"श्रेयान्द्रव्यमयाद्यज्ञात्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
1
पङ्क्तिः ४५: पङ्क्तिः ४५:
==शाङ्करभाष्यम्==
==शाङ्करभाष्यम्==
ब्रह्मार्पणमित्यादिश्लोकेन सम्यग्दर्शनभ्य यज्ञत्वं संपादितं यज्ञाश्चानेक उपदिष्टास्तैः सिद्धपुरुषार्थप्रयोजनैर्ज्ञानं स्तूयते। कथं-श्रेयानिति। श्रेयान्द्रव्यमयाद्द्रव्यसाधनसाध्याद्यज्ज्ञानयज्ञोहे परंतप। द्रव्यमयो हि यज्ञः फलस्यारम्भको ज्ञानयज्ञो न फलारम्भकोऽतः श्रेयान्प्रशस्यतरः। कथं, यतः सर्वं कर्म समस्तमखिलमप्रतिबद्धं पार्थ, ज्ञाने मोक्षसाधनेसर्वतः संण्लुतोदकस्थानीये परिसमाप्यते। अन्तर्भवतीत्यर्थः। 'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभिसमेति यत्किंतित्प्रजाः साधु कुर्वन्ति यस्तद्वेदयत्स वेद' इति श्रुतेः ।।33।।

==बाह्यसम्पर्कतन्तुः==

{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः =[[एवं बहुविधा यज्ञा...]]|अग्रिमश्लोकः = [[तद्विद्धि प्रणिपातेन...]]}}
[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 0| 33]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]

०७:०२, ३१ अक्टोबर् २०१५ इत्यस्य संस्करणं

श्लोकः

गीतोपदेशः
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः

श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

अन्वयः

परन्तप ! द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् । पार्थ ! सर्वं कर्म ज्ञाने अखिलं परिसमाप्यते ।

शब्दार्थः

परन्तप = शत्रुतापक !
द्रव्यमयात् = द्रव्यसाध्यात्
यज्ञात् = यागात्
ज्ञानयज्ञः = आत्मज्ञानरूपो यज्ञः
श्रेयान् = वरीयान्
पार्थ = अर्जुन !
सर्वम् = समस्तम्
कर्म = यज्ञरूपं कर्म
ज्ञाने = आत्मज्ञाने
अखिलम् = फलसहितम्
परिसमाप्यते = पर्यवस्यति ।

अर्थः

हे अर्जुन ! सांसारिकवस्तुभिः सिद्धात् यज्ञात् आत्मज्ञानरूपो यज्ञः श्रेष्ठः भवति । यतः सर्वाणि कर्माणि ज्ञाने एव परिसमाप्तिं गच्छन्ति, फलत्वात् ।

शाङ्करभाष्यम्

ब्रह्मार्पणमित्यादिश्लोकेन सम्यग्दर्शनभ्य यज्ञत्वं संपादितं यज्ञाश्चानेक उपदिष्टास्तैः सिद्धपुरुषार्थप्रयोजनैर्ज्ञानं स्तूयते। कथं-श्रेयानिति। श्रेयान्द्रव्यमयाद्द्रव्यसाधनसाध्याद्यज्ज्ञानयज्ञोहे परंतप। द्रव्यमयो हि यज्ञः फलस्यारम्भको ज्ञानयज्ञो न फलारम्भकोऽतः श्रेयान्प्रशस्यतरः। कथं, यतः सर्वं कर्म समस्तमखिलमप्रतिबद्धं पार्थ, ज्ञाने मोक्षसाधनेसर्वतः संण्लुतोदकस्थानीये परिसमाप्यते। अन्तर्भवतीत्यर्थः। 'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभिसमेति यत्किंतित्प्रजाः साधु कुर्वन्ति यस्तद्वेदयत्स वेद' इति श्रुतेः ।।33।।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
एवं बहुविधा यज्ञा...
श्रेयान्द्रव्यमयाद्यज्ञात्... अग्रिमः
तद्विद्धि प्रणिपातेन...