"प्रतिज्ञायौगन्धरायणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Removing Bhasa_plays.jpg, it has been deleted from Commons by Jcb because: No permission since 20 December 2018.
पङ्क्तिः १८: पङ्क्तिः १८:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:प्रथमशताब्द्याः कृतयः]]

०५:०९, ११ मे २०१९ इत्यस्य संस्करणं

भासः

इदमेकम् प्रसिद्धनाटकम्। एतस्य कर्ता महाकविः भासः। क्षेमेन्द्रस्य बृहत्कथामञ्जरीं सोमदेवस्य कथासरित्सागरं च आधृत्य विरचितमिदं नाटकम् भासस्य स्वप्नवासवदत्ता नाटकस्य पूर्वार्धविषयमेव निरूपितमस्तु।प्रतिज्ञायौगन्धरायणनाटके तावत् चत्वारः अङ्काः सन्ति। नाटकसाहित्ये महाकविभासस्य महती प्रसिध्दिरस्ति । अन्येषां नाटककाराणां का कथा ? स्वयं महाकविः कालिदासोऽपि भासस्य वैशिष्ट्यं मुक्तकण्ठेन स्वीकरोति मालविकाग्निमित्रस्य प्रस्तावनायां स्पष्टमुक्तं सूत्रधारेण प्रथितयशसां भाससौमिल्ल कविपुत्रादीनां प्रबन्धानतिक्रम्य कथं वर्तमानस्य कवेः कालिदासस्य कृतौ बहुमानः । अनेन ज्ञायते यत् कालिदासस्य समये भासस्य महती प्रसिध्दिरासीदिति । अस्य कृतयः सर्वसाधारणजनेषु विख्याता आसन् । अत एव कालिदासस्य कमनीयनाटकमपि जनाः समादरेण नावलोक्यन्ति स्म । कालिदासस्य परवर्तिनः कायोऽपि भासं भृशं प्रशंसयामासुः । श्रीबाणभट्टेन हर्षचरितस्यादौ भासस्यातिप्रशंसा कृता । एतन्नाटकस्य मूलकथा बृहत्कथामञ्जरी तावत् अति प्राचिना प्रसिद्धा च। उदयनस्य कथा या बृहत्कथामञ्जरी धर्मपदटीका, मातङ्गटीका, मञ्जिमनिकायटीका इत्यादि बओद्धग्रन्थानां मूलकथा, एवं कुमारपालप्रतिभोध, त्रिषष्टिशलाकापुरुषचरिता इत्यादि जैनग्रन्थानामपि मूलकथा। मेघदूते 'उदयनकथाकोविदग्रामवृद्धान् इति कालिदासस्य वाक्यम् बृहत्कथायाः वैशिष्ट्यं प्रदर्शयति।