भल्लातकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भल्लातकवृक्षः

एतत् भल्लातकम् अपि भारते वर्धमानः कश्चन फलविशेषः, बीजविशेषः च । इदं भल्लातकम् अपि सस्यजन्यः आहारपदार्थः । एतत् भल्लातकम् आङ्ग्लभाषायां Cashew इति उच्यते । एतत् भल्लातकं न केवलं भारते अपि तु जगतः सर्वेषु देशेषु प्रायः उपयुज्यते । अस्य भल्लातकस्य फलं बीजं च इति उभयम् अपि आहारत्वेन उपयुज्यते । अत्र तु भल्लातकस्य बीजस्य विषये उच्यते न तु फलस्य विषये । एतत् भल्लातकं मधुराणां भक्ष्याणां निर्माणे तथा कटूनां खाद्यानां च निर्माणे अपि उपयुज्यते । एतत् भल्लातकं Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति ।

बीजसहितं भल्लातकफलं
वर्धमानं भल्लातकम्

आयुर्वेदस्य अनुसारम् अस्य भल्लातकस्य स्वभावः[सम्पादयतु]

एतत् भल्लातकं मधुररसयुक्तम् । भल्लातकम् उष्णवीर्ययुक्तम् अपि ।

भल्लातकशाखा, पुष्पं, फलं, कीजं चापि
१. एतत् भल्लातकं पित्तं कफं च वर्धयति । अतः पित्तप्रकृतियुक्ताः, कफप्रकृतियुक्ताः, पित्तजन्यैः रोगैः, कफजन्यैः रोगैः च पीडिताः भल्लातकस्य उपयोगम् अधिकप्रमाणेन न कुर्युः ।
२. एतत् भल्लातकम् अत्यन्तं रुचिकरम् । एतत् आहारस्य रुचिं वर्धयति । तथैव खादनार्थम् अपि भल्लातकम् अत्यन्तं रुचिकरं भवति ।
३. एतत् भल्लातकं वातं शमयति ।
४. एतत् भल्लातकं शरीरस्य पुष्टिदायकम् अपि ।
५. वातामं, द्राक्षां, भल्लातकं च योजयित्वा लेह्यं निर्माय सेवनेन पैरुषवर्धनं भवति । एतत् लेह्यं रसायनं चापि ।
६. भल्लातकेन सह वातामम्, आढकीं (तुवरीम्), मुद्गदालं, चणकदालं च योजयित्वा चूर्णीकृत्य प्रतिदिनं क्षीरे तत् चूर्णं, खण्डशर्करां च मिश्रीकृत्य बालेभ्यः दातव्यम् । अनेन बालानां शरीरं बुद्धिः च वर्धते । एतत् पानीयं पातुं रुचिकरम् अपि भवति ।
७. अपत्यरहिताः भल्लातकं, द्राक्षां, पुत्रजीविमणिं, हरळुबीजम् इत्याख्यं बीजं च योजयित्वा लेह्यं कृत्वा पत्या, पत्न्या च नियमितरूपेण सेवनीयम् । अनेन गर्भदोषाः, शुक्रदोषाः च निवार्यन्ते । सत्सन्तानम् अपि प्राप्यते ।
८. एतत् भल्लातकम् उष्णवीर्ययुक्तम् अपि इति कारणतः उष्णप्रकृतियुक्ताः अपि मितेन एव सेवेरन् ।
९. पर्वदिनेषु देवानां नैवेद्यार्थं ये खाद्यविशेषाः निर्मिताः भवन्ति तत्र सर्वत्र सामान्यतया भल्लातकम् अपि योजितं भवति ।

"https://sa.wikipedia.org/w/index.php?title=भल्लातकः&oldid=300798" इत्यस्माद् प्रतिप्राप्तम्