"सङ्गणकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Replacing Acer_Aspire_8920_Gemstone_by_Georgy.JPG with File:Acer_Aspire_8920_Gemstone.jpg (by CommonsDelinker because: file renamed, redirect linked from other project).
पङ्क्तिः ११: पङ्क्तिः ११:
{{Infobox|title = Computer
{{Infobox|title = Computer
|image =

|image =

[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x81px]][[File:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x81px]][[File:Intertec Superbrain.jpg|x81px]]
[[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x79px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x79px]][[File:G5 supplying Wikipedia via Gigabit at the Lange Nacht der Wissenschaften 2006 in Dresden.JPG|x79px]]
[[File:DM IBM S360.jpg|x77px]][[File:Acorn BBC Master Series Microcomputer.jpg|x77px]][[File:Dell PowerEdge Servers.jpg|x77px]]}}
[[File:Acer Aspire 8920 Gemstone.jpg|x81px]][[File:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x81px]][[File:Intertec Superbrain.jpg|x81px]]
[[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x79px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x79px]][[File:G5 supplying Wikipedia via Gigabit at the Lange Nacht der Wissenschaften 2006 in Dresden.JPG|x79px]]
[[File:DM IBM S360.jpg|x77px]][[File:Acorn BBC Master Series Microcomputer.jpg|x77px]][[File:Dell PowerEdge Servers.jpg|x77px]]}}

*अधुना चतुर्विधा गणकयन्त्राणि उपलभ्यन्ते–

*अधुना चतुर्विधा गणकयन्त्राणि उपलभ्यन्ते–

०४:४७, १४ जून् २०२० इत्यस्य संस्करणं

सङ्गणकानि

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्यम् कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते । अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।

गणकयन्त्रस्य इतिहासः

गणकयन्त्रं चार्लस् ब्याबेज्महोदयेन आविष्कृतम् । अपरा महिला लेडी आडा अपि अस्य यन्त्रस्य आविष्करणकार्ये धनसाहाय्यं कृत्वा तस्य परिज्ञानप्राप्तये साहाय्यं कृतवती । हङ्गेरीदेशस्य गणितज्ञः जानवान् न्यूमन् अस्मिन् यन्त्रे कथं कार्यविषयान् संगृह्य स्थापयितुं शक्यम् इति आविष्कृतवान् । ईदृशम् संगणकं आङ्लभाषायां stored programme computer इति, संस्कृतभाषया संगृहीतविधिसंगणकम् इति च अभिधीयते। विश्वे प्रथमगणकयन्त्रम् अमेरिकादेशस्य पेन्सिल्वेनिया विश्वविद्यालयस्य विद्युद्यन्त्रशाखायां निर्मितम् । एक्कर्ट् तथा म्याकले महोदयाभ्यां गणकयन्त्रं परिष्कृतम् । अद्यपर्यन्तं नानाविधानि गणकयन्त्राणि आविष्कृतानि । अधुना अस्माकं पुरतः चतुर्थ-परम्परीय-गणकयन्त्रं वर्तते । पञ्चम-परम्परीय-गणकयन्त्रस्य आविष्करणकार्यं प्रचलदस्ति यस्मिन् कृतकबुद्धियोजनस्य प्रयत्नः प्रचलति । यथा धान्यानां पिष्टरूपप्राप्तये धान्यमर्दनयन्त्रस्य एकस्मिन् द्वारे धान्यं स्थाप्यते चेत् अन्यस्मात् द्वारात् पिष्टरूपं प्राप्यते । तथैव गणकयन्त्रे विषयाः पूर्यन्ते चेत् इदं यन्त्रं विषयाणाम् अनेकानि रूपाणि प्रदर्शयति । आङ्गलभाषायां इदं इन् पुट् (Input) इति, संस्कृतभाषया निवेश्यं इति चाभिधीयते।

गणकयन्त्रस्य अन्तर्भागाः

Computer

• अधुना चतुर्विधा गणकयन्त्राणि उपलभ्यन्ते–

(१) फलकाधार/पीठिकाधार गणकयन्त्रं [Desk Top]
(२) अङ्गाधार गणकयन्त्रम् [Tower Top] यस्मिन् यन्त्रे संस्मरणं तथा चालनं सर्वेऽपि उत्थापित स्थम्भे वर्तन्ते।
(३) अङ्कगणकयन्त्रम् [Lap Top]
(४) करतलस्थापितगणकयन्त्रम् [Palm Top]

• गणकयन्त्रस्य त्रय: प्रमुखा: विभागा: सन्ति ।

(१) प्रदर्शकं - दूरदर्शनपेटिका इव आवरणपटम् । [V.D.U or Monitor]
(२) अङ्कुरफलकम् [Key board]
(३) केन्द्रीयसंस्करणाघटकम् [System]

