"निम्बूकरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎चित्रवीथिका: संस्कृतिसम्बद्धाः स्टब्स् using AWB
→‎चित्रवीथिका: पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
 
पङ्क्तिः ४८: पङ्क्तिः ४८:
[[वर्गः:पेयानि]]
[[वर्गः:पेयानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतिसम्बद्धाः स्टब्स्]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

वर्तमाना आवृत्तिः १०:३१, १५ डिसेम्बर् २०१५ इति समये

निम्बूकम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Rutaceae
वंशः Citrus
जातिः C. × limon
द्विपदनाम
Citrus × limon, often given as C. limon
(L.) Burm.f.

निम्बूकस्य रसः एव निम्बूकफलरसः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । तस्य फलरसः च Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य निम्बूकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि निम्बूकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य निम्बूकफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् निम्बूकफलं प्रक्षाल्य यथा खण्डद्वयं स्यात् तथा कर्तनीयम् । अनन्तरं तस्य रसः निष्पीडनीयः । तस्मिन् रसे पर्याप्तमात्रेण जलं शर्करां च संस्थाप्य सम्यक् योजनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । कुत्रचित् शर्करायाः स्थाने लवणं योजयित्वा अपि पिबन्ति । कुत्रचित् निम्बूकस्य रसं निष्पीड्य तथैव संरक्षितम् अपि प्राप्यते । तदवसरे साक्षात् तं रसं जले संस्थाप्य शर्करा योजनीया तावदेव ।

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=निम्बूकरसः&oldid=345361" इत्यस्माद् प्रतिप्राप्तम्