वार्तकीरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वार्तकीरसः
सञ्चिका:No name sans nom tomato juice.jpg
करण्डकेषु संरक्षितः वार्तकीरसः
वार्तक्यः

वार्तक्याः रसः एव वार्तकीरसः । एषा वार्तकी आङ्ग्लभाषायां Tomato इति उच्यते । तस्याः रसः Tomato Juice इति उच्यते । वार्तकीरसः आरोग्यार्थम् अपि उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य वार्तकीरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि वार्तकीरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं वार्तकीरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । वार्तक्याः बहवः प्रभेदाः सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।

अस्य वार्तकीरसस्य निर्माणम्[सम्पादयतु]

अस्य वार्तकीरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् वार्तकीं प्रक्षाल्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजानि पृथक् करणीयानि । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=वार्तकीरसः&oldid=345370" इत्यस्माद् प्रतिप्राप्तम्