मुख्यपृष्ठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,६७७ लेखाः सन्ति ।

सोमवासरः, मार्च २, २०१५; समयः- २०:१४ UTC


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

चोदस्व महते धनाय ॥
पूजनीयायै सम्पत्त्यै प्रेर्यताम् । -ऋग्वेदः १-१०४-७



शास्त्रीयलेखः

रामानुजाचार्यः

विशिष्टाद्वैतवेदान्तः (Vishishtadvaita) त्रिषु वेदान्तेषु अन्यतमः । रामानुजाचार्यः अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्थानत्रयाणि । अतीवप्राचीनानाम् उपनिषद्विचारधाराणाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति । तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति । ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन् । चेतनाचेतनविशिष्टः ब्रह्मा एकः एव इति स्फुटसिद्धान्तः । उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु श्रीमन्नारायणः एव इति अस्य सिद्धान्तस्य अर्थः । अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ति ।

(अधिकवाचनाय »)



वार्ताः

अद्यतनं चित्रम्

राकाचन्द्रः

Joseph Wright of Derby - Dovedale by Moonlight - Google Art Project.jpg

आधुनिकलेखः

जगदीशचन्द्रबोस्

जगदीशचन्द्रबोस् (३० नवेम्बर् १८५८- २३ नवेम्बर् १९३७) प्रसिद्धः भौतविज्ञानी, सस्यविज्ञानी च । अयं १८५८ तमे वर्षे नवेम्बर्-मासस्य ३० तमे दिनाङ्के भारतस्य मयमन्सिङ्ग् इति प्रदेशे (इदानीं बाङ्ग्लादेशे ) जन्म प्राप्नोत् । अयं जगदीशचन्द्रबोसः सस्यानां विषये बहुसंशोधनम् अकरोत्। प्राणिनाम् इव सस्यानाम् अपि प्राणः अस्ति इति १९०१ वर्षे लण्डन्–नगरस्थायाः रायल्–सोसैट्याः अन्ताराष्ट्रिय–विज्ञानसम्मेलने प्रत्यपादयत् ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

सुभाषितम्

सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।

छेदेऽपि चन्दनतरु: सुरभयति मुखं कुठारस्य ॥

सु.भा. - सज्जनप्रशंसा (४९/११०)

लोके तावत् मनुष्यस्य एष: स्वभाव: यत् यदा स: स्वयं कष्टम् अनुभवति, आपद्ग्रस्तो वा भवति, तदा स: कुपित: भवेत्, दु:खितो वा भवेत् । किन्तु सत्पुरुषाणां स्वभाव: न तादृश: । ते सर्वदा परोपकारे एव निरता: सन्त: स्वस्य नाशसमये अपि कमपि विकारं न प्राप्नुवन्ति । तत्कथमिति कवि: एकेन उदाहरणेन दर्शयति ।
यथा चन्दनवृक्ष: छेदनसमये अपि सहजगुणं सुगन्धं न जहाति, अपि च छेदनार्थम् उपयुक्तं कुठारमपि सुगन्धयुक्तं करोति, तथैव सज्जना: नाशसमये अपि परोपकारबुद्धिं न परित्यजन्ति ।





अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"http://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=286030" इत्यस्माद् पुनः प्राप्तिः