"यतन्तो योगिनश्चैनं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎सम्बद्धसम्पर्कतन्तुः: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
== सम्बद्धाः लेखाः == using AWB
 
पङ्क्तिः ४८: पङ्क्तिः ४८:
[[वर्गः:न प्राप्तः गीतासम्बद्धभाषानुबन्धः]]
[[वर्गः:न प्राप्तः गीतासम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]

== सम्बद्धाः लेखाः ==

* [[संस्कृतम्]]
* [[भगवद्गीता|श्रीमद्भगवद्गीता]]
* [[आदिशङ्कराचार्यः|शङ्कराचार्यः]]
* [[रामानुजाचार्यः]]

वर्तमाना आवृत्तिः ०७:४०, २८ फेब्रवरी २०१७ इति समये


श्लोकः[सम्पादयतु]

गीतोपदेशः
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः न एनं पश्यन्ति अचेतसः ॥ ११ ॥

अन्वयः[सम्पादयतु]

यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

शब्दार्थः[सम्पादयतु]

यतन्तः = प्रयत्नवन्तः
योगिनः = समाहितचित्ताः
अवस्थितम् = विद्यमानम्
अकृतात्मानः = असंस्कृतात्मानः
अचेतसः = अविवेकिनः ।

अर्थः[सम्पादयतु]

ध्यानादिभिः सततं प्रयतमाना एव ज्ञानिनः देहे वर्तमानमिमं द्रष्टुं शक्नुवन्ति । किन्तु शास्त्रदिभिः प्रयतमाना अपि कश्मलचित्ताः देहे वर्तमानमपि इमं द्रष्टुं न शक्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यतन्तो_योगिनश्चैनं...&oldid=418743" इत्यस्माद् प्रतिप्राप्तम्