कोचबिहारमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोचबिहारमण्डलम्

কোচবিহার জেলা
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः जलपाइगुडि
केन्द्रनगरम् कोचबिहार नगरम्
Area
 • Total ३,३८७ km
Population
 (२०११)
 • Total २८,२२,७८०
 • Density ८३३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्रम् कोचबिहार लोकसभाकेन्द्रम्
Website http://www.coochbehar.gov.in

कोचबिहार पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोचबिहार नगरम् । आयतनदृष्ट्या मण्डलमिदं राज्यस्य त्रयोदशतमम्[१] । जनसंख्यादृष्ट्या च षोडशतमम्[१] मण्डलम् । कोचबिहारमण्डलस्य उत्तरे जलपाइगुडिमण्डलम्; दक्षिणे बाङ्गलादेशः; पूर्वे असमराज्यम् एवञ्च पश्चिमे जलपाइगुडिमण्डलम् अस्ति । सुनिर्दिष्टं भूखण्डं विहाय अपि अस्मिन् मण्डले इतःस्ततः विक्षिप्तांशाः सन्ति[२]:४७

इतिहासः[सम्पादयतु]

कोचबिहारस्य राज्ञः प्रतीकचिह्नम्

वर्तमानं कोचबिहारमण्डलम् अतीतकाले वृहत्तरस्य कामरूपराज्यस्य प्रदेशः आसीत् । १७७२ तमे वर्षे कोचबिहारमण्डलं ब्रिटिशभारतस्य एकं करदराज्यम् अभवत् । १९४९ तमे संवत्सरे तदानीन्तनः राजा जगद्दीपेन्द्र नारायण स्वराज्यमिदं(कोचबिहारमण्डलम्) भारतस्य सर्वकाराय दत्तवान् । १९५० तमे वर्षे कोचबिहार इति स्थलं पश्चिमबङ्गस्य मण्डलरूपेण आख्यायितम् आसीत् । [२]:४७

कामारूपराज्यस्य अंशरूपेण स्थलमिदं यदा आसीत्, तदानीं अस्य अन्तर्भावः 'कामाता' इति प्रदेशे आसीत् ।

भूगोलम्[सम्पादयतु]

समग्रकोचबिहारमण्डलं समभूमिप्रदेशे अन्तर्भवति । परन्तु विशेषतः अस्य मण्डलस्य दिनहाटाप्रदेशः अवतलभूमियुक्तप्रदेशेषु अन्तर्भवति । कोचबिहारमण्डलस्य सर्वोच्चभूस्थलं भवति शीतलकुचिप्रदेशः । हिमालयपार्वत्यश्रेण्याः पाददेशे मण्डलमिदं अवस्थितम् । अस्मिन् मण्डले एकाधिकाः विशालाकाराः ह्रदाः सन्ति ।[२]:४७-४८

नदनद्यः[सम्पादयतु]

कोचबिहारमण्डले षट्-नदनद्यः सन्ति । ताः यथा-

प्रशासनिकविभागः[सम्पादयतु]

प्राशानिकदृष्ट्या समग्रे कोचबिहारमण्डले पञ्चबृहत्-ग्रामपञ्चायतसभाः, द्वादश-समष्ट्युन्नयनसभाः, तथा षट्-पुरसभाः सन्ति ।

ग्रामपञ्चायतसभा बृहत्-ग्रामपञ्चातसभा समष्ट्युन्नयनसभा पौरसभा
कोचबिहार् सदर् कोचबिहार् कोचबिहार् -१
कोचबिहार् -२
कोचबिहार्
मेखलिगञ्ज मेखलिगञ्ज मेखलिगञ्ज
हलदिबाडि
मेखलिगञ्ज
हलदिबाडि
माथाभाङा महकुमा माथाभाङा माथाभाङा -१
माथाभाङा -२
शीतलकुचि
माथाभाङा
तुफानगञ्ज महकुमा तुफानगञ्ज तुफानगञ्ज -१
तुफानगञ्ज -२
तुफानगञ्ज
दिनहाटा महकुमा दिनहाटा दिनहाटा -১
दिनहाटा -২
सिताइ
दिनहाटा


टिप्पणी[सम्पादयतु]

  1. १.० १.१ "पश्चिमबङ्गस्य मण्डलानि". Government of India portal. आह्रियत 2008-11-24. 
  2. २.० २.१ २.२ २.३ "जेला परिचय् : कोचबिहार्", सप्तर्षि मित्र, योजना - धनधान्ये, अक्टोबर् २००६ संख्या, पृ. ४७-५४
"https://sa.wikipedia.org/w/index.php?title=कोचबिहारमण्डलम्&oldid=464705" इत्यस्माद् प्रतिप्राप्तम्