फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जून् २०२४
शनिवासरः
१५:०६ UTC
षड् दोषाः पुरुषेणेह हातव्याः भूतिमिच्छता।

निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥

उद्योगपर्व ३३/७८

जीवने औन्नत्यं प्राप्तुं यः इच्छति तेन एते षड् दोषाः परित्यक्तव्याः – निद्रा, तन्द्रा (श्रान्तता), भीतिः, कोपः, आलस्यं, दिर्घसूत्रता (करणीयस्य कार्यस्य अग्रे सारणम्) च। एते दुर्गुणाः यदि स्युः तर्हि तादृशः निरन्तरं प्रयासं कर्तुं न अर्हति। परिश्रमेण विना फलप्राप्तिः नैव शक्यम्।