सोन्दा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सोन्दा
ग्रामः
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भाष्यमानाः भाषाः)
समीपनगरम् सिर्सि

सोन्दा (स्वादिसंस्थानम्)[सम्पादयतु]

सोन्दा (Sonda) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले शिरसिसमीपे स्थितं किञ्चन तीर्थक्षेत्रम् । एतत् क्षेत्रं ’सोन्दापुर’ ’स्वादि’ ’सोन्दा’ 'सोदे' इति च कथ्यते । श्रीमन्मध्वाचार्यस्य सहोदरः श्रीविष्णुतीर्थः स्वादिमठस्य यतिषु प्रथमः। श्रीवागीशतीर्थस्य शिष्यस्य श्रीवादिराजस्वामिनः तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यं च वर्तते । श्री त्रिविक्रमदेवालयः प्रसिद्धः । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, वटवृक्षः, शीतलगङ्गा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विद्यन्ते । फाल्गुनकृष्णतृतीयायाम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति ।

इतः समीपे स्वर्णवल्लीमठः अस्ति । शङ्कराचार्येण तत्वप्रचारार्थं स्थापितः मठः एषः । अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्रीराजराजेश्वरी देवालयः च सन्ति । प्राचीनयतीनां वृन्दावनानि सन्ति । अत्र नवरात्रिपर्व, नृसिंहजयन्ती पर्वसु विशेषपूजादिकं च भवति । नरसिंहजयन्ती दिने रथोत्सवः प्रचलति ।

मार्गः[सम्पादयतु]

लोकयानेन

शिरसीतः २२ कि.मी ।
बेङ्गळूरुतः ३९९ कि.मी ।
उडुपीतः १७३ कि.मी ।

रेलयानेन

हावेरीनिस्थानकम् - ६५ कि.मी
शिवमोग्गतः - १३५ कि.मी

वसतिव्यवस्था[सम्पादयतु]

मठे वसतिभोजनादिकव्यवस्थाः विद्यन्ते ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सोन्दा&oldid=481864" इत्यस्माद् प्रतिप्राप्तम्