"इहैव तैर्जितः सर्गो..." इत्यस्य संस्करणे भेदः
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB |
1 |
||
पङ्क्तिः ५०: | पङ्क्तिः ५०: | ||
नन्वभोज्यान्नास्ते दोषवन्तः 'समासमाभ्यां विषमसमे पूजातः' इति स्मृतेर्न ते दोषवन्तः। कथम्-इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर्जितो वशीकृतः सर्गो जन्मयेषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं स्थितं निश्चलीभूतं मनोऽन्तःकरणं निर्देषम। यद्यपि दोषवत्सु श्वपाकादिषु मूढैस्तद्दोषैर्दोषवदिवविभाव्यते तथापि तद्दोषैरसंस्पृष्टमिति निर्दोषं दोषवर्जितं, हि यस्मान्नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य। वक्ष्यतिच भगवानिच्छादीनां क्षेत्रधर्मत्वमनादित्वान्निर्गुणत्वादितिच। नाप्यन्त्या विशेषा आत्मनो भेदकाः सन्ति प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेरतः समं ब्रह्मैकं च। यस्माद्ब्रह्मण्येव ते स्थितास्तस्मान्न दोषगन्धमात्रमपितान्स्पृशति देहादिसंघातात्मदर्शनाभिमानाभावात्।देहादिसेघातात्मदर्शनाभिमानवद्विषयं तु तत्सुत्रं 'समासमाम्यां विषमसमे पूजातः' इति पूजाविषयत्वविशेषणात्। दृश्यते हि ब्रह्मवित्षडङ्गविच्चतुर्वेदविदिति पूजादानादौगुणविशेषसंबन्धः कारणं ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तम्। कर्मिविषयं च समासमाभ्यामित्यादीदं तु सर्वकर्मसंन्यासिविषयंदप्रस्तितं सर्वकर्माणि मनसेत्यारभ्याद्यायपरिसमाप्तेः ।।19।। |

{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः =[[विद्याविनयसम्पन्ने...]]|अग्रिमश्लोकः = [[न प्रहृष्येत्प्रियं प्राप्य...]]}} |
|||
==बाह्यसम्पर्कतन्तुः== |
|||
[[वर्गः:कर्मसंन्यासयोगः| 19]] |
|||
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]] |
०७:२६, ३१ अक्टोबर् २०१५ इत्यस्य संस्करणं
श्लोकः
This article needs more links to other articles to help integrate it into the encyclopedia. Please help improve this article by adding links that are relevant to the context within the existing text. (जनुवरि २०१४) |
- इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
- निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवदशः (१९) श्लोकः ।
पदच्छेदः
इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥
अन्वयः
येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः ।
शब्दार्थः
- येषाम् = ज्ञानिनाम्
- साम्ये = गोब्राह्मणशुनकादौ समानतायाम्
- मनः = चित्तम्
- स्थितम् = स्थितम्
- तैः = समदर्शिभिः
- सर्गः = संसारः
- इह एव = अस्मिन् भूलोके एव
- जितः = विजितः
- हि = यस्मात्
- समम् = सर्वेषु अपि प्राणिषु समत्वेन स्थितम्
- ब्रह्म = परवस्तु
- निर्दोषम् = दोषरहितम्
- तस्मात् = अतः
- ते = ज्ञानिनः
- ब्रह्मणि = परमात्मनि
- स्थिताः = अवस्थिताः ।
अर्थः
अयम् उच्चः अयं नीचः इति बुद्ध्यभावात् ये सर्वेषु अपि प्राणिषु समानाः भवन्ति ते जीवन्तः एव अस्मिन् लोके सर्वथा विनष्टसंसारबन्धाः सन्ति । इदं ब्रह्म निर्विकारं सर्वेषु प्राणिषु समानं च । तस्मात् ते तत्रैव सर्वदा भवितुम् इच्छन्ति ।
शाङ्करदर्शनम्
नन्वभोज्यान्नास्ते दोषवन्तः 'समासमाभ्यां विषमसमे पूजातः' इति स्मृतेर्न ते दोषवन्तः। कथम्-इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर्जितो वशीकृतः सर्गो जन्मयेषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं स्थितं निश्चलीभूतं मनोऽन्तःकरणं निर्देषम। यद्यपि दोषवत्सु श्वपाकादिषु मूढैस्तद्दोषैर्दोषवदिवविभाव्यते तथापि तद्दोषैरसंस्पृष्टमिति निर्दोषं दोषवर्जितं, हि यस्मान्नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य। वक्ष्यतिच भगवानिच्छादीनां क्षेत्रधर्मत्वमनादित्वान्निर्गुणत्वादितिच। नाप्यन्त्या विशेषा आत्मनो भेदकाः सन्ति प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेरतः समं ब्रह्मैकं च। यस्माद्ब्रह्मण्येव ते स्थितास्तस्मान्न दोषगन्धमात्रमपितान्स्पृशति देहादिसंघातात्मदर्शनाभिमानाभावात्।देहादिसेघातात्मदर्शनाभिमानवद्विषयं तु तत्सुत्रं 'समासमाम्यां विषमसमे पूजातः' इति पूजाविषयत्वविशेषणात्। दृश्यते हि ब्रह्मवित्षडङ्गविच्चतुर्वेदविदिति पूजादानादौगुणविशेषसंबन्धः कारणं ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तम्। कर्मिविषयं च समासमाभ्यामित्यादीदं तु सर्वकर्मसंन्यासिविषयंदप्रस्तितं सर्वकर्माणि मनसेत्यारभ्याद्यायपरिसमाप्तेः ।।19।।
|