(१) आवरण पटम्-आवरणपटं सितासितं व अन्यवर्णस्य वर्तते । अस्मिन् पटे पञ्चविंशति पङ्कायः, एका पङ्कायां अ- शीति अक्षराणि सन्ति । आवरणपटस्य गुणं मूख्याङ्कने तथा चित्रस्य तीक्ष्णवोपरि वर्तते ।
(२) अङ्कुर फलकम्-अङ्कुर फलकं मुद्रणयन्त्रमिव वर्तते । किन्तु अस्मिन् फलके अन्यं विशेसं अङ्कुरं वर्तते । यथा “फ १ तः फ १२” पर्यन्तं एतानि द्वादश अङ्कुरानि कार्यक्षमताङ्कुरानि इत्युच्यते । अन्ये तु चक्रयन्त्र अङ्कुरम् [Cap-s Lock Key] उच्छेदनाङ्कुरम् [Delete Key], नियन्त्रणाङ्कुरम् [Controll Key] इति विभिन्नानि अङ्कुरा-नि वर्तन्ते । प्रत्येकस्य कार्यक्षमता विभिन्ना एव । अङ्कुरफलकम् तथा आवरणपटं एते द्वयोः संयोगं सामान्यतः अन्तिमम् [Terminal] इत्युच्यते । (३) केन्द्रीयसंस्करणघटकम्-इदं गणकयन्त्रस्य हृदयमिव । अस्मिन् घटके अनेकानि विद्युन्मानफलकानि सन्ति । यथा- दारुफलकम्, (विद्युन्मान घटकेन संयोजितम्) ध्वनेः फलकम् (Sound Board) यस्मिन् फलके “परुष परिधिः” इति विशेष परिधमः (Hard disks) सन्ति । एतत् फलकम् विञ्चेस्टर महोदयेन आविष्कृतम् । अतः अस्य फलक-स्य नाम “विंचेस्टर” इति कतिपयः कथयन्ते । अयं परिधिः “प्लास्टिक्” इति वस्तुना निर्मितम् तस्योपरि आयस्का-न्त वस्तुना आवृतम् अस्थूलपरिधिः । आंग्लभाषायां “Flapee” इति वदति ।अस्य परिधेः वर्तुलं अङ्गुलत्रयं वर्तते। अस्मिन् परिधेषु विषयसंग्रहः कार्यं कर्तुं शक्यते । परुषपरिधि मध्ये विषयसंग्रहः स्थिररूपेण विद्यते ।संस्मरणमूल्यं “मेगाबैट्” रूपेण ज्ञातुं शक्यते । तत्र तु चत्वारिंशत् मेगाबैट् तथा अशीति मेगाबैट् इति द्वौ विद्यौ । अयं परिधिं ग-णकयन्त्र मध्ये स्थापयित्वा कर्माचरणं “Flapee Drive” इत्युच्यते । (४) मूषकः-अस्मिन् यन्त्रे द्वौ गण्डौ विद्येते । गणकयन्त्र कार्यारम्भानन्तरं विशेष सङ्कैतः आवरण पटे दृश्यते । एतद् आंग्लभाषायां “कर्सर् [Cursor]” अयं सङ्केतः मूषके स्थिते गण्ड साहाय्येन आवरण पटे प्रचालयिंतु शक्यते । मुद्रणयन्त्रम्-अस्मिन् यन्त्रे नानाविधानि यन्त्राणि सन्ति यथा- डाटा (Data) “म्याट्रिक् (Matric)” लैनप्रिन्टर् (Line Printer), लैसर् (Laser) एतेषु ‘डाटा’ ‘म्याट्रिक्’ ‘लेसर् प्रिन्टर’ बहुमूल्यमपि श्रेष्ठः इति परिगण्यते । स्क्यानर्-निरूपणम्-अस्य साहाय्येन आवरण पटे चित्राणि दर्शयितुं शक्यते । गणकयन्त्रस्य कार्यक्रमाणां “मृदुत्रंत्राशः (Software) इत्युच्यते । गणकयन्त्रस्य रचना कार्ये आवश्य यन्त्रान् “परुषयन्त्रांशः (Hard ware) इति । यथा अङ्कुरफल-कम्, आवरणपटम् इति । गणकयन्त्रस्य कार्यविधायिन्-गणकयन्त्रं स्वयमेव सर्वकार्याणि करोति इति भ्रामकपरिकल्पनम् । गणकयन्त्रे क्रमशः तर्कशुद्धविधानं निवेदितव्यम् । गणकयन्त्रस्य भाषा अनेका सन्ति । प्रत्येक अङ्कुरे सङ्केतं वर्तते । तत् व-र्णासरं वा संख्या वा भवति । यथा “A” इति आंग्ल भाषा वर्णाक्षर “4” इति संख्या । अन्ये विशेष सङ्केताः अपि सन्ति । सामान्यतः आंग्ल भाषा पदानि एव गणकयन्त्रे प्रयुज्यते । तदनन्तरं संकलन कार्येन [Compailer] “गणकयन्त्रस्या भाषायां अनुवादन कार्यं भवति । यथा “कोबाल्” “पास्कल्” “बेसिक् (Basic)” “सि++” तथा मैकोसाफट इति पूर्वनियोजित कार्यस-ङ्ग्रहः । साफट् वेर प्रोडक्ट् इत्युच्यते । पदं (word) साफट् वेयर् साहाय्येन पत्रे मुद्ररण कार्यं भवति । स्वीकारपत्रं (Rece-ipt) “एक्सेल् (Excell)” साहाय्येन निर्मितुं शक्यते । कश्चिद् संस्थायाः अनेकविषयसंग्रह कार्यानि कर्तुं शक्यते । एतत् “ए-क्सेस् (Access)” अथवा “डाटाबेस् (Data base)” इत्युच्यते । श्रद्धया गणकयन्त्रस्य परिचयं ज्ञातुं शक्यते । अन्तर्जालरुपेण गृहे स्थास्येव सर्वकार्याणि कर्तुं शक्यते । अन्तर्जाल नाम किम् चेत् अनेकगणकयन्त्राणां जालानि एकीकृत महाजालं ।

