"सामवेदः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ६: पङ्क्तिः ६:

== प्रशंसा ==
== प्रशंसा ==
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। [[ऋग्वेद|ऋग्वेदे]], [[अथर्ववेद|अथर्ववेदे]] चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - '''<nowiki/>'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।'''<ref>(ऋ० वे० ५॥४४॥१४)</ref> अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — '''<nowiki/>'उद्गातेव शकुने साम गायसि'<nowiki/>'''।<ref>( २॥४३॥२ )</ref> [[अङ्गिरा]]<nowiki/>-ऋषेः सामस्योल्लेखः अनेकशो लभते— '''<nowiki/>'अङ्गिरसां सामभिः स्तूयमानाः''''।<ref>( ऋ० वे० १।१०७।।२ )</ref> अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।<ref>'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)</ref> अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – '''<nowiki/>'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे'<nowiki/>'''।<ref>(अथ० वे० ११॥७॥२४)</ref> अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– '''<nowiki/>'ऋचं साम यजामहे यासां कर्माणि कुर्वते''''।<ref>( अ० वे० ७॥५४।१ )</ref>
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। [[ऋग्वेद|ऋग्वेदे]], [[अथर्ववेद|अथर्ववेदे]] चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - '''<nowiki/>'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।'''<ref>(ऋ० वे० ५॥४४॥१४)</ref> अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — '''<nowiki/>'उद्गातेव शकुने साम गायसि'<nowiki/>'''।<ref>( २॥४३॥२ )</ref> [[अङ्गिरा]]<nowiki/>-ऋषेः सामस्योल्लेखः अनेकशो लभते— '''<nowiki/>'अङ्गिरसां सामभिः स्तूयमानाः''''।<ref>( ऋ० वे० १।१०७।।२ )</ref> अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।<ref>'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)</ref> अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – '''<nowiki/>'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे''''।<ref>(अथ० वे० ११॥७॥२४)</ref> अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– '''<nowiki/>'ऋचं साम यजामहे यासां कर्माणि कुर्वते''''।<ref>( अ० वे० ७॥५४।१ )</ref>

== कालः ==
== कालः ==
पङ्क्तिः २१: पङ्क्तिः २१:
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।<ref>(बृह० उ०१।३।२२)</ref> 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।

==विषयाः==
== सामस्य स्वराः ==
सामवेदस्य द्वौ प्रधानौ भागौ स्तः — आर्चिकः, गानञ्च । आर्चिकस्य शाब्दिकार्थोऽस्ति – ऋक्-समूहः । सोऽपि द्विधा विभज्यते —पूर्वार्चिकमुत्तराचिकञ्चेति । पूर्वाचिकमेव छन्दः, छन्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वाचिकं चतुर्षु भागेषु विभज्यते - आग्नेयपर्व (अग्निसम्बन्धिनीभिर्ऋग्भिरुपेतम् ), ऐन्द्रपर्व ( इन्द्रसम्बन्धिनीभिऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकञ्चेति । पूर्वार्चिके षट् प्रपाठकाः अथवा अध्यायाः सन्ति । प्रतिप्रपाठकं द्वौ अर्द्धौ वा खण्डौ स्तस्तथा प्रतिखण्डं एकदशतिः प्रतिदशत्यां ऋचः सन्ति । प्रथमाध्यायादारभ्य पञ्चमाध्यायपर्यन्तस्य ऋचस्तु ‘सामगान' नाम्ना ख्याताः सन्ति, किञ्च षष्ठाध्यायस्य ऋचः अरण्ये एव गीयन्ते। अतोऽत्रासां ऋचाम् एकत्र सङ्ग्रहोऽस्ति । अस्यान्ते परिशिष्टरूपेण 'महानाम्नी' इत्याख्याः दशऋचः सन्ति । अनेन प्रकारेण पूर्वार्चिके मन्त्राणां संख्या पञ्चाशदधिकषट्शतं (६५०) अस्ति।
सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।

