"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः
→'''वीथिका''': चीनदेशः using AWB |
|||
पङ्क्तिः १५६: | पङ्क्तिः १५६: | ||
[[bn:গণচীন]] |
[[bn:গণচীন]] |
||
[[en:China]] |
|||
[[et:Hiina#Hiina Rahvavabariik]] |
[[et:Hiina#Hiina Rahvavabariik]] |
||
[[te:చైనా]] |
[[te:చైనా]] |
१४:३९, १४ जनवरी २०१६ इत्यस्य संस्करणं
चीनादेशः (China) एशियाखण्डस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरम् शाङ्घाइ अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।
भौगोलिकम्
सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी२ (३,७००,०००२ मी) अस्ति ।
समग्रभूखण्डस्य विवरणम्
- एन्सैक्लोपिडिया आफ् बृटानिका अनुसारम् - ९,५७२,९०० कि मी२ (३,६९६,१००२ मी)
- यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी२ (३,७०५,४०७२ मी)
- सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी२ (३,७०५,४०७२ मी)
- अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी२ (३,७२२,०२९२ मी)
सीमायाः विवरणम्
समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते । यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मी (१३,७४३ मी) वर्तते। अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह वर्तते । तेषां नामानि वर्तन्ते,
- वियेट्नाम् देशः(चम्पादेशः)
- लाओस्देशः
- ब्रह्मदेशः(म्यान्मार् देशः,बर्मादेशः)
- भूतान् देशः
- नेपालदेशः
- पाकिस्थान्देशः
- अफगानिस्थान्देशः
- तजिकिस्थान्देशः
- किर्गिस्थान्देशः
- कजकिस्थान्देशः(कजकिस्टान्देशः)
- अल्ताइदेशः(अल्ताइ गणराज्यम्)
- मङ्गोलियादेशः
- रश्यादेशः(रशादेशः,रूशादेशः)
- उत्तरकोरियादेशः
शासनम्
चीनादेशे मुख्यतः विभागद्वयं वर्तते। तत्,
- पौरगणतन्त्रचीनादेशः (People's Republic of China)
- गणतन्त्रचीनादेशः (Republic of China)
1.पौरगणतन्त्रचीनादेशः (People's Republic of China)
पीपल्स् रिपब्लिक् आफ् चैनादेशे २२ देशाः(Provinces), ५ स्वयंशासितप्रदेशाः(Autonomous Regions), ४ ग्रामसङ्घानि(Municipalities),
२ विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते ।
अस्य २२ देशानां (Provinces) नाम एवं वर्तन्ते,
- हबे देशः (Hebei Province)
- शन्शी देशः (Shanxi Province)
- ल्यावीनिङ्ग् देशः (Liaoning Province)
- जीलिन् देशः (Jilin Province)
- हेलूङ्च्याङ्ग् देशः (Heilongjiang Province)
- जिआङ्ग्सू देशः (Jiangsu Province)
- चेजियाङ्ग् देशः (Zhejiang Province)
- अन्हुये देशः (Anhui Province)
- फुजियान् देशः (Fujian Province)
- जियाङ्शी देशः (Jiangxi Province)
- शान्दोङ्ग् देशः (Shandong Province)
- हेनान् देशः (Henan Province)
- हूबे देशः (Hubei Province)
- हूनान् देशः (Hunan Province)
- ग्वाङ्ग्दोङ्ग् देशः (Guangdong Province)
- हैनान् देशः (Hainan Province)
- सिच्वान् देशः (Sichuan Province)
- ग्वेचो देशः (Guizhou Province)
- युन्नान् देशः (Yunnan Province)
- शान्शी देशः (Shaanxi Province)
- गान्सु देशः (Gansu Province)
- चिङ्ग्है देशः (Qinghai Province)
- तैवान्देशः (Taiwan Province) - (तैवान् देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये तैवान् रिपब्लिक् आफ् चैनादेशस्य अधीने वर्तते । )
अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते,
- अन्तर्भूतः मङ्गोलिया (Inner Mongolia) स्वयंशासितप्रदेशः
- शिञ्ज्याग् (Xinjiang) स्वयंशासितप्रदेशः
