"कूर्मपुराणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
→‎केचन पुराणोक्तयः: संचित्रसारमञ्जूषे योजनीये using AWB
पङ्क्तिः ७९: पङ्क्तिः ७९:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
[[वर्गः:संसारमञ्जूषा योजनीया]]

११:३६, १२ आगस्ट् २०१६ इत्यस्य संस्करणं


कूर्मपुराणम्  
सञ्चिका:Shubhbhakti-Kurma-Purana.jpg
Kurma purana
लेखक वेदव्यासः
देश भारत
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः, भक्तिः
पृष्ठ ६००० श्लोकाः

कूर्मपुराणम् (Kurmapurana)अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् विष्णुः नारदम् उपदिष्टवान् इति श्रूयते | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान् अस्ति । समुद्रमथनकाले प्रचलित।विषयमथनमेव कूर्मपुराणं। कूर्मपुराणं द्विधा विभक्तम् अस्ति - पूर्वभागः उत्तरभागः चेति | पूर्वभागे ५३ अध्यायाः, उत्तरभागे ४६ अध्यायाः विद्यन्ते । पूर्वभागे वराह,नरसिंह,वामन,व्यास,कृष्णावतारचर्तं निवेदयति। उत्तरार्धस्तु शिवचरित्रं,तीर्थमहिमां धर्मशास्त्रविषयान् निरूपयति। मूलतः कूर्मपुराणे चतस्रः संहिताः आसन् इति श्रूयते । ताः - ब्राह्मी, भागवती, सौरी, वैष्णवी च ।ब्राह्मीसंहितायां ६००० श्लोकाः, भागवतीसंहितायां ४००० श्लोकाः, सौरीसंहितायां २००० श्लोकाः, वैष्णवीसंहितायां ५००० श्लोकाः विद्यनते । अधुना उपलभ्यमानाः श्लोकाः ब्राह्मीसंहितायां विद्यमानाः ।भागवतीसंहिता वर्णाश्रमादिनियमान् ,सौरीसंहिता षट्कमविचारान्,वैष्णवीसंहिता मोक्षविषयान् निरूपयति।

अन्तर्विषयाः

प्रजापतीनाम् उगमः
वर्णाश्रमधर्मः
पुरुषार्थानां विवरणम्
महाभक्तानां गुणस्वभावव्यवहारादयः
जीवनस्य विभिन्नस्तराः
ब्रह्माण्डस्य हिरण्यगर्भस्य उगमः
कालस्य गणना
ईश्वरस्य महिमा
भुवनानां विवरणम्
ग्रहादीनां विवरणम्
नदीनां विवरणम्
मुक्तिमार्गः

केचन पुराणोक्तयः

१ अस्मिन् पुराणे पार्वत्याः सहस्रनाम उपलभ्यते | (अध्यायः - १२।६२-१९८)

शिवोमा परमा शक्तिरनन्ता निष्कलामला |
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ||६२||

२ पञ्चदशे अध्याये ब्रह्मा दक्षम् उपदिशति यत् यः विष्णुः सः एव रुद्रः सः ऐव जनार्दनः अस्ति | एवं यः अवगच्छति सः वेदोक्तम् अङ्गीकरोति इत्यतः मुक्तिं लभते इति -

मन्यन्ते ते जगद्योनिं विभिन्नं विष्णुमीश्वरात् ||८८||
मोहादवेद निष्ठत्वात्ते यान्ति नरकं नराः |
वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ||८९||
ऐकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते |
यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ||९०|| पूर्वभागः १।८८-९०

३ कूर्मपुराणस्य उत्तरभागे साङ्खययोगः विवृतः अस्ति -

यथा नदीनदा लोके सागरेणैकतां ययुः |
दद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ||३८||
तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः |
अज्ञानेनावृतं लोके विज्ञानं तेन मुह्यति ||३९||
विज्ञानं निर्मलं सूक्षं निर्विकल्पं तदव्ययम् |
अज्ञानमिततत्सर्वं विज्ञानमिति तन्मतम् ||४०||
एतद्धः कथितं साङ्ख्यं भाषितं ज्ञानमुत्तमम् |
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता |४१|| उत्तरभागः २।२।३८-४१

४ जैनमतस्य प्रथमतीर्थङ्करस्य ऋषभदेवस्य विषयः कूर्मपुराणे तत्र तत्र उल्लेखितः अस्ति -

हिमाह्वयं तु यद्वर्षं नाभेरासईन्महात्मनः |
तस्यर्षभोवत्पुत्रो मेरुदेव्यां महाद्युतिः ||३७||
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः |
सोभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः ||३८|| पूर्वभागः १।४१।३७-४१

५ उत्तरभागस्य सप्तमे अध्याये शिवः स्वयम् आत्मनः महिमानं वर्णयति -

योगिनामस्म्यहं शम्भुः स्त्रीणां देवी गिरीन्द्रजा |
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ||४||
रुद्राणां शङ्कर्श्चाहं गरुडः पततामहम् |
ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम् ||५|| २।७।४-७
"https://sa.wikipedia.org/w/index.php?title=कूर्मपुराणम्&oldid=395295" इत्यस्माद् प्रतिप्राप्तम्