उत्तरार्चिकं तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः - दशरात्रं, संवत्सरम्, ऐकाहम्, अहीनं, सत्रं, प्रायश्चित्तं, क्षुगद्रञ्चेति प्रमुखास्तत्र भेदाः सन्ति। अस्मिन्नुत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकेषु द्वौ द्वौ भागौ स्तः, यौ प्रपाठकाद्धनाम्ना ख्यातौ स्तः, किञ्च अन्तिमचतुर्षु प्रपाठकेषु त्रयस्त्रयोऽर्द्धाः सन्ति। राणायणीयशाखानुसारम् अयमस्ति भेदः। उत्तरार्चिकस्य समग्रमन्त्राणां सङ्ख्या (१२२५) पञ्चविंशत्यधिकद्वादशशतमस्ति। अतरुभयोरार्चिकयोः सम्मिलितानां मन्त्राणां सङ्ख्या (१८७५) पञ्चसप्तत्यधिकाष्टादशशतमस्ति।
==सामवेदस्य विभागः==

ऋक्-सामयोः सम्बन्धस्य मीमांसा
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च। पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते। विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च।

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १८७५ मन्त्राः सन्ति, तेषु ७५ मन्त्राः ईदृशाः ये ऋग्वेदे न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदागतमन्त्राणां ससस्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः, मुख्यत एतावान् एव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदोऽस्ति ।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः।

सामवेदस्य ऋक्षु ऋग्वेदस्य ऋग्भिः अधिकतरम् आंशिकसाम्यमेवाऽस्ति । ऋग्वेदस्य- 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः अरं वहन्ति मन्यवे'<ref>( ६॥१६॥४३ )</ref>, सामवेदे - 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः । अरं वहन्त्याशवः' अनेन रूपेण पठितोऽस्ति । ऋग्वेदस्य मन्त्रांशः 'अपोमहि व्ययति चक्षसे तमोज्योतिष्कृणोति सूनरी'<ref>( ७॥८१॥१ )</ref>, सामवेदे- 'अपोमहि वृणुते चक्षुषा तमो ज्योतिष् कृणोति सूनरी' इत्यनेन रूपेण मिलति । अस्यांशिकसाम्यस्य तथा मन्त्रेषु पादव्यत्ययस्य अनेकान्युदाहरणानि सन्ति सामवेदे । यदि एताः ऋचः ऋग्वेदादेव सङ्गृहीताः भवेयुस्तर्हि ताः तस्मिन्नेव रूपे तथा तस्मिन्नेव क्रमे सङ्गृहीता भवन्ति ।
सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च। पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः। प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति। प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते। प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते। पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते। उत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः। अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति। उत्तरार्चिके मन्त्राणां संख्या १२२५। ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति।

यद्येता ऋचः गायनार्थमेव सामवेदे सङ्गृहीताः सन्ति, तर्हि केवलं तावदेव मन्त्राणामृग्वेदात् सङ्कलनं कर्त्तव्यमासीत् यावद् गातुं वा सामाय अपेक्षितो भवेयुरिति । प्रत्युत अत्र सामसंहितायां विपरीतमस्य प्रायः (४५०) पञ्चाशदधिकचतुःशतमन्त्रा ईदृशाः सन्ति, येषामुपरि गानस्य काऽपि व्यवस्था नास्ति। ईदृशां गानानपेक्षितमन्त्राणां सङ्कलनं सामसंहितायां कथं कृतमिति?

