पालिताणा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पालिताणा
नगरम्
पालिताणाजैनदेवालयाः
पालिताणाजैनदेवालयाः
Country  भारतम्
State गुजरातराज्यम्
District भावनगरम्
Elevation
६६ m
Population
 (2001)
 • Total ५१,९३४
Languages
 • Official गुजराती, हिन्दी
Time zone UTC+5:30 (IST)

पालिताणा (गुजराती: પાલીતાણા, आङ्ग्ल: Palitana) इतीदं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थितस्य भावनगरमण्डलस्य एकं प्रमुखं पत्तनम् अस्ति । अहमदाबाद् इत्यस्मात् महानगरात् २४४ कि.मी. दूरे विद्यमानं वाणिज्यकेन्द्रम् अस्ति भावनगरम् इतीदं नगरम् । तत्र गान्धिस्मृतिग्रन्थभाण्डारः, वस्तुसङ्ग्रहालयः, गौरीशङ्करसरोवरः, तख्तेश्वरदेवालयाः च दर्शनीयाः सन्ति । भावनगरम् इत्यस्मात् नगरात् ५६ कि.मी. दूरे ९०० वर्षप्राचीनः ८६३ देवालयानां समूहः १९०० पादोन्नते पर्वते अस्ति । जैनयात्रास्थलमेतत् । सर्वे देवालयाः जैनदेवालयाः सन्ति । अत्रस्थाः बृहदाकाराः अमृतशिल्पनिर्मिताः आदिनाथादिदेवालयाः आकर्षकाः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=पालिताणा&oldid=376339" इत्यस्माद् प्रतिप्राप्तम्