पिथौरागढमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पिथौरागढमण्डलम्

District

पिथौरागढ जिला
Lake district of India
पिथौरागढमण्डलम्
पिथौरागढमण्डलस्य मनोरञ्जकं दृश्यम्
देशः  India
राज्यम् उत्तराखण्डः
विस्तारः ७,११० च.कि.मी.
जनसङ्ख्या(२०११) ४,८३,४३९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८२.२५%
भाषाः कुमाँउनी, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://pithoragarh.nic.in/

पिथौरागढमण्डलम् ( /ˈpɪthɔːrɑːɡədhəməndələm/) (हिन्दी: पिथौरागढ जिला, आङ्ग्ल: Pithoragad District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पिथौरागढ इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यकादि(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति ।

भौगोलिकम्[सम्पादयतु]

पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि चीनदेशः, दक्षिणदिशि अल्मोडामण्डलं, चम्पावतमण्डलं च, पूर्वदिशि बागेश्वरमण्डलं, चमोलीमण्डलं च, पश्चिमदिशि नेपालदेशः अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - नन्दादेवी, मात्रोल, रामगङ्गा, शीपु, गर्ब्यङ्ग, गोरीगङ्गा, कालीनदी

जनसङ्ख्या[सम्पादयतु]

पिथौरागढमण्डलस्य जनसङ्ख्या(२०११) ४,८३,४३९ अस्ति । अत्र ४,६२,२८९ पुरुषाः, २,२७,६१५ स्त्रियः, ६३,२९३ बालकाः (३४,८५३ बालकाः, २८,४४० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.२५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ पिथौरागढ ६ दीदीहट ।

वीक्षणीयस्थलानि[सम्पादयतु]

  1. महाकालीमन्दिरम्
  2. भुवनेश्वरमन्दिरम्
  3. नागमन्दिरम्
  4. सीरकोटमन्दिरम्
  5. गुंसेरादेवीमन्दिरम्
  6. थालकेदारमन्दिरम्
  7. नकुलेश्वरमन्दिरम्
  8. उल्कादेवीमन्दिरम्
  9. जयन्तीमन्दिरम्
  10. अर्जुनेश्वरमन्दिरम्
  11. कोटगरीदेवीमन्दिरम्

बाह्यानुबन्धः[सम्पादयतु]

http://pithoragarh.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/pithoragarh.htm

http://www.euttaranchal.com/uttaranchal/pithoragarh.php

http://dcpit.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=पिथौरागढमण्डलम्&oldid=481651" इत्यस्माद् प्रतिप्राप्तम्