यदि सामसंहितायाः मन्त्राः ऋग्वेदादेव सङ्गृहीताश्चेत्, तेषां रूपमेव नास्ति प्रत्युत तेषां स्वरनिर्देशोऽपि तद्वदेव भवितव्यम् । ऋग्वेदे उदात्तानुदात्तस्वरिताः स्वराः सन्ति, किञ्च सामवेदे तेषां निर्देशः १, २ तथा ३ अङ्कैः कृतः । नारदीयशिक्षानुसारेणैते स्वराः क्रमशः मध्यम-गान्धार-ऋषभ-स्वराः मन्यन्ते। एते स्वराः अङ्गुष्ठ-तर्जनी-मध्यमाख्यानाम् अङ्गुलीनां मध्यमपर्वोपरि अङ्गुष्ठस्य स्पशं कुर्वन् प्रदर्श्यन्ते । साममन्त्राणाम् उच्चारणम् ऋग्मन्त्राणाम् उच्चारणान्नितान्तं भिन्नं भवति ।

यदि सामवेदः ऋग्वेदादनन्तरस्य रचना, तर्हि तदा ऋग्वेदस्यानेकेषु स्थलेषु सामवेदस्योल्लेखः कथं लभते? ‘अङ्गिरसां सामभिः स्तूयमानाः'<ref>( ऋ० १ · १०६॥२)</ref>, ‘उद्गातेव शकुने साम गायति'<ref>(२॥४३॥२)</ref>, ‘इन्द्राय सामगायत विप्राय बृहते बृहत्'<ref>(८॥९८१)</ref> इत्यादिषु मन्त्रेषु सामान्यसाम्नोऽपि उल्लेखो नास्ति, प्रत्युत ‘बृहत्साम' इव विशिष्टसाम्नोऽपि उल्लेखो वर्तते। [[ऐतरेयब्राह्मण]]<nowiki/>स्य स्पष्टकथनमस्ति यत्, सृष्ट्याः आरम्भे ऋक् साम्नोरस्तित्वमासीदिति।<ref>(ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ ))</ref> नैतावदेव, यज्ञसम्पादनाय अध्वर्युस्तथा ब्रह्मानामकस्य ऋत्विजा सह उद्गातुरपि सत्ता सर्वथा मान्याऽस्ति । एतेषां चतुर्णामृत्विजां समुपस्थितावेव यशसम्पत्तेः सिद्धिर्भवेत् । उद्गातुः कार्यं तु सामगानमेवाऽस्ति । तर्हि साम्न अर्वाचीनता कथं विश्वसनीया भवेत् ? मनुना लिखितं यत्, यज्ञसिद्धये वह्नेः, वायोः तथा सूर्यात् क्रमशः ऋक्, यजुस्तथा। सामवेदानां दोहनं कृतम्।<ref>( मनु० १॥२३ )</ref> '''<nowiki/>'त्रयं ब्रह्म सनातनम्'''' इति कथने वेदाय प्रयुक्तं सनातनविशेषणपदं वेदानां नित्यतां तथा अनादितां प्रकटयति । दोहनशब्दादपि अस्यैव तथ्यस्य सम्पुष्टिर्भवेत् ।

सामवेदस्य नामकरणम्

विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कत्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।<ref>( ऋ० ९॥९७॥१३ )</ref> ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - ‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।'<ref>( ताण्डयब्राह्म० ११॥८॥१३ )</ref>, ‘तं वोदस्ममृतीषहं'<ref>( ९॥८८॥१ )</ref> मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।<ref>( ताण्डय० ७॥१०॥१० )</ref> फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।

== सामस्य स्वराः ==
सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।

==सामवेदस्य शाखाः==
==सामवेदस्य शाखाः==

०८:५६, २८ मे २०१७ इत्यस्य संस्करणं

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सामवेद इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते। यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः। अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः। ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते।

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः। सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः।

प्रशंसा

'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। ऋग्वेदे, अथर्ववेदे चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - 'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।[१] अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — 'उद्गातेव शकुने साम गायसि'[२] अङ्गिरा-ऋषेः सामस्योल्लेखः अनेकशो लभते— 'अङ्गिरसां सामभिः स्तूयमानाः'[३] अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।[४] अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – 'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे'[५] अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– 'ऋचं साम यजामहे यासां कर्माणि कुर्वते'[६]

