अर्णव गोस्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अर्णव गोस्वामी
विकिकोन्फेरेन्स्-इन्डिया २०११ इत्यस्मिन् अर्णवगोस्वामी
जन्म ७ मार्च् १९७३ Edit this on Wikidata (आयुः ५१)
गुवाहाटी, असम
देशीयता भारतम् Edit this on Wikidata
शिक्षणम् हिन्दू-कॉलेज्, दिल्लीविश्वविद्यालयः
सैन्ट् एन्टोनीस कालेज्, आक्सफोर्ड्
शिक्षणस्य स्थितिः हिन्दू कॉलेज, St Antony's College, Mount St Mary's School (New Delhi) Edit this on Wikidata
वृत्तिः टाइम्स्-नाउ इत्यस्य वार्त्ता-सञ्चालकः तथा च प्रधानसम्पादकः
सक्रियतायाः वर्षाणि १९९८ – वर्तमानसमयः
Notable credit(s) द न्यूस-आवर्,
फ्रेङ्क्ली स्पीकिङ्ग् विद् अर्णब्

अर्णवगोस्वामी (असमिया: অৰ্ণৱ গোস্বামী) कश्चन भारतीयपत्रकारः। सः तु भारतीयवार्त्तावाहिन्याः टाइम्स्-नाउ इत्यस्याः प्रधानसम्पादकः तथा च वार्त्ता-सञ्चालकः अस्ति।[१]. द न्यूस-आवर्, इति सजीवः वादविवादः तेन सञ्चाल्यते, तस्य च प्रसारणं सप्ताहदिवसेषु अपराह्णे नववादने भवति।

जीवनवृत्तम्[सम्पादयतु]

Arnab Goswami at Times Literary Carnival 2012.

अर्णवगोस्वामिनो जन्म असमराज्ये गुवाहाट्यां अभवत्।[२][३] सः तु असमीये उत्कृष्टन्यायविदां कुटुम्बे अजायत। तस्य पितामहः रजनीकान्तगोस्वामी अधिवक्ता, भारतीयराष्ट्रियकाङ्ग्रेसे नेता तथा च स्वातन्त्र्ययोद्धा आसीत्।[४] तस्य मातामहः गौरीशङ्करभट्टाचार्य असमराज्ये बहुवर्षेभ्यः असमे विपक्षस्य नेता आसीत्।[४] सः स्वकीयां द्वादशकक्षां केन्द्रीयविद्यालयात् जबलपुरकैन्टोनमेन्ट् इत्यत्र अपठत्। सः हिन्दूकॉलेज्-दिल्ली इत्यत्र समाजशास्त्रे स्नातकपदवीं लब्धवान्। सः सामाजिकनृवंशशास्त्रे आक्सफोर्डविश्वविद्यालयात् सैन्ट्-एन्टोनी-कालेज् इत्यत्र स्नातकोत्तरपदवीं लब्धवान्। तत्र सः फेलिक्स्-अध्येता आसीत्।

पुरस्काराः[सम्पादयतु]

  1. सर्वश्रेष्ठप्रस्तोत्रर्थं सर्वश्रेष्ठसञ्चालकार्थं वा एशियन् टेलीविसन् अवार्ड्स् (द्वितीयम्)
  2. माध्यमक्षेत्रके उत्कृष्टताऽर्थं सोसाय्टी यङ्ग् अचीवर्स् अवार्ड्
  3. इन्डियन्-न्यूस-ब्रोड्कास्टिङ्ग्-अवार्ड्स् २००८ नवाचारी प्रधानसम्पादकार्थम्
  4. नयूस-लाइव द्वारा वर्षस्य असमीयः इति पुरस्कारः[२]
  5. पत्रकारितायाम् उत्कृष्टताऽर्थं रामनाथगोयन्का पुरस्कारः (टी.व्ही.), २०१० तमाय वर्षाय, इन्डियन्-एक्स्प्रेस्-समूहद्वारा[५]

सन्दर्भाः[सम्पादयतु]

  1. http://www.guardian.co.uk/world/2008/dec/12/mumbai-arundhati-roy
  2. २.० २.१ "Award to Arnab Goswami". The Assam Tribune (Guwahati). 18 January 2010. Archived from the original on 1 April 2012. आह्रियत 28 July 2011. 
  3. "Arnab Goswami". mediamughals.com. आह्रियत 4 August 2011. 
  4. ४.० ४.१ "The Soil Beckons". outlookindia.com. आह्रियत 4 August 2011. 
  5. "Ramnath Goenka Award for Excellence in Journalism". indianexpress.com. आह्रियत 4 August 2011. 

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अर्णव_गोस्वामी&oldid=479923" इत्यस्माद् प्रतिप्राप्तम्