कुरुक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kurukshetra

कुरुक्षेत्रम्

धर्मक्षेत्रम्
नगर
Bronze Chariot with Lord Krishna and Arjuna in Kurukshetra.
Bronze Chariot with Lord Krishna and Arjuna in Kurukshetra.
Country भारतम्
State हरियाणा
District कुरुक्षेत्रमण्डलम्
Founded by कुरुः
Named for कुरुः
Area
 • Total १,५३० km
Population
 • Total ९६४,६५५
 • Density ६३०/km
Languages
 • Official हिन्दी, पञ्जाबी
 • regional हरियाणवी
Time zone UTC+5:30 (IST)
PIN
136118
Telephone code 911744
ISO 3166 code IN-HR
Vehicle registration HR 07X XXXX
Website kurukshetra.nic.in
[१]
प्राचीनभारतम्
A manuscript of Mahabharata depicting the war at Kurukshetra


कुरुक्षेत्रम् हरियाणाप्रदेशे स्थिता एकम् सुप्रसिद्धम् तीर्थम् अस्ति। पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः अम्बाला-नगरं, यमुनानगरं, करनाल-नगरं, कैथल-नगरं च स्थितम् अस्ति । इदं नगरं देहली-नगरेण, अमृतसर-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।

समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति ।

हिन्दुतीर्थस्थानानि[सम्पादयतु]

ब्रह्मसरोवरम्[सम्पादयतु]

ब्रह्मसरोवर

तत्र “ब्रह्मसरोवर” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति। तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति ।

ज्योतिसर[सम्पादयतु]

यतः अस्य नगरस्य ज्योतिसर-क्षेत्रे भगवता कृष्णेअर्जुनागीतोपदेशः प्रदत्तः आसीत् ।

सावित्री शक्तिपीठम्[सम्पादयतु]

एतत् शक्तिपीठं भारतस्य हरियाणाराज्यस्य कुरुक्षेत्रसमीपे थानेसर् इत्यत्र (पूर्वतन-स्थानेश्वरम्, स्थाण्वीश्वरम्) अस्ति। ऐतिह्यानुसारम् अत्र सतीदेव्याः पादस्य मीनखण्डः पतितः इति विश्वासः । अत्रत्या देवी सावित्रीनाम्ना अत्रत्यशिवः स्थाणुनाम्ना पूज्यते । अत्र पूजादिकैङ्कर्याणि निरन्तरं प्रचलन्ति ।

स्थाण्वीश्वरमहादेवमन्दिरं[सम्पादयतु]

तत्र स्थाण्वीश्वरमहादेवमन्दिरं विद्यते । तस्मिन् मन्दिरे शिवलिङ्गं स्थितम् अस्ति । इदं मन्दिरं कुरुक्षेत्रस्य थानेसर-क्षेत्रे स्थितम् अस्ति ।

नाभिकमलमन्दिरम्[सम्पादयतु]

तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः ।

भीष्मकुण्डः , नरकातारी[सम्पादयतु]

भीष्मकुण्डः

अपि च कुरुक्षेत्रमण्डलस्य नरकातारी-ग्रामः विद्यते। तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति ।

श्रीकृष्ण सङ्ग्रहालयः[सम्पादयतु]

ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्ण सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति ।

बिरला-मन्दिरम्[सम्पादयतु]

कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति ।

अन्यप्रेक्षणीयस्थानानि[सम्पादयतु]

कल्पना चावला कृत्रिमग्रहमण्डलम्[सम्पादयतु]

कल्पना चावला” इत्याख्यायाः स्मृतौ “कल्पना चावला प्लानेटेरियम्” इत्याख्यं संस्थापितम् आसीत् । अनेन कृत्रिमग्रहमण्डलमाध्यमेन “कल्पना चावला” इत्याख्यायै श्रद्धाञ्जलिः प्रदीयते ।

शेख चेहली समाधिः[सम्पादयतु]

शेख चेहली समाधिः

अस्य नगरस्य थानेसर क्षेत्रे “शेख चेहली” इत्याख्यस्य समाधिः अपि अस्ति ।

मार्गः[सम्पादयतु]

वायुमार्गेण, धूमशकटमार्गेण, भूमार्गेण च कुरुक्षेत्र-नगरं प्राप्यते । अस्य नगरस्य समीपस्थं विमानस्थानकं चण्डीगढ़-नगरे स्थितम् अस्ति ।


बाह्यसमपर्कतन्तुः[सम्पादयतु]

फलकम्:कुरुक्षेत्रम्

"https://sa.wikipedia.org/w/index.php?title=कुरुक्षेत्रम्&oldid=436294" इत्यस्माद् प्रतिप्राप्तम्