दुकस्य
क्रीडायां ’ स्पर्धमानं पुरुषयुगलकं तुर्यकं मिश्रितं वा ।
नास्ते कालस्य बन्धः किमपि न कठिनं यत्र खेला-विधाने
नो वा स्थानावबन्धो भवति च सरलैः साधनैः सिद्धिलाभः ॥२॥

आधारः


"https://sa.wikipedia.org/w/index.php?title=टेबल्-टेनिस्-क्रीडा&oldid=292192" इत्यस्माद् प्रतिप्राप्तम्