"गुस्तावः मालेरः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.5.2) (robot Adding: oc:Gustav Mahler
(लघु) robot Modifying: hy:Գուստավ Մահլեր
पङ्क्तिः ३४: पङ्क्तिः ३४:
[[hr:Gustav Mahler]]
[[hr:Gustav Mahler]]
[[hu:Gustav Mahler]]
[[hu:Gustav Mahler]]
[[hy:Գուստավ Մալեր]]
[[hy:Գուստավ Մահլեր]]
[[id:Gustav Mahler]]
[[id:Gustav Mahler]]
[[is:Gustav Mahler]]
[[is:Gustav Mahler]]

०३:४७, ९ जनवरी २०११ इत्यस्य संस्करणं

गुस्तावः मालेरः

गुस्तावः मालेरः औस्त्रियदेशी हीब्रुवंशी च संगीतरचयिता अभवत्। ‍स १८६० वर्षे बोहेमियदेशिनि नगरे कलिष्ट इतिनामनि अजायत १९११ वर्षे च औस्त्रियदेशे वियेननगरे ममार। तेन नव वाद्यगणप्रबन्धाः संरचिताः अभवन् एकः च असंपर्याप्तः अभवत् तस्मिन् मृते। पृथिव्याः गीता इतिनामा अपि गायकसहितः वाद्यगणप्रबन्धः अस्ति। अनेकाः गीताः अपि तेन रचिताः अभवन्। प्रसिद्धः वाद्यगणनेता अपि अभवत्।।

गुस्तावे जातमात्रे मालरकुटुम्बं इग्तौ इतिनाम नगरे प्रस्थाय न्यविशत्। मालरे बाले एव सति तस्य अनेके भ्रातरः अम्रियन्त। तस्य पिता अपि अतिहिंस्रः पुरुषः सन् आत्मजान् च पत्नीं च बहुदा अताडयत्। पितुः च एप्सतैन् इतिनामनः संगीतपारगस्य च उपकारात् गुस्तावः वियेनसंगीतशालायां अभ्यासं कर्तुं अशक्नोत् त्रीन् वर्षान्। तत्र तु मालरस्य रुक्षात् स्वभावात् अनेके तस्य शत्रवः अभवन्। महान् तु संगीतरचयिता अन्तोनः ब्रुक्नरः तस्य गुरुः सुहृत् च बभूव। संगीतशालायां विद्यार्थी एव प्रथमान् संगीतप्रबन्धान् स रचितवान्। शालां विहाय १८८० वर्षे स वाद्यगणनेतुः कर्म कर्तुं आरब्धवान्। बाद् हाल् इतिनाम्न्यां संगीतसभायां तस्य प्रथमं स्थानं अभवत्। अस्मिन् एव वाद्यगणनेतुः कर्मणि मालरः भूयः भूयः यशः अलभत वर्तमानेषु वर्षेषु। तस्य तु स्वरचितं संगीतं बहुजनः बहु न अमन्यत। अस्मिन् पूर्वस्मिन् काले १८९३ प्रभृति १८९६ पर्यन्तं प्रथमं द्वितीयं तृतीयं च वाद्यगणप्रबन्धान् कुमारस्य मायावेणुः इतिनामानं वाद्यगणसहितं संगीतसंग्रहं अपि स अरचयत्।।

१८९७ वर्षे मालरः संराज्यसंगीतनाटकमभायां वाद्यगणनेतुः कर्म अलभत। औस्त्रियसंराज्ये सांगीत्यलोके इदं उत्तमं स्थानं अभवत्। औस्त्रियसंराज्यस्य धर्मः रोमककतोलिकख्रिस्तधर्मः एव अभवत् अतः अस्मिन् स्थाने अधिष्ठात्रा रोमककतोलिकधर्मिणा एव भवितव्यं। हिब्रुधर्मे एव मालरस्य जातिधर्मे अपि स श्रद्धावान् हिब्रुः न कदाचित अभवत्। सत्येन तदैव कं चित् कालं मालरः रोमककतोलिकधर्मवादी अभवत्। यत् अस्य धर्मस्य अनेकाः मूलकल्पना मालरस्य अरोचन्त इदं अष्टमः वाद्यगणप्रबन्धः विशेषतः प्रकाशति यस्मिन् एहि विश्वकर्तर् अध्यात्मन् इतिनाम पुराणं ख्रिस्तधार्मिकं स्तोत्रं तेन संगीतयोजितं एव। सर्वस्मिन् च मालरस्य संगीते विशेषतः प्रथमस्य वाद्यगणप्रबन्धस्य तृतीये विभागे तस्य हिब्रुवंशित्वं व्यक्तेन दृश्यते। स तु तत्त्वतः न ख्रिस्तधर्मी वा न हिब्रुधर्मी वा अभवत्। स्वभावात् तु बहु अध्यात्मिकः तात्तवज्ञिकः च पुरुषः अभवत्। विशेषतः जर्मणस्य तत्त्वज्ञस्य शोपन्हावरस्य उपनिषन्मूलः विचारः मालरस्य प्रियः अभवत्। स तु बहु अरण्यप्रियः अभवत्। अतः सर्वस्य वर्षस्य ग्रीष्मे स औस्त्रियस्य अचलप्रदेशे संगीतरचनं अकरोत्। दश वर्षेषु वियेनसंगीतनाट्यसभायां वाद्यगणनेता सन् मालरः सततं कलाश्रेष्ठतां प्राप्तुं प्रायतत। स कलाभक्तः कर्मयोगी च अभवत्। कला अध्यात्मिकं कर्म एव भवति इति तस्य निर्णयः अभवत्। अतः कलाकर्मणि आत्मानं च अन्यान् च सततं भारिकैः कार्यैः नियोजयत्। मालरसंपादितायाः उत्तमायाः संस्कृत्याः तस्य नेतृत्वस्य कालः तदानींतनस्य संगीतलोकस्य कृतयुगः यथा तथा अभवत्।

"https://sa.wikipedia.org/w/index.php?title=गुस्तावः_मालेरः&oldid=99066" इत्यस्माद् प्रतिप्राप्तम्