"माषपिष्टम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎दृश्यताम्: भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया using AWB
(लघु) wikidata interwiki
 
पङ्क्तिः १८: पङ्क्तिः १८:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]

[[en:Black gram]]
[[ta:உளுத்தம் பருப்பு]]

वर्तमाना आवृत्तिः १६:१३, १४ मार्च् २०१८ इति समये

माषधान्यम्
माषपिष्टेन निर्मितं वटकम्

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । माषस्य पिष्टम् एव माषपिष्टम् । एषः माषः अपि भारते वर्धमानः कश्चन धान्यविशेषः । आङ्ग्लभाषायां Black Gram इति उच्यते । माषः अधरस्य रुचिवर्धकः । किन्तु न तावान् उदरस्य हितकरः । भारतीयेषु प्राचीनेषु शास्त्रेषु माषस्य उपयोगः एव निषिद्धः अस्ति । यतः माषः बुद्धिं न्यूनीकरोति, अथवा बुद्धेः वर्धनस्य अवरोधकः इति ।

कुरुविन्दः, वृषाकरः, मांसलः, बलाढ्यः, पित्र्यः, पितृजोत्तमः इत्यादीनि अपि नामानि सन्ति माषस्य । दिवं गताः पितरः अपि वर्षे एकवारं काकरूपेण भुवम् आगत्य माषं सेवन्ते इति । तदर्थम् एव “श्राद्ध”कार्येषु माषस्य किमपि एकं वा खाद्यपदार्थं निर्मान्ति एव । दक्षिणभारतस्य प्रसिद्धः उपहारः “इड्लि”निर्माणार्थं माषः अत्यावश्यकः एव । दोसानिर्माणे, वटकनिर्माणे, शष्कुलिनिर्माणे, व्याघरणे, पर्पटनिर्माणे, अवदंशनिर्माणे च माषः उपयुज्यते एव । यद्यपि माषे विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम्

दृश्यताम्[सम्पादयतु]

अधिकविवरणार्थं माषः इति पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=माषपिष्टम्&oldid=432024" इत्यस्माद् प्रतिप्राप्तम्