"अपाने जुह्वति प्राणं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीमद्भगवद्गीतायाः श्लोकाः using AWB
पङ्क्तिः ६: पङ्क्तिः ६:


अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवविंसतितमः (२९) श्लोकः ।
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवविंसतितमः (२९) श्लोकः ।



==पदच्छेदः==
==पदच्छेदः==
पङ्क्तिः ३६: पङ्क्तिः ३५:
[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 29]]
[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 29]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]

१०:२४, ५ सेप्टेम्बर् २०१५ इत्यस्य संस्करणं

गीतोपदेशः
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवविंसतितमः (२९) श्लोकः ।

पदच्छेदः

अपाने, जुह्वति, प्राणं, प्राणे ,अपानं, तथा,अपरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अन्वयः

प्राणायामपरायणाः अपरे प्राणापानगती रुद्ध्वा प्राणम् अपाने जुति, तथा प्राणे अपानं जुह्वति ।

पदार्थः

प्राणायामपरायणाः = प्रणायामतत्पराः
अपरे = इतरे
प्राणापानगती = प्राणापानवायुगमने
रुद्ध्वा = निरुध्य (कुम्भकः)
प्राणम् = प्राणवायुम् (पूरकः)
अपाने = अपानवायौ
जुह्वति = समर्पयन्ति
तथा = एवम्
प्राणे = प्राणवायौ
अपानम् = अपानवायुम्
जुह्वति = समर्पयन्ति (रेचकः) ।

तात्पर्यम्

केचन प्राणायामपरायणाः योगिनः अपानवायौ प्राणवायुं समर्पयन्ति । इतरे प्राणवायौ अपानवायुं समर्पयन्ति । एवं कुम्भक-रेचक-पूरकादिक्रमेण प्राणायामं कुर्वन्तः आत्मसंयमनं कुर्वन्ति ।

शाङ्करभाष्यम्

किंच-अपान इति। अपानेऽपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम्। पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः। प्राणेऽपानं तथापरे जुह्वति रेचकाख्यं च प्राणायामं कुर्वन्तीत्यतत्, प्राणापानगती मुखनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतस्तद्विपर्ययेणाधोगमनमपानस्य ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः।प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः।।29।।

बाह्यसम्पर्कतन्तुः