"शान्ता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]

१२:१४, २३ जुलै २०१५ इत्यस्य संस्करणं

शान्ता दशरथस्य पुत्री। रामादीनाम् अग्रजा। दशरथस्य मित्रम् अङ्गाधिपः रोमपादः। रोमपादस्य अपत्यं न आसीत्। अतः मित्रस्य दुःखनिवारणाय दशरथः स्वपुत्रीं शान्तां रोमपादाय दत्तकरूपेण दत्तवान् आसीत्। अग्रे तस्याः विवाहः ऋष्यशृङ्गेन सह अभवत्। ऋष्यशृङ्गः कश्चन महान् तपस्वी । अग्रे यदा दशरथः पुत्रकामेष्ठियागं कृतवान् तदा ऋष्यशृङ्गस्य एव पौरोहित्यम् आसीत्। इदानीन्तनकर्णाटकस्य चिक्कमगळूरुमण्डलस्य शृङ्गेरीसमीपे तस्य आश्रमः आसीत् । ‎

"https://sa.wikipedia.org/w/index.php?title=शान्ता&oldid=302339" इत्यस्माद् प्रतिप्राप्तम्