"यतन्तो योगिनश्चैनं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎सम्बद्धसम्पर्कतन्तुः: न प्राप्तः गीतासम्बद्धभाषानुबन्धः using AWB
पङ्क्तिः २३: पङ्क्तिः २३:


==पदच्छेदः==
==पदच्छेदः==
यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः नैनं पश्यन्ति अचेतसः ॥ ११ ॥
यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः न एनं पश्यन्ति अचेतसः ॥ ११ ॥


==अन्वयः==
==अन्वयः==

१२:३६, ३१ जनवरी २०१६ इत्यस्य संस्करणं


श्लोकः

गीतोपदेशः
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः

यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः न एनं पश्यन्ति अचेतसः ॥ ११ ॥

अन्वयः

यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

शब्दार्थः

यतन्तः = प्रयत्नवन्तः
योगिनः = समाहितचित्ताः
अवस्थितम् = विद्यमानम्
अकृतात्मानः = असंस्कृतात्मानः
अचेतसः = अविवेकिनः ।

अर्थः

ध्यानादिभिः सततं प्रयतमाना एव ज्ञानिनः देहे वर्तमानमिमं द्रष्टुं शक्नुवन्ति । किन्तु शास्त्रदिभिः प्रयतमाना अपि कश्मलचित्ताः देहे वर्तमानमपि इमं द्रष्टुं न शक्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=यतन्तो_योगिनश्चैनं...&oldid=358352" इत्यस्माद् प्रतिप्राप्तम्