"कलायोत्सवः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १५: पङ्क्तिः १५:


चिन्तामणी, श्रीनिवासपुरः, कोलारः, चिक्कबल्लापुरः,मागडी, मण्ड्य, मैसूरु, तुमकूरु, कुणिगल् - एवं विविधैः भागैः कृषकाः कलायान् आनयन्ति । तमिलुनाडु, अन्ध्रप्रदेशराज्यस्य कृषकाः अपि अस्मिन् उत्सवे भागं वहन्ति । उत्सवं प्रति आगताः सर्वे अपि जनाः किञ्चित् वा कलायान् क्रीणन्ति । एतेन कृषिकाः लाभान्विताः भवन्ति ।
चिन्तामणी, श्रीनिवासपुरः, कोलारः, चिक्कबल्लापुरः,मागडी, मण्ड्य, मैसूरु, तुमकूरु, कुणिगल् - एवं विविधैः भागैः कृषकाः कलायान् आनयन्ति । तमिलुनाडु, अन्ध्रप्रदेशराज्यस्य कृषकाः अपि अस्मिन् उत्सवे भागं वहन्ति । उत्सवं प्रति आगताः सर्वे अपि जनाः किञ्चित् वा कलायान् क्रीणन्ति । एतेन कृषिकाः लाभान्विताः भवन्ति ।

[[वर्गः:हिन्दु-उत्सवाः]]

०५:०५, ८ डिसेम्बर् २०२० इत्यस्य संस्करणं

बसवनगुडिप्रदेशे विद्यमानः वृषभदेवालयः

कार्तीकमासस्य अन्तिमे सोमवासरे कर्णाटकराज्यस्य बेङ्गलूरुनगरस्य "सुङ्केनहल्लि" इति नाम्ना परिचिते "बसवनगुडी"प्रदेशे परम्परानुसारेण कलायोत्सवः प्रतिवर्षं प्रचलति। ’बसवनगुडि’ नाम ’वृषभमन्दिरम्’ इति । अत्र वृषभस्य महान् देवालयः अस्ति । एतस्मिन् अवसरे अस्मिन् विशाले वृषभमन्दिरे वृषभस्य विशेषपूजां पुष्पालङ्कारं च कृत्वा सर्वेभ्यः भक्तेभ्यः निःशुल्कं कलायान् प्रसादरूपेण यच्छन्ति । देवालयस्य प्राङ्गणे एव प्रसादसेवनं वराय इति भक्तानां विश्वासः अस्ति । एतस्मात् पूर्वं, देवालयस्य पुरतः विशेषेण निर्मिते मण्डपे साङ्केतिकरूपेण कलायानां तुलनां कृत्वा भक्तेभ्यः संविभज्यन्ते । बेङ्गलूरुजनाः सङ्गणकतन्त्रज्ञानक्षेत्रे उच्चस्थाने सन्तः अपि स्वसम्प्रदायान् सम्यक् आचरन्ति ।

व्युत्पत्तिः

कडलेकायि परिषे इत्येषः कन्नडभाषाशब्दः यस्य अर्थः भवति कलायोत्सवः इति । [[कलायोत्सवः [१]

मनोरञ्जनकार्यक्रमाः

कलायोत्सवे पूजितः अलङ्कृतः वृषभः

उत्सवे अस्मिन् न केवलं कलायानां विपण्यः अपि च दोला, बृहत्-चक्रक्रीडा इत्यादीनि अपि भवन्ति। उत्सवे केचन भक्तिभावेन, केचन क्रीडादिभिः च हर्षम् अनुभवन्ति । अन्ये केचन अभरणानां, मेलायां विशेषेण उपलभ्यमानानां वस्तूनां क्रयणकार्ये मग्नाः भवन्ति । बेङ्गलूरुनगरं परितः स्थिताः कलायकृषकाः स्वस्वकलायकृषिं बसवदेवाय (वृषभदेवाय) समर्प्य श्रमस्य फलं प्राप्तुं मार्गाणां पार्श्वे कलायराशिं स्थापयित्वा विक्रयणं कुर्वन्तः भवन्ति।