कालः

सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा भवति। ऋग्वेदे वैरूप-बृहत्-रैवत-गायत्र-भद्रादीनां साम्नानाम् अभिधानं प्राप्यते। यजुर्वेदे रथन्तर-वैराज-वैखानस-वामदेव्य-शाक्वर-रैवत-अभीवर्तिनामुल्लेखो लभते। एतरेयब्राह्मणे नौधस-रौरय-यौधाजय-अग्निष्टोमीयप्रभूतीनां विशिष्टसाम्नाम् अभिधानस्य निर्देशोऽअस्ति। अनेन सामगायनं प्राचीनकालादेव समायाति इति अनुमीयते। ऋग्वेदस्यापि समये एतेषां विशिष्टगायनानाम् अस्तित्वं प्रतीयते। 

सामवेदस्य व्याख्या

साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामशब्दस्य प्रयोगः द्वयोरर्थयोरेव प्राप्यते। ऋग्मन्त्राणामुपरि गायनमेव वस्तुतः सामशब्दस्य वाच्योऽस्ति। किञ्च ऋग्मन्त्रेभ्योऽपि सामशब्दस्य प्रयोगो लभते। सामसंहितायाः सङ्कलनमुद्गातृ-नामके ऋत्विजे कृतमस्ति। उद्गाता अयं देवतायाः स्तुतिपरकमन्त्रान् एव आवश्यकतानुसारेण विविधस्वरेषु गायति। अतः समस्याधारः ऋग्मन्त्रा एव भवन्ति।[७] ऋक्सामयोः प्रग्राहमिदं पारस्परिकसम्बन्धं सूचयितुम् उभयोर्मध्ये दाम्पत्यभावस्य अपि कल्पना वर्तते अत्र। पतिः सन्तानोत्पादनाय पत्न्याः आह्वाहनं कुर्वन् कथयति- सामरूपोऽहं पतिरस्मि त्वञ्च ऋग्रूपा पत्नी असि। अहमाकाशोऽस्मि त्वञ्च पृथिव्यसि। अतः आगच्छ। आवां मिलित्वा प्रजानाम् उत्पादनं कुर्वः।

अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम्।

मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै।[८]

सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।[९] 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।

विषयाः

सामवेदस्य द्वौ प्रधानौ भागौ स्तः — आर्चिकः, गानञ्च । आर्चिकस्य शाब्दिकार्थोऽस्ति – ऋक्-समूहः । सोऽपि द्विधा विभज्यते —पूर्वार्चिकमुत्तराचिकञ्चेति । पूर्वाचिकमेव छन्दः, छन्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वाचिकं चतुर्षु भागेषु विभज्यते - आग्नेयपर्व (अग्निसम्बन्धिनीभिर्ऋग्भिरुपेतम् ), ऐन्द्रपर्व ( इन्द्रसम्बन्धिनीभिऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकञ्चेति । पूर्वार्चिके षट् प्रपाठकाः अथवा अध्यायाः सन्ति । प्रतिप्रपाठकं द्वौ अर्द्धौ वा खण्डौ स्तस्तथा प्रतिखण्डं एकदशतिः प्रतिदशत्यां ऋचः सन्ति । प्रथमाध्यायादारभ्य पञ्चमाध्यायपर्यन्तस्य ऋचस्तु ‘सामगान' नाम्ना ख्याताः सन्ति, किञ्च षष्ठाध्यायस्य ऋचः अरण्ये एव गीयन्ते। अतोऽत्रासां ऋचाम् एकत्र सङ्ग्रहोऽस्ति । अस्यान्ते परिशिष्टरूपेण 'महानाम्नी' इत्याख्याः दशऋचः सन्ति । अनेन प्रकारेण पूर्वार्चिके मन्त्राणां संख्या पञ्चाशदधिकषट्शतं (६५०) अस्ति।

