"उत्तरकाशीमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ५३: पङ्क्तिः ५३:
[[चित्रम्:Uttarkashi chart.png|left|250px]]
[[चित्रम्:Uttarkashi chart.png|left|250px]]


उत्तरकाशीमण्डलस्य जनसङ्ख्या(२०११) ,०१६ अस्ति । अत्र १,६८,५९७ पुरुषाः, १,६१,४८९ स्त्रियः, ४६,३०७ बालकाः (२४,१६५ बालकाः, २२,१४२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ७५.८१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८८.७९% स्त्री – ६२.३५% अस्ति ।
उत्तरकाशीमण्डलस्य जनसङ्ख्या(२०११) समस्ता ३,७६,३९३ अस्ति । तस्मिन् , १,६८,५९७ पुरुषाः, १,६१,४८९ स्त्रियः, ४६,३०७ बालकाः (२४,१६५ बालकाः, २२,१४२ बालिकाः च ) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ७५.८१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८८.७९% स्त्री – ६२.३५% अस्ति ।


== उपमण्डलानि ==
== उपमण्डलानि ==

०६:२०, १८ मे २०१५ इत्यस्य संस्करणं

उत्तरकाशीमण्डलम्

Uttarkashi District
उत्तरकाशी जिला
उत्तरकाशीमण्डलम्
उत्तरकाशीमण्डलस्य गङ्गोत्रीमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि मोडी, भाटवाडी, पुरौला, राजगढी, डूण्डा, चिन्यलीसौर
विस्तारः ८,०१६ च.कि.मी.
जनसङ्ख्या(२०११) ६,१८,९३१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७५.८१%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://tehri.nic.in/

उत्तरकाशीमण्डलम् ( /ˈʊttərəkɑːʃɪməndələm/) (हिन्दी: उत्तरकाशी जिला, आङ्ग्ल: Uttarkashi District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उत्तरकाशी इति नगरम् । उत्तरकाशीमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले गङ्गोत्री-यमुनोत्री-मन्दिरे स्तः ।

भौगोलिकम्

उत्तरकाशीमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि हिमाचलप्रदेशः, चीनदेशः च, दक्षिणदिशि देहरादूनमण्डलं, पौरीगढवालमण्डलं, रुद्रप्रयागमण्डलं च, पूर्वदिशि चमोलीमण्डलं, चीनदेशः च, पश्चिमदिशि देहरादूनमण्डलम् अस्ति ।

जनसङ्ख्या

उत्तरकाशीमण्डलस्य जनसङ्ख्या(२०११) समस्ता ३,७६,३९३ अस्ति । तस्मिन् , १,६८,५९७ पुरुषाः, १,६१,४८९ स्त्रियः, ४६,३०७ बालकाः (२४,१६५ बालकाः, २२,१४२ बालिकाः च ) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ७५.८१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८८.७९% स्त्री – ६२.३५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मोडी, भाटवाडी, पुरौला, राजगढी, डूण्डा, चिन्यलीसौर

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि मन्दिराणि सन्ति । यथा – गङ्गोत्रीमन्दिरं, यमुनोत्रीमन्दिरं, शनिमन्दिरं, भैरवमन्दिरं, कपिलमुनेः आश्रमः, कर्णदेवता, पोखुदेवता, दुर्योधनमन्दिरम् ।

गङ्गोत्रीमन्दिरम्

मानवानां सर्वाणि पापानि हरन्ती नदी अस्ति गङ्गा । अतः नदीषु गङ्गायाः पूजा सर्वाधिका भवति । गङ्गानदी पवित्रतायाः प्रतीकः अस्ति । अतः कथ्यते यत्, अमुकजलं गङ्गाजलवत् पवित्रमस्तीति । पुराणे कथास्ति यत्, मानवानां पापशमनार्थं, पालनार्थञ्च विष्णुः गङ्गां स्वपादाङ्गुष्ठात् उद्भावयत् । गङ्गायाः उद्भवे सति तस्याः पूजा प्रारभत । एवम् एतस्मिन् स्थले गङ्गायाः पवित्रमन्दिरस्य निर्माणमभूदिति । अस्मात् मन्दिरादेव अस्य स्थलस्य नाम गङ्गोत्रीति । अन्या कथास्ति यस्यां भगीरथनामकः राजा गङ्गायाः प्रवाहमार्गं प्रशस्तं कर्तुं तपस्तप्यत । तस्य तपसा एव गङ्गायाः अवतरणं स्वर्गात् भूलोके अभूदिति । अतः गङ्गायाः अपरं नाम भागीरथी अस्ति ।

यमुनोत्री

गङ्गायाः वर्णः श्वेतः इति कथ्यते । यमुनायाः वर्णः कृष्णः श्यामः वा इति कथ्यते । यमुनोत्रीयात्रा क्लिष्टतमा यात्रास्ति । यमुनानदी कालिन्दीपर्वतात् उद्भवति । यमुनोत्रीयात्रायाः मार्गे मार्कण्डेयर्षेः आश्रमः अस्ति । अनुमानमस्ति यत्, तत्र स्थित्वैव मार्कण्डेयर्षिः मार्कण्डेयपुराणम् अलिखत् ।

अस्मिन् मण्डले अन्यानि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – नेहरु इन्स्टिट्युट् ओफ माउण्टेनिंग्, विझ्डम् कोटेज्, गोबाण्ड् नेशनल् पार्क्, पुलोरा एक्वेशनस्, टिहरी शहीद स्मारक ।

बाह्यानुबन्धः

http://uttarkashi.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/uttarkashi.htm

http://www.euttaranchal.com/uttaranchal/uttarkashi.php

"https://sa.wikipedia.org/w/index.php?title=उत्तरकाशीमण्डलम्&oldid=296596" इत्यस्माद् प्रतिप्राप्तम्