माथेरान् पर्वतीयधूमशकटयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतत् विशिष्टं धूमशकटयानम् अस्ति। नेराळ् तः माथेरान् गिरिधाम प्रति गच्छति । २५ कि.मी दूरं यावत् घट्टप्रदेशे सावधानतया गच्छति । प्रतिघण्टं दश कि.मी यावत् वेगेन अस्य गमनम् । मार्गे अनेके गुहामार्गाः भवन्ति । पार्श्वे पर्वतशिखराणि वनसौन्दर्यम् कन्दराणि च दृश्यन्ते अत्र प्रयाणसमये सर्वेषां रोमाञ्चकारी अनुभवः भवति । न्यारोगेज् धूमशकटयाने केवलं पञ्चविभागाः सन्ति । एकस्य गुहामार्गस्य one kiss tunnel इति नाम अस्ति । मार्गे २२६ वक्रमार्गाः १२० सेतवः सन्ति । एतदपूर्वं धूमशकटयानम् उत्तमव्यवस्थायुक्तं सुरक्षात्मकं च अस्ति । एतत् क्रिस्ताब्दे १९०७ तमे वर्षे एव आरब्धम् आसीत् ।

सम्बद्धाः लेखाः[सम्पादयतु]