उत्तरार्चिकं तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः - दशरात्रं, संवत्सरम्, ऐकाहम्, अहीनं, सत्रं, प्रायश्चित्तं, क्षुगद्रञ्चेति प्रमुखास्तत्र भेदाः सन्ति। अस्मिन्नुत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकेषु द्वौ द्वौ भागौ स्तः, यौ प्रपाठकाद्धनाम्ना ख्यातौ स्तः, किञ्च अन्तिमचतुर्षु प्रपाठकेषु त्रयस्त्रयोऽर्द्धाः सन्ति। राणायणीयशाखानुसारम् अयमस्ति भेदः। उत्तरार्चिकस्य समग्रमन्त्राणां सङ्ख्या (१२२५) पञ्चविंशत्यधिकद्वादशशतमस्ति। अतरुभयोरार्चिकयोः सम्मिलितानां मन्त्राणां सङ्ख्या (१८७५) पञ्चसप्तत्यधिकाष्टादशशतमस्ति।

ऋक्-सामयोः सम्बन्धस्य मीमांसा

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १८७५ मन्त्राः सन्ति, तेषु ७५ मन्त्राः ईदृशाः ये ऋग्वेदे न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदागतमन्त्राणां ससस्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः, मुख्यत एतावान् एव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदोऽस्ति ।

सामवेदस्य ऋक्षु ऋग्वेदस्य ऋग्भिः अधिकतरम् आंशिकसाम्यमेवाऽस्ति । ऋग्वेदस्य- 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः अरं वहन्ति मन्यवे'[१०], सामवेदे - 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः । अरं वहन्त्याशवः' अनेन रूपेण पठितोऽस्ति । ऋग्वेदस्य मन्त्रांशः 'अपोमहि व्ययति चक्षसे तमोज्योतिष्कृणोति सूनरी'[११], सामवेदे- 'अपोमहि वृणुते चक्षुषा तमो ज्योतिष् कृणोति सूनरी' इत्यनेन रूपेण मिलति । अस्यांशिकसाम्यस्य तथा मन्त्रेषु पादव्यत्ययस्य अनेकान्युदाहरणानि सन्ति सामवेदे । यदि एताः ऋचः ऋग्वेदादेव सङ्गृहीताः भवेयुस्तर्हि ताः तस्मिन्नेव रूपे तथा तस्मिन्नेव क्रमे सङ्गृहीता भवन्ति ।

यद्येता ऋचः गायनार्थमेव सामवेदे सङ्गृहीताः सन्ति, तर्हि केवलं तावदेव मन्त्राणामृग्वेदात् सङ्कलनं कर्त्तव्यमासीत् यावद् गातुं वा सामाय अपेक्षितो भवेयुरिति । प्रत्युत अत्र सामसंहितायां विपरीतमस्य प्रायः (४५०) पञ्चाशदधिकचतुःशतमन्त्रा ईदृशाः सन्ति, येषामुपरि गानस्य काऽपि व्यवस्था नास्ति। ईदृशां गानानपेक्षितमन्त्राणां सङ्कलनं सामसंहितायां कथं कृतमिति?

यदि सामसंहितायाः मन्त्राः ऋग्वेदादेव सङ्गृहीताश्चेत्, तेषां रूपमेव नास्ति प्रत्युत तेषां स्वरनिर्देशोऽपि तद्वदेव भवितव्यम् । ऋग्वेदे उदात्तानुदात्तस्वरिताः स्वराः सन्ति, किञ्च सामवेदे तेषां निर्देशः १, २ तथा ३ अङ्कैः कृतः । नारदीयशिक्षानुसारेणैते स्वराः क्रमशः मध्यम-गान्धार-ऋषभ-स्वराः मन्यन्ते। एते स्वराः अङ्गुष्ठ-तर्जनी-मध्यमाख्यानाम् अङ्गुलीनां मध्यमपर्वोपरि अङ्गुष्ठस्य स्पशं कुर्वन् प्रदर्श्यन्ते । साममन्त्राणाम् उच्चारणम् ऋग्मन्त्राणाम् उच्चारणान्नितान्तं भिन्नं भवति ।

