हुक्केरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिडकल्जलबन्धः
हुक्केरी

ಹುಕ್ಕೇರಿ Hukkeri
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावी
Elevation
६३१ m
Population
 (2011)
 • Total २३,०१०
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति हुक्केरी-उपमण्डलम् ।

निर्देशाङ्काः[सम्पादयतु]

हुक्केरीनगरस्य निर्देशाङ्कौ १६.२३°उ, ७४.६°पू।

वैशिष्ट्यानि[सम्पादयतु]

  • बेळगावीतः उत्तरे ५० कि.मी.दूरे अस्ति ।
  • समीपस्थं विमानस्थानकम्- बेळगावीविमानस्थानकम्
  • समीपस्थं रेल् निस्थानकम्- बेळगावी-५०कि.मी., घटप्रभा-१८कि.मी.
  • नदी-हिरण्यकेशी
  • यन्त्रागाराः-१) हीरा शुगर् फ्याक्टरी २)सङ्गमशुगर् फ्याक्टरी ३) विश्वनाथशुगर् फ्याक्टरी
  • समीपस्थानि प्रेक्षणीयस्थानानि- गोकाकजलपातः, गोडचिनमल्किजलपातः
  • विद्यालयाः- सर्वविधशैक्षणिकसौलभ्यानि सन्ति।

नाम्नः मूलम्[सम्पादयतु]

हुक्केरीशब्दस्य मूलं शब्दद्वयम् इति वक्तुं शक्यते । प्रादेशिकभाषया हूविन+केरे/केरी इति। तन्नाम पुष्पाणां सरः इति । पूर्वम् अनेकानि पुष्पाणि विपुलतया वर्धन्ते स्म । बिजापुरस्य आदिलशाहाय प्रतिदिनम् इतः पुष्पाणां प्रेषणं भवति स्म इति इतिहासः वदति ।

इतरविवरणानि[सम्पादयतु]

२००१ तमवर्षस्य जनगणनानुसारम् अस्य उपमण्डलस्य जनसंख्या १८,९०६ मिता । एतेषु पुरुषाः ५१%, महिलाः ४९% । साक्षरताप्रमाणं ६३%, तन्नाम भारतस्य साक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । पुरुषाणां साक्षरता प्रमाणं ७२%, महिलानां ५५% । १४% साक्षराः ऊनषड्वर्षियाः ।

हुक्केरीग्रामीणविद्युत्सहकारसङ्घः(The Hukkeri Rural Electric Co-operative Society Ltd(HRECS)[सम्पादयतु]

भारते ऐदम्प्राथम्येन पञ्जीकृतः ग्रामीणविद्युत्सहकारसङ्घः एषः । सर्वकारतः साहाय्यस्वीकरणं विना ७४% IP set उपभोगितायाः निर्वहणं करोति । विद्युत्वितरणे भारते एव अत्यधिकम् एतत् प्रमाणम् । एषः सहकारसङ्घः न केवलं हुक्केरी-उपमण्डलस्य अपि च बेळगावी-गोकाक-चिक्कोडी-उपमण्डलानां विद्युत्पूरणे समर्थः अस्ति । एतस्य सङ्घस्य कार्यव्याप्तिः ३०,०००च्तुरस्रकिलोमीटरमिता अस्ति । एतेन चतुर्लक्षमिताः जनाः लाभान्विताः सन्ति । अस्य सङ्घटनस्य पञ्च वलयाः सन्ति। ते च-

  • हुक्केरी (पूर्वम्)
  • हुक्केरी (पश्चिमम्)
  • सङ्केश्वरम्
  • यमकनमरडी
  • हिडकल्जलबन्धः
"https://sa.wikipedia.org/w/index.php?title=हुक्केरी&oldid=295555" इत्यस्माद् प्रतिप्राप्तम्