- ग्वाङ्ग्क्षी (Guangxi) स्वयंशासितप्रदेशः
- निङ्शिया (Ningxia) स्वयंशासितप्रदेशः
- टिबेट् (Tibet) स्वयंशासितप्रदेशः
अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते,
- बीजिङ्ग्(बेजिङ्ग्) ग्रामसङ्घः
- चोङ्चिङ्ग्(चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः
- शाङ्घाइ ग्रामसङ्घः
- त्याञ्जिन् (Tianjin Municipality) ग्रामसङ्घः
अस्य २ विशेषशासनप्रदेशौ
- हाङ्ग्काङ्ग्(Hong Kong) विशेषशासनप्रदेशाः
- मकौ(Macau)विशेषशासनप्रदेशाः
2.गणतन्त्रचीनादेशः (Republic of China)
अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,
- तैवान्द्वीपम्
- पङ्ग्-हू द्वीपम् (Penghu Island)
- किन्मन्(किमोइ) द्वीपम् (Kinmen/Quemoy Island)
- मात्सु द्वीपम् (Matsu Island)
समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते।
अस्य प्रमुखं २ विभागम्,
- तैवान्देशः (Taiwan Province)
- फ्यूजियान् देशः (Fujian Province)
अस्य ५ विशेषसङ्घानि,
- कौशियुङ्ग् ग्रामसङ्घम् (Kaohsiung Municipality )
- न्यू तैपे ग्रामसङ्घम् (New Taipei Municipality)
- तैचुङ्ग् ग्रामसङ्घम् (Taichung Municipality)
- तैनान् ग्रामसङ्घम् (Tainan Municipality)
- तैपे ग्रामसङ्घम् (Taipei Municipality)
जनसङ्ख्याविज्ञानम् (Demographics)
पौरगणतन्त्रचीनादेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।
अन्य-भिन्न-देशीयानां समूहः(Ethnic groups)
चीनादेशः आधिकारिकतया ५६ मण्डलानि वर्तन्ते । ते अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया दक्षिणकोरियादेशतः १२०,७५० जनाः, संयुक्तानि राज्यानि देशतः जनाः ७१,४९३, सूर्यमूलम् देशतः जनाः ६६,१५९ च वर्तन्ते ।
चीनीभाषा
चीनादेशस्य भाषां माण्डरिन्(Mandarin) इति आह्वयन्ति । एषा भाषा सैनो-टिबेटियन्(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । अत्र केवलं माण्डरिन् मानत्वम् (Standard Mandarin)भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । माण्डरिन् मानत्वम् भाषा बीजिङ्ग्प्रादेशिकभाषातः(Beijing dialect) आगता वर्तते। चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,
- वू (Wu)
- युए (Yue)
- मिन् (Min)
- शियाङ्ग् (Xiang)
- गान् (Gan)
- हाक (Hakka)
चीनीलिपिः(Chinese character) लोगोग्राम्(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनीलिपयः वर्तन्ते । तत्र ३,००० लिपीनाम् अध्ययनेन प्रायः ९९% चीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीलिपीनां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । माण्डरिन् मानत्वम् (Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे केमन्द्रियमाध्यमिकशिक्षासंस्थायाः (Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।
शिक्षणम्
१९८६ तमे वर्षे चीनादेशः बालानां ९ वर्षपर्यन्तं बाल्यशिक्षणम् अनिवार्यः कृतः । २००७ तमे वर्षे ३९६,५६७ प्राथमिकविद्यालयाः (Primary Schools), ९४,११६ माध्यमिकविद्यालयाः (Secondary Schools), २,२३६ विश्वविद्यालयाः(Universities) च आसन् । फेब्रवरि, २००६ तमे वर्षे चीनादेशे बालानां मूलशिक्षा ९ वर्षपर्यन्तं सम्पूर्णशिक्षा, पठ्यपुस्तकं च निश्शुल्कं कृतम् । चीनादेशस्य विश्वकिद्यालयानां गुणवत्ता बहु सम्यकस्ति ।
संस्कृतिः
कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।
वीथिका
-
पौरगणतन्त्रचीनादेशस्य एकं जनगणनायाः गहनत्वम्
-
चीनादेशस्य सीमा चित्रम् १
-
चीनादेशस्य सीमा चित्रम् २
-
चीनादेशस्य सीमा चित्रम् ३