अन्तर्जालम्

अन्तर्जालस्य नक्षा

अन्तर्जालस्य अपरं नाम ‘जालप्रपञ्चम्’ [Cyber world] | एतत् ज्ञानार्णवं अस्मिन् अर्णवे तरणं “सर्फिंग्” (Surfi-ng) इत्युच्यते । अन्तर्जालरूपस्य प्रयोजनं कर्तुं एता उपकरणानि आवश्यकानि ।
(१) गणकयन्त्रम्-चित्रपटफलकम्, स्वीकरणीय चित्रफलकम् (Grafic board) ध्वनिनिर्माणयन्त्रम् (Sound Board)
(२) दूरवाण्याः सम्पर्कम्
(३) मोडम् इति उपकरणम् (गणकयन्त्रं तथा दूरवाणी सम्पर्कस्य साधनम्)

अन्तर्जालस्यकार्यनिरूपणम्-यः कोऽपि भारतीयः विदेशं जिगमिष्यति चेत्, सः तस्य देशस्य सकलविषयान् यथा तस्यदे स्य शीतोष्णप्रकृतेः परिज्ञानं वस्तुं वसतिगृह, भोजन, यानस्य मार्गपरिज्ञानं इति एतत् ज्ञातुं किमपि गण्यं विक्रीय ज्ञातुं न अवश्यकम् ।तं देशं रामनार्थं “याहू काम्” इति अन्तर्जाले प्रविश्य ज्ञातुं शक्यते । प्रथमतः सः गणकयन्त्रं दूरवाणी सम्पर्केण सन्देशं प्रेषति । तत् सम्पर्कं VSN (विदेश संचार निगम्) अथवा ISP (अन्तर्जाल सेवा समिति) अन्तर्जालसेवा निगमस्य स-म्पर्केण तस्य देशस्य सर्वविषयान् क्षणार्धे गृहे एव प्राप्तुं शक्यते । गणकयन्त्रे अनेकविषय तथा वार्तासङ्ग्रहः वर्तते । “पोर्टल् (Portal)” इत्युच्यते । विषय वार्तासंग्रहः www इति आरम्भते । अस्य अर्थः प्रपञ्चाद्यना अन्तर्जाल सेवा इति । अन्तर्जालरूपस्य प्रयोजनानि-इति पूर्वं उद्योगावकाशस्य विषयं ज्ञातुं दिनपत्रिकायां मध्ये आकाङ्क्षा आवश्यक वा इति पत्र-भागं द्यष्टुं आवश्यकमेव । अधुना तस्यावश्यकता नास्ति । अन्तर्जालं प्रविश्य www.naukari.com इति स्थाने गत्वा उद्यो-गावकाश सम्पर्धा सर्वविषयान् ज्ञातुं शक्यते । तथैव विवाहार्थे वधूवरान्वेषण कार्यमपि कर्तुं शक्यते । सुगम् तथा शास्त्रीय संगीतमपि श्रोतुं शक्यते । विद्युन्मान सन्देशः [E-mail] यं प्रति सन्देशं प्रेषितुं इच्छति प्रथमतः तस्य सङ्केतं ज्ञातुं अवश्यमेव । इदं E mail ID इत्युच्यते । विद्युन्मान् साहाय्येन पत्रस्य प्रतिरूपं (Fax) प्रेषितुं शक्यते ।

