श्रीकृष्णरामभट्टः
श्रीकृष्णरामभट्टः | |
---|---|
![]() श्रीकृष्णरामभट्टस्य चित्रम् |
श्रीकृष्णरामभट्टः |
---|
{{ Infobox settlement l name = श्रीकृष्णरामभट्टः l image_skyline =
l image_caption =
![](http://upload.wikimedia.org/wikipedia/commons/thumb/4/47/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%83.jpg/220px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%83.jpg)
}}
{{ Infobox settlement l name = श्रीकृष्णरामभट्टः l image_skyline =
l image_caption =
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/70/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%83_2.jpg/220px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%83_2.jpg)
}}
कविपरिचयः[सम्पादयतु]
जयपुराजवैद्यस्य कुन्दनस्य ज्येष्ठतनयः श्रीकृष्णरामभट्टः (Srikrishnarama Bhatta) १९०५ तमे विक्रमाब्दे जयपुरे जनिं लेभे । कविना जयपुरविलासकाव्ये स्वपरिचयः प्रस्तुतः । तद्यथा-
- येनाशिक्षी स जीवनाथगुरुतः काव्यप्रकाशाशयः
- छन्दश्चन्दनदासतः सगणितं वैद्यागमस्ताततः ।
- सूते गन्धकजारणावधि कृता येन क्रिया नैकाशः
- सोऽहं नूतनकाव्यं –पञ्चककृतिः श्रीकृष्णशर्मा कविः ॥
अयं महाराजसंस्कृतमहाविद्यालये आयुर्वेदव्याख्यातृपदे कार्यं कृतवान् । कविरयं १९५४ तमे विक्रमाब्दे दिवङ्गतः ।
रचनापरिचयः[सम्पादयतु]
कविनैकं महाकाव्यं कच्छवंशाख्यं, जयपुरविलासं, सारशतकं, मुक्तकमुक्तावली गोपालगीतं चेति चत्वारि खण्डकाव्यानि च रचितानि । अस्य आयुर्वेदादिविषयिण्यः अन्या अपि रचनाः प्राप्यन्ते ।
कच्छवंश्महाकाव्यम्[सम्पादयतु]
अस्मिन् महाकाव्ये १७ सर्गाः सन्ति । अत्र कविः आमेरराज्यस्य कच्छवंश्स्थानां राज्ञां जीवनचरितम् वर्णीतवान् । अत्र अङ्गीरसो वीरः । शृङ्गारादीनामङ्गत्वेन सन्निवेशो जातः । कच्छवंश्यानां भूपतिनां चरितस्य प्रामाणिकरूपेण प्रकाशने महत्वपूर्णमिदं महाकाव्यम् । कविः घटनावर्णनावसरे तिथिनामप्युल्लेखं कृतवान् । तद्यथा -
- वर्षे चन्द्रार्कशैलेन्द्रे श्रावणे धवले दले ।
- बभूव ह्यश्वमेधस्य प्रारभ्भो नवमीतिथौ ॥
काव्यकला[सम्पादयतु]
कच्छवंशमहाकाव्यं वैदर्भिरिते उत्कृष्टमुदाहरणं वर्तते । श्रीकृष्णरामस्य काव्ये भाषारामणीयकं कुत्रापि नापहीयते । अस्य पदप्रयोगपाण्डित्यं नितरां श्लाघानीयम् । नवीना रुचिरा मञ्जुला च पदशय्या सहृदयहृदयं हठात् आकर्षते ।