एरण्डतैलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एरण्डसस्यम्
एरण्डतैलम्
एरण्डबीजानि
एरण्डतैलम्
एरन्डबीजम्
एरन्डबीजम्

एरण्डबीजैः निर्मितं तैलम् एव एरण्डतैलम् । एरण्डबीजैः तैलं निर्मीयते । एषः एरण्डः आङ्ग्लभाषायां Castor इति उच्यते । अस्य तैलं Castor oil इति उच्यते । एतत् एरण्डतैलम् अधिकतया औषधत्वेन एव उपयुज्यते । कदाचित् सौन्दर्यवर्धकत्वेन अपि उपयुज्यते । आहारत्वेन अस्य एरण्डतैलस्य उपयोगः अतीव न्यूनः एव । एतत् एरण्डतैलम् अत्यन्तं लेखनम् । तत्रापि एरण्डबीजानि पक्वं कृत्वा निर्मितं तैलम् अत्यन्तं लेखनम् । प्रातः ब्राह्मीमुहूर्ते एव चुल्लीं प्रज्वाल्य पक्वकरणस्य प्रक्रिया आरप्स्यते । मध्याह्नपर्यन्तम् एषा प्रक्रिया प्रवर्तते ।

अस्य एरण्डतैलस्य प्रयोजनानि[सम्पादयतु]

१. शिरसि एरण्डतैलस्य लेपनेन शरीरस्य औष्ण्यं न्यूनं भवति । केशाः सम्यक् वर्धन्ते । शिरसि तुषाः सन्ति चेत् निवारिताः भवन्ति ।
२. बालानां वा शिशूनां वा उदरबाधा अस्ति चेत् नागवल्लीपत्रस्य उपरि एरण्डतैलं लेपयित्वा तत् पत्रम् उष्णीकृत्य तत् पत्रम् उदरस्य उपरि स्थापनेन उदरबाधा निवारिता भवति ।
३. मणिबन्धेषु वेदना अस्ति चेत् एतत् एरण्डतैलम् उष्णीकृत्य लेपनेन वेदना न्यूना भवति ।
४. शरीरे वेदनासहितः शोथः अस्ति चेदपि एरण्डतैलम् उष्णीकृत्य लेपनेन निवारणं भवति ।
५. एरण्डतैलं लेपयित्वा अभ्यङ्गः क्रियते चेत् शरीरवेदना अपगच्छति ।
६. अस्य एरण्डतैलस्य अभ्यङ्गेन समीचीना निद्रा अपि प्राप्यते ।
७. मलावरोधः अस्ति चेत् एरण्डतैलेन सह निम्बूकस्य रसं योजयित्वा सेवनीयम् ।
८. उदरवेदनायां सत्याम् अपि एरण्डतैलं सेवनीयम् ।
९. नेत्रवेदना अस्ति चेत्, नेत्रे कण्डूयनं जायये चेत्, नेत्रं रक्तवर्णीयं जातं चेत् च मातुः क्षीरेण सह शुद्धम् एरण्डतैलं योजयित्वा नेत्रे लेपनेन सर्वम् अपि अपगच्छति ।

‎==बाह्यसम्पर्कतन्तुः==

"https://sa.wikipedia.org/w/index.php?title=एरण्डतैलम्&oldid=399974" इत्यस्माद् प्रतिप्राप्तम्