सुमित्रा महाजन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sumitra Mahajan
सुमित्रा महाजन
लोकसभा अध्यक्षा
भारतीयः संसदः
इन्दौर लोकसभाक्षेत्रस्य
संसत्सदस्या
पूर्वगमः प्रकाश चन्द्र सेठी
व्यक्तिगत विचाराः
जननम् ११/०४/१९४३ (वयः ७२)
चिपलून, ब्रिटिशराज्यम्
राजनैतिकपक्षः भारतीयजनतापक्षः
अन्यराजनैतिक-
सम्बन्धः
राष्ट्रीय जनतांत्रिक गठबंधन (भारतः)
पतिः/पत्नी जयन्त महाजन
निवासः इंदौर, मध्य प्रदेश
मुख्यशिक्षणम् देवी अहिल्या विश्वविद्यालयः
सुमित्रा महाजन
सुमित्रा महाजन

सुमित्रा महाजन (११ अप्रैल १९४३) [१] भारतीयराजनेतृषु अन्यतमा विद्यते । अद्यत्वे भारतीयसंसदि लोकसभाध्यक्षा पदारूढा । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा (मीरा कुमार २००९ तः २०१४) । सुमित्रा अष्टवारं संसत्सदस्यारूपेण (इन्दौर लोकसभा क्षेत्रे) चिता। सा इन्दौर नगरे सुमित्रा ताई इति नाम्ना प्रसिद्धा ।

बाल्यं, शिक्षा च[सम्पादयतु]

१९४३ तमस्य वर्षस्य अप्रैलमासस्य १२ दिनाङ्के महाराष्ट्रराज्यस्य चिपलूननगरे सुमित्रायाः जन्म अभवत् । सा स्नातकोत्तरा एल०एल०बि० (LLB) च इन्दौर-नगरस्थिते इन्दौरविश्वविद्यालये (वर्तमान देवी अहिल्या विश्वविद्यालये) अपठत् । पुस्तकवाचनं, सङ्गीतश्रवणं, गायनं, चलच्चित्रदर्शनं च तस्याः प्रमुखाः ऋचयः सन्ति ।

राजनैतिकजीवनम्[सम्पादयतु]

सा १९८९ तमे वर्षे मध्यप्रदेशराज्यस्य पूर्वमुख्यमन्त्री प्रकाश चन्द्र सेठी विरुद्धं प्रथमवारं लोकसभानिर्वाचनं जितवती । सुमित्रा महाजन इत्येषा केन्द्रियमन्त्रिमण्डले (२००२ - २००४) आसीत् । सा मानवसंसाधनमन्त्रित्वेन, सञ्चारविभागमन्त्रित्वेन, पेट्रोलियममन्त्रालयमन्त्रित्वेन च शपथग्रहणम् अकरोत् । सा लोकसभानिर्वाचने सदैव अपराजिता ।

लोकसभा अध्यक्षता[सम्पादयतु]

६ जून २०१४ तमे सा निर्विरोधं लोकसभाध्यक्षा चिता । प्रथमवारं भारतीयजनतापक्षस्य कोऽपि सांसदः लोकसभाध्यक्षः अभवत् ।

टिप्पणी[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुमित्रा_महाजन&oldid=470877" इत्यस्माद् प्रतिप्राप्तम्