"यज्ज्ञात्वा न पुनर्मोहम्..." इत्यस्य संस्करणे भेदः
→अधिकवाचनाय: श्टब्स् संस्कृतसम्बद्धाः using AWB |
|||
पङ्क्तिः ८१: | पङ्क्तिः ८१: | ||
[[वर्गः:ज्ञानकर्मसंन्यासयोगः]] |
[[वर्गः:ज्ञानकर्मसंन्यासयोगः]] |
||
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]] |
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]] |
||
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] |
१०:४३, २७ नवेम्बर् २०१५ इत्यस्य संस्करणं
श्लोकः
This article needs more links to other articles to help integrate it into the encyclopedia. Please help improve this article by adding links that are relevant to the context within the existing text. (जनुवरि २०१४) |
- यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
- येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।
पदच्छेदः
यत् ज्ञात्वा न पुनः मोहम् एवं ज्ञास्यसि पाण्डव येन भूतानि यशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥
अन्वयः
पाण्डव ! यत् ज्ञात्वा पुनः मोहम् एवं न यास्यसि । येन आत्मनि भूतानि अशेषेण द्रक्ष्यसि । अथो मयि । (तत् ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।)
शब्दार्थः
- पाण्डव = पाण्डुपुत्र !
- यत् ज्ञात्वा = यत् विज्ञाय
- पुनः = भूयः
- मोहम् = व्यामोहम्
- एवम् = इत्थम्
- न यास्यसि = न गमिष्यसि
- येन = येन ज्ञानेन
- आत्मनि = स्वस्मिन्
- भूतानि = प्राणिनः
- अशेषेण = समग्रम्
- द्रक्ष्यसि = पश्यसि
- अथो = अनन्तरम्
- मयि = भगवति ।
अर्थः
अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।
शाङ्करभाष्यम्
तथाच सतीदमपि समर्थं वचनं-यदिति। यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य पुनप्भूयो मोदमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डव। किंचयेन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसिसाक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।।35।।
|
सम्बद्धाः लेखाः
बाह्यसम्पर्कतन्तुः
विकिमीडिया कॉमन्स् मध्ये यज्ज्ञात्वा न पुनर्मोहम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
अधिकवाचनाय
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च