अन्तर्जाल साहाय्येन परस्पर अभिमुखं भूत्वा संवादं कर्तुं शक्यते । इदं ऐ सी क्यु (ICQ) इत्युच्यते । अन्तर्जाल सा-हाय्येन वित्तकोशस्य कार्याणि स्थलान्तरे स्थित कार्यलस्त्र कलापः कर्तुं शक्यते ।इदं e-banking e-commerse इत्युच्यते। गणकयन्त्रस्य वैकल्पनानि- अतः पर्यन्तं वयं गणकयन्त्रस्य अभ्यत कार्य निर्वहणं दृष्टन्तः । तस्य अगाधशक्तिं ज्ञात्वा तस्य कार्यक्षमतां प्रति आश्चर्यं प्रकटितवन्तः । किन्तु गणकयन्त्रस्य कानिचित् वैकल्पनानि सन्ति । अन्तर्जाल साहाय्येन विचित्र तथा अश्लील दृश्यानि दृष्ट्वा बालाः युवाः युवतयः नीति मार्गं परित्यज्य अनैतिक मार्गे पर्यटनं कुर्वन्ति ।इरदर्शने प्रदर्शयन्तः धारावाही कथाः समाजस्य प्रति वैकल्पनानि कुर्वन्ति ।गणकयन्त्रस्य अभिमुखं सदा उपविश्य, सविदा गणकयन्त्रकार्येषु म- ग्नः भवति चेत् तस्य शिरोवेदना, दृष्टिदोषः सञ्जायते । सर्वदा अङ्कुरस्योपरि अङ्गुलि चालनेन तथा सदा मूषकस्योपरि ह-स्तं स्थाप्य चालनेन “कार्पल् टनल् सिण्ड्रोम् (Carpal Turnel Syndrome)” इति धमनि रोगं अनुभवितुं शक्यते । तथैव कष्ठप्रदेशे, बाहूभ्यास्थाने अतीव वेदना भवति । अकाले एव दृष्टिदोषः, दृष्टि आवरणरोगः अनुभवितुं शक्यते । गणकयन्त्रे उ-पयुक्तः प्लास्टिक परिधिः [Flapee Disk],लेसर मुद्रणः अपाय कारकाः । गणकयन्त्रे सङ्गटित विषयाणाम् तथा रहस्य विषयान् अपहरन्ति । नूतन लोकवादः – यथा मानवः बुद्धिशालिन् तथा नीतिवन्तः भवति तदा सः शिक्षकः, यदि मानवः बुद्धिशालीन् तथा अनीतिवन्तः भवति तदा सः गणकयन्त्र विषयवस्करः । गणकयन्त्रे यदि अन्यानि रोगकणानि प्रविशन्ति चेत् गणकयन्त्रस्य स्मरणशक्तिः शिथिला भवति । गणकयन्त्रस्य रोगकणान् “वैरस् (Virus)” इति । तस्य निवरणर्थे अनेकानि संशोधनानि प्रचलन्तिस्म । गणकयन्त्रस्य तथा अन्तर्जालरूप-यन्त्रस्य कारणेन अद्य मानव-मानव मध्ये मानवीय सम्बधाः त्रृप्तिः । अद्य मानवस्य सहनशील भावना नष्टा ।

कानिचित् गणकयन्त्रस्य पदानि

“com” वाणिज्यव्यवहार सेवासंस्था ।
“edu” शिक्षण सेवासंस्था।
“gov” सर्वकारस्य सेवासंस्था ।
“org” वाणिज्येतर सेवासंस्था ।
“net” अनार्जाल सेवासंस्था ।
“in” भारतदेशः ।
“uk” इंग्लण्डदेशः ।
“au” आस्त्रेलियादेशः ।

गणकयन्त्रस्य ज्ञातुं विषये कानिचित् दोषाणि भवति इति शङ्का उत्पाद्यते एव । प्रथमतः गणकयन्त्रनिर्वहणभय-म्-गणकयन्त्रा चालन समये यदि अयुक्त अङ्कुरं अज्ञानेन उत्पीडयेत् तदा गणकयन्त्रं विनश्यति इति भयं आवृतं भवति । किन्तु अज्ञानेन वा ज्ञानेन वा अङ्कुर उत्पीडनेन गणकयन्त्रं न विनश्यति । द्वितीयतः यदा उच्छेदन अङ्कुर उत्पीडनेन सर्व विषयसंग्रहं नष्टं भवति इति शङ्का भवति चेत् तर्हि भयं मास्तु । कस्य अक्षरस्य उपरि सङ्केतं (कैर्सर्) चालनं करोति तद-क्षरं अन्तर्हितं भवति । कदापि गणकयन्त्रस्य कार्यचालनेन आवरणपटे किमपि न दृश्यते । सावधानेन प्रतीक्षां करणीयम् आ-वरणपटे अक्षरगोचरार्थे समचावकाशमस्ति ।

वीथिका

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=सङ्गणकम्&oldid=453021" इत्यस्माद् प्रतिप्राप्तम्