यदि सामवेदः ऋग्वेदादनन्तरस्य रचना, तर्हि तदा ऋग्वेदस्यानेकेषु स्थलेषु सामवेदस्योल्लेखः कथं लभते? ‘अङ्गिरसां सामभिः स्तूयमानाः'[१२], ‘उद्गातेव शकुने साम गायति'[१३], ‘इन्द्राय सामगायत विप्राय बृहते बृहत्'[१४] इत्यादिषु मन्त्रेषु सामान्यसाम्नोऽपि उल्लेखो नास्ति, प्रत्युत ‘बृहत्साम' इव विशिष्टसाम्नोऽपि उल्लेखो वर्तते। ऐतरेयब्राह्मणस्य स्पष्टकथनमस्ति यत्, सृष्ट्याः आरम्भे ऋक् साम्नोरस्तित्वमासीदिति।[१५] नैतावदेव, यज्ञसम्पादनाय अध्वर्युस्तथा ब्रह्मानामकस्य ऋत्विजा सह उद्गातुरपि सत्ता सर्वथा मान्याऽस्ति । एतेषां चतुर्णामृत्विजां समुपस्थितावेव यशसम्पत्तेः सिद्धिर्भवेत् । उद्गातुः कार्यं तु सामगानमेवाऽस्ति । तर्हि साम्न अर्वाचीनता कथं विश्वसनीया भवेत् ? मनुना लिखितं यत्, यज्ञसिद्धये वह्नेः, वायोः तथा सूर्यात् क्रमशः ऋक्, यजुस्तथा। सामवेदानां दोहनं कृतम्।[१६] 'त्रयं ब्रह्म सनातनम्' इति कथने वेदाय प्रयुक्तं सनातनविशेषणपदं वेदानां नित्यतां तथा अनादितां प्रकटयति । दोहनशब्दादपि अस्यैव तथ्यस्य सम्पुष्टिर्भवेत् ।

सामवेदस्य नामकरणम्

विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कत्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।[१७] ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - ‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।'[१८], ‘तं वोदस्ममृतीषहं'[१९] मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।[२०] फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।

सामस्य स्वराः

सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।

सामवेदस्य शाखाः

सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः। यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति। सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते। तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः। तेषु कतिपयानां नामानि दीयन्ते। यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः। अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति। तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते। यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च।

सामवेदस्य पदकाराः

गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। निरुक्ते (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते। दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न )। यास्केन तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।[२१] स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते। यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=सूर्यः।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = जलम्, यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या।

सम्बद्धाः लेखाः

सन्दर्भः

  1. (ऋ० वे० ५॥४४॥१४)
  2. ( २॥४३॥२ )
  3. ( ऋ० वे० १।१०७।।२ )
  4. 'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)
  5. (अथ० वे० ११॥७॥२४)
  6. ( अ० वे० ७॥५४।१ )
  7. ( ऋचि अष्यूवं साम-छा० उ० १॥६॥१ )
  8. (बृह० उ० ६॥५॥२०; अ० वे० १४॥२॥७ ऐ० ब्रा० ८॥२७ )
  9. (बृह० उ०१।३।२२)
  10. ( ६॥१६॥४३ )
  11. ( ७॥८१॥१ )
  12. ( ऋ० १ · १०६॥२)
  13. (२॥४३॥२)
  14. (८॥९८१)
  15. (ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ ))
  16. ( मनु० १॥२३ )
  17. ( ऋ० ९॥९७॥१३ )
  18. ( ताण्डयब्राह्म० ११॥८॥१३ )
  19. ( ९॥८८॥१ )
  20. ( ताण्डय० ७॥१०॥१० )
  21. दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६
"https://sa.wikipedia.org/w/index.php?title=सामवेदः&oldid=423506" इत्यस्माद् प्रतिप्राप्तम्