"वराङ्गपत्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) wikidata interwiki
(लघु) wikidata interwiki
 
पङ्क्तिः २७: पङ्क्तिः २७:
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]


{{Interwiki conflict}}

वर्तमाना आवृत्तिः १३:२५, १२ एप्रिल् २०१८ इति समये

वराङ्गसस्यस्य शाखा, पत्रं, पुष्पं चापि
वराङ्गपत्राणि
वराङ्गस्य पल्लवम्

एतत् वराङ्गम् अपि भारते वर्धमानः कश्चन वृक्षविशेषः । तस्य पत्रम् एव वराङ्गपत्रम् । एतत् वराङ्गपत्रम् अपि सस्यजन्यः आहारपदार्थः । एतत् वराङ्गम् आङ्ग्लभाषायां Cinnamon इति वदन्ति । भारतीयानां सर्वेषां गृहेषु विद्यमानेषु उपस्करपदार्थेषु, प्रायः प्रतिदिनं पाके उपयुज्यमानेषु उपस्करपदार्थेषु वराङ्गम् अपि अन्यतमम् । आयुर्वेदस्य औषधपद्धतौ तु वराङ्गस्य उपयोगः महान् एव अस्ति । अनेन वराङ्गेन बहुविधम् औषधम् निर्मीयते । एतत् वराङ्गम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । वराङ्गे ये औषधीयगुणाः सन्ति ते एव वरङ्गपत्रे अपि भवन्ति ।

आयुर्वेदस्य अनुसारम् अस्य वराङ्गपत्रस्य स्वभावः[सम्पादयतु]

एतत् वराङ्गं पचनार्थं लघु । वराङ्गं तीक्ष्णम्, उष्णगुणयुक्तं च ।

“वह्निमान्द्यानिलहरम् आध्मानाक्षेपनाशनम् ।
वान्त्युत्क्लेशप्रशमनं सङ्ग्राहि दशनार्तिकृत् ॥“
१. वराङ्गम्, एला, वराङ्गपत्रं च योजयित्वा “त्रिजातकम्” इति उच्यते । एतानि त्रीणि अपि प्रक्षेपद्रव्यरूपेण लेह्येषु उपयुज्यन्ते । एतेषां कारणतः लेह्याणां सुगन्धः वर्धते, रुचिः अपि वर्धते ।
२. वराङ्गेन सह एलां, वराङ्गपत्रं, घृतं च योजयित्वा सेवनेन ध्वनिः सुश्राव्यः भवति, श्वासरोगः (अस्तमा) कासः च निवारितः भवति ।
३. वराङ्गम्, एला, वराङ्गपत्रं, मरीचं च योजयित्वा “कटुचातुभद्रकम्” इति उच्यते । एतत् कटुचातुभद्रकम् अग्निदीपनं करोति, अरुचिं च निवारयति । अस्य लेपनेन चर्मणः कान्तिः वर्धते ।
४. वराङ्गम्, एला, वराङ्गपत्रं, नागकुङ्कुमं (नागकेसरचूर्णम्) च योजयित्वा “चातुर्जातकम्” इति उच्यते । एतत् अपि अग्निदीपकं, सुगन्धस्य वर्धकं च ।
५. दध्नि एलां, खण्डशर्करां च योजयित्वा निर्मीयमाणं “श्रीखण्ड” नामकं खाद्यम् अत्यन्तं रुचिकरं भवति । एतत् खाद्यं सन्तानशक्तिं वर्धयति, अग्निदीप्तिकरं च । एतत् श्रमजीविनां पथ्यः आहारः ।
६. प्रसवस्य अनन्तरं याः अत्यन्तं कृशाः भवन्ति तासु जायमाना उदरवेदना “मक्कल्ल” इति उच्यते । तस्य निवारणार्थं वराङ्गम्, एलां, वराङ्गपत्रं, नागकुङ्कुमं, पुरातनं गुडं च योजयित्वा मधुना सह सेवनीयम् । एतत् मिश्रणं वातस्य अनुलोमनं कारयति, दुष्टं रक्तं बहिः प्रेषयति च ।
७. वराङ्गम्, एलां, द्राक्षां, लाजाः च योजयित्वा मधुना घृतेन सह च सेवनेन हृद्रोगः, वमनं च अपगच्छति ।
८. अस्य वराङ्गसस्यस्य पत्रं (लवङ्गपत्रम्) आतपे शुष्कीकृत्य चूर्णीकृत्य पाके, औषधे च उपयोक्तुं शक्यते ।
९. वराङ्गस्य तैलम् अग्निमान्द्यं, वातरोगम्, उदरबाधाम्, आक्षेपकं, वमनं, वमनशङ्खां च निवारयति ।
१०. वराङ्गस्य तैलम् अपि लवङ्गस्य तैलम् इव दन्तवेदनायाम् उपयोक्तुं शक्यते ।‎
"https://sa.wikipedia.org/w/index.php?title=वराङ्गपत्रम्&oldid=434390" इत्यस्माद् प्रतिप्राप्तम्