"सामवेदः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎सामवेदस्य शाखाः: चित्रं योजनीयम् using AWB
पङ्क्तिः ११: पङ्क्तिः ११:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]

१६:१०, ४ मार्च् २०१६ इत्यस्य संस्करणं

“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः । गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति । यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति । यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति । साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते । सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च । आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम् । सामसंहितायाः संकलनमुद्गातुः कृते कृतम् । जैमिनियसूत्रानुसारं गीति एव साम । छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम् । बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम् । येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते ।

सामवेदस्य विभागः

सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च । पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः । प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति । प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते । प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते । पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते । उत्तरार्चिके नवप्रपाठकाः सन्ति । प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः । अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति । उत्तरार्चिके मन्त्राणां संख्या १२२५ । ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति ।

सामवेदस्य शाखाः

सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः । यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति । सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते । तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः । तेषु कतिपयानां नामानि दीयन्ते । यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः । अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति । तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते । यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च ।

"https://sa.wikipedia.org/w/index.php?title=सामवेदः&oldid=371677" इत्यस्माद् प्रतिप्राप्तम्