"भिण्डमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ६१: पङ्क्तिः ६१:
http://www.census2011.co.in/census/district/287-bhind.html
http://www.census2011.co.in/census/district/287-bhind.html


[[वर्गः:मध्यप्रदेशस्य मण्डलानि]]
[[वर्गः:मध्यप्रदेशराज्यस्य मण्डलानि]]
{{शिखरं गच्छतु}}
{{शिखरं गच्छतु}}

०८:०३, ३० एप्रिल् २०१६ इत्यस्य संस्करणं

भिण्डमण्डलम्

Bhind District
भिण्ड जिला
भिण्डमण्डलम्
भिण्डमण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि भिण्ड, अटेर, गोडमी, मेहगांव, गोहड, रोन, मिहोना, लहर
विस्तारः ४,४५९ च. कि. मी.
जनसङ्ख्या (२०११) १७,०३,००५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७५.२६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४२%
Website http://www.bhind.mp.gov.in/

भिण्डमण्डलम् ( /ˈbhɪndəməndələm/) (हिन्दी: भिंड जिला, आङ्ग्ल: Bhind district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भिण्ड इति नगरम् ।

भौगोलिकम्

भिण्डमण्डलस्य विस्तारः ४,४५९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे मुरैनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे ग्वालियरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं भिण्डमण्डलस्य जनसङ्ख्या १७,०३,००५ अस्ति । अत्र ९,२६,८४३ पुरुषाः, ७,७६,१६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८३७ अस्ति । अत्र साक्षरता ७५.२६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- भिण्ड, अटेर, गोडमी, मेहगांव, गोहड, रोन, मिहोना, लहर ।

वीक्षणीयस्थलानि

माता-रेणुका-मन्दिरम्

माता-रेणुका-मन्दिरं मऊ-नगरे स्थितमस्ति । इदं स्थलं भगवतः परशुरामस्य जन्मस्थलमस्ति । परशुरामस्य पिता जमदग्निः आसीत् । तस्य माता रेणुका आसीत् । तस्मिन् स्थले एव परशुरामेण पितुः आदेशपालनाय स्वस्य मातुः मस्तकछेदनं कृतम् आसीत् । तदा जमदग्निः प्रसन्नोऽभवत्, परशुरामाय इच्छितवरदानं अयच्छत् च । तदा परशुरामः स्वस्य मातुः पुनर्जीवनाय वरदानम् ऐच्छत् । तस्य माता पुनर्जीविता अभवत् । अतः अत्र रेणुकादेव्याः मन्दिरं निर्मापितम् अस्ति । अटेर-दुर्गः, नारददेव-मन्दिरं, वनखण्डेश्वर-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.bhind.mp.gov.in/
http://www.census2011.co.in/census/district/287-bhind.html

"https://sa.wikipedia.org/w/index.php?title=भिण्डमण्डलम्&oldid=390196" इत्यस्माद् प्रतिप्राप्तम्