"जरामरणमोक्षाय..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: श्रीमद्भगवद्गीतायाः श्लोकाः using AWB
पङ्क्तिः ३१: पङ्क्तिः ३१:
[[वर्गः:ज्ञानविज्ञानयोगः| 29]]
[[वर्गः:ज्ञानविज्ञानयोगः| 29]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]

१०:४५, ५ सेप्टेम्बर् २०१५ इत्यस्य संस्करणं

गीतोपदेशः
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥

पदच्छेदः

जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मं कर्म च आखिलम् ॥ २९ ॥

अन्वयः

ये माम् आश्रित्य जरामरणमोक्षाय यतन्ति ते तत् ब्रह्म कृत्स्नम् अध्यात्मम् अखिलं च कर्म विदुः ।

पदार्थः

ये = ये मानवाः
जरामरणमोक्षाय = जरामृत्युहानाय
माम् आश्रित्य = माम् अवलम्ब्य
यतन्ति = यतन्ते
ते = ते मानवाः
तत् ब्रह्म = प्रसिद्धं परमात्मानम्
कृत्स्नम् = समग्रम्
अध्यात्मम् = आत्मविषयम्
अखिलम् = समस्तम्
कर्म च = कर्तव्यं च
विदुः = जानन्ति ।

तात्पर्यम्

ये मानवाः माम् अवलम्ब्य जरामरणविमोक्षाय प्रयतन्ते ते मानवाः तत् परब्रह्म जानन्ति तथा समग्रम् आत्मविषयं कर्तव्यं च जानन्ति ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जरामरणमोक्षाय...&oldid=315643" इत्यस्माद् प्रतिप्राप्तम्