पौराणिकीकथा

कलायोत्सवस्य दृश्यम्

बेङ्गलूरुनगरस्य बसवनगुडिप्रदेशं परितः होसकेरेहल्लि, गुट्टाल्लि, मावल्लि, दासरहल्लि इत्यादयः ग्रामाः आसन् । एतेषु सर्वेषु प्रदेशेषु कलायस्य एव कृषिः क्रियते स्म । प्रति पौर्णिमायां वृषभः आगत्य कृषिकाणां श्रमेण प्रवृद्धान् कलायान् खादन्ति स्म। एकदा जागृताः कृषिकाः तं वृषभं ग्रहीतुं प्रयत्तवन्तः । किन्तु सः वृषभः वेगेन धावित्वा एकस्य गिरेः उपरि अदृश्यतां गतः । अनन्तरं गिरौ शिलारूपं प्राप्य स्थीतं तं वृषभं दृष्ट्वा कृषिकाः आश्र्चर्यचकिताः अभवन् । न केवलं तावत् । अग्रे सः शिलावृषभः बृहदाकारेण वर्धितः । एषः शिलावृषभः अत्रत्यः महान् वृषभः (बसवः) । अस्त्रैः ये जनाः वृषभं प्रहृतवन्तः आसन् ते इमं शिलावृषभं दृष्ट्वा चकिताः अभवन् । ईश्वरस्य वाहनं नन्दिः एव एषः वृषभः इति मत्वा भक्त्या नमस्कृतवन्तः। ईश्वरः अस्माकं रक्षणाय एव स्वस्य वाहनं प्रेषितवान् अस्ति इति चिन्तितवन्तः। तं पूजितुम् आरब्धवन्तः । वृषभः स्वस्य प्रियं कलायं खादति स्म । वयं तत् स्थगयितुं वृथा प्रयत्नं कृतवन्तः इति पश्चात्तापम् अनुभूतवन्तः। तदर्थं प्रथमं कररूपेण तस्मै कृषिं समर्प्य विक्रयणम् आरभ्यन्ते । ईश्वरः एव कृषिं रक्षति इति विश्वसन्ति । तस्य देवालयम् अपि निर्मितवन्तः । अनन्तरं १५३७ तमे वर्षे बेङ्गलूरुनगरनिर्मार्त्रा केम्पेगौडमहोदयेन दक्षिणभारतशैल्या मन्दिरस्य पुनर्निर्माणं कृतम् । अतः प्रतिवर्षम् अन्तिमे कार्तीकसोमवासरे कृषकाः कलायानां राशिम् अत्र स्थापयन्ति। बसवं (वृषभं) "यावत् इच्छति तावत् खादतु " इति प्रार्थयन्ति । एषः सम्प्रदायः बहुभ्यः वर्षेभ्यः आचर्यते । भक्ताः अपि कलायान् क्रीत्वा वृषभाय समर्पयन्ति । [२]एषः शिलावृषभः वर्धमानः एव भवति स्म । अतः तस्य शिरसः उपरि एकं कीलं स्थापितवन्तः। तदनन्तरं तस्य वर्धनं स्थगितम् । सः कीलः त्रिशूलरूपेण अस्ति ।[३]

विविधेभ्यः प्रदेशेभ्यः कलायः

चिन्तामणी, श्रीनिवासपुरः, कोलारः, चिक्कबल्लापुरः,मागडी, मण्ड्य, मैसूरु, तुमकूरु, कुणिगल् - एवं विविधैः भागैः कृषकाः कलायान् आनयन्ति । तमिलुनाडु, अन्ध्रप्रदेशराज्यस्य कृषकाः अपि अस्मिन् उत्सवे भागं वहन्ति । उत्सवं प्रति आगताः सर्वे अपि जनाः किञ्चित् वा कलायान् क्रीणन्ति । एतेन कृषिकाः लाभान्विताः भवन्ति ।

  1. http://www.karnataka.com/festivals/groundnut-festival.html
  2. "कलायोत्सवः". 
  3. सर्वजनतोषकः कलायोत्सवः
"https://sa.wikipedia.org/w/index.php?title=कलायोत्सवः&oldid=456843" इत्यस्माद् प्रतिप्राप्तम्