पञ्चमहालमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पञ्चमहालमण्डलम्
मण्डलम्
गुजरातराज्ये पञ्चमहालमण्डलम्
गुजरातराज्ये पञ्चमहालमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters गोधरा
Area
 • Total ५,१०० km
Population
 (२०११)
 • Total २३,८८,२६७
Languages
 • Official गुजराती, हिन्दी
Website panchmahal.gujarat.gov.in
मध्यगुजरात

पञ्चमहालमण्डलम् (गुजराती: પંચમહાલ જિલ્લો, आङ्ग्ल: Panchmahal district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोधरा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

पञ्चमहालमण्डलस्य विस्तारः ५,१०० चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे दाहोदमण्डलं, पश्चिमे खेडामण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे वडोदरामण्डलम् अस्ति । अस्मिन् मण्डले १,०४७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अष्ट नद्यः प्रवहन्ति । ताः यथा- पानम् ,महीसागरः, गोमा, मेसरी, कोकण, दादरा, वेरी, सुखी ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं पञ्चमहालमण्डलस्य जनसङ्ख्या २३,८८,२६७ अस्ति । अत्र १२,२७,८०५ पुरुषाः ११,६०,४६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ७२.३२% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ घोघम्बा २ गोधरा ३ हालोल ४ जाम्बुघोडा ५ कडाणा ६ कालोल ७ खानपुरं ८ लुनावाडा ९ मोरवा (हडफ) १० सन्तरामपुरं ११ शहेरा

कृषिः वाणिज्यं च[सम्पादयतु]

गोधूमः, 'मेइज्' च अस्मिन् मण्डले उत्पाद्यमाने प्रमुखे सस्ये स्तः । आम्रफलं, कदलीफलं, पपितफलं, बृहज्जम्बीरं, 'ग्वावा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । वृन्ताकं, कपिशाकं ('क्याबिज्'), कूष्माण्डः, 'कोलीफ्लवर्', पलाण्डुः, लसुनं, आर्द्रकं ('जिञ्जर्') च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । कृषिः, 'मिनरल्स्', क्षीरोत्पादनं, 'एञ्जिनियरिङ्ग् एण्ड् आटोमोबायिल्स्', प्रवासोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । गुजरातराज्यस्य मण्डलेषु 'क्वार्ट्ज्'-उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

चाम्पानेर-पावागढ-पुरातत्वशास्त्रोद्यानं विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदं प्रमुखं वीक्षणीयस्थलम् । अत्र प्रतिवर्षं २० लक्षाधिकपर्यटकाः गच्छन्ति । अस्मिन् मण्डले विद्यमानं जम्बूघोडा-वन्यजीविधाम, रतनमहल-भल्लूकधाम च प्रसिद्धं वीक्षणीयस्थलम् अस्ति । लुणेश्वरमहादेवमन्दिरं, मन्देश्वरमहादेवमन्दिरम् अपि अस्य मण्डलस्य वीक्षणीयस्थलं वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पञ्चमहालमण्डलम्&oldid=478324" इत्यस्माद् प्रतिप्राप्तम्