विकिपीडिया:नवागतेभ्यः परिचयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अधिकायै सूचनायै द्रष्टव्यम्

अत्र संस्कृत-विकिपीडियायाः यथारूपं परिचयः दीयते। यः कश्चिदपि विकिपीडियायाः मौलिकं परिचयं प्राप्तुमिच्छति तस्मै एतत्पृष्ठं सहायकम् । यत्रापि पृष्ठेषु व्याकरणगताः अशुद्ध्यः दृश्यन्ते तेऽपि पाठाः यथारूपं उल्लिख्यन्ते अत्र, यस्मात् तेषां शोधने कालः आवश्यकः। नवागतानां सम्यग् अवगमनार्थम् अत्र ते पाठाः यथादृष्टं दीयन्ते।

मुख्यपृष्ठस्य पाठस्य क्रमशः परिचयः

प्रथममत्र विकिपीडियामुखपृष्ठस्य अग्र्‌ये पार्श्वे दृश्यमानायाः पट्टिकायाः पाठक्रमेण परिचयः दीयते।

विचारमण्डपम्

एतत् हि विकिपीडियायां कार्यकरण-विषये सामुदायिक-चर्चायाः स्थानम्। द्विपाक्षिकी चर्चा तु प्रायेण सदस्यस्य सम्भाषणपृष्ठे क्रियते। परन्तु बहुपाक्षिकी चर्चा तु अत्रैव भाव्या।

अत्र च पञ्च विभागाः सन्ति, ते यथा- नयरूपीकरणसभा, तान्त्रिककार्यसभा, निर्देशसभा, सहायसभा, विविधविषयसभा चेति। प्रत्येकस्मिन् विभागे कीदृशः विषयः स्थापयितव्य इति विचारमण्डपामुखे एव लिखितम्। निर्णयविपत्त्यां च कुत्रापि स्थापयितुं शक्यते यतो हि निपुणाः तत्र शोधनं करिष्यन्तीति।

नूतनपरिवर्तनानि

एतत् तु अति महत्त्वाधायि पृष्ठम्। अत्र क्लिक् कृत्वा भवान् एतादृशे एके पृष्ठे गच्छति, यत्र तु सर्वेषामपि नूतनानां परिवर्तनानां तालिका (सूचिका) आगच्छति। तां दृष्ट्वा भवान् विकिपीडियायां वर्तमानायाः एकैकस्य क्रियायाः ज्ञानं लब्धुं शक्नोति। परन्तु किंचित् कालस्य पश्चात् सा सूचिका पुरातनी भवति, तदा F5 इति कुञ्जिकां प्रयोज्य पुनः तत्पृष्ठं नूतनीक्रियताम्। अनयैव विधिना विकिपीडियायाः पारङ्गताः नूतनानि परिवर्तनानि सततं दृष्टिगतानि कुर्वन्ति।

दूतावासः

न खलु विकिपीडिया संस्कृतेन एव लिख्यते। एतादृश्यः विकिपीडियाः बहुषु भाषासु विद्यन्ते। विभिन्नभाषाभाषिणः विभिन्नविकिपीडियातः परस्परं सम्पर्कं कर्तुं दूतावासनाम्नः (आङ्गलभाषायां Embassy इति) पृष्ठस्य प्रयोगं कुर्वन्ति। परन्तु यदा कदा विचारमण्डपेऽपि एतादृशाः सन्देशाः आगच्छन्ति।

अविशिष्टपृष्ठम्

अविशिष्टं तु यादृच्छिकम् अथवा न विशिष्टम्। यदि भवान् अत्र क्लिक् करोति, तदा दैवेनैव निश्चितं किञ्चित्पृष्ठम् उद्घाट्यते। अर्थात् तस्मिन् पृष्तठे तु यत्किञ्चिद् लेखनं(article) भवितुं शक्नोति।

साहाय्यम्

साहाय्यं चेदिच्छसि लेखनार्थं वा टङ्कणार्थं वा तर्हि अत्र क्लिक्कर्त्तव्यम्।

अर्थदानम्

विकिमीडियाफ़ाउन्डेशन् इत्यस्य कृते अर्थदानम् अनेन दीयते।

केभ्यः पृष्ठेभ्यः सम्बद्धम्

विकिपीडियायां प्रत्येकं पृष्ठं प्रायेण नैकेभ्यः पृष्ठेभ्यः सम्बन्धितं विद्यते। कथं खलु? यस्मात् प्रत्येके लेखे प्रमुखानि पदानि नीलवर्णेन राजन्ते, तेषु पदेषु च क्लिक्कृत्य भवान् तेषां पदानां विस्तृतलेखनानि द्रष्टुं शक्नोति। एकः लेखः कुत्र कुत्र नयति इति प्रत्यक्षमेव अवबुध्यते (दृश्यते खलु)। परन्तु यदि भवान् एतद् ज्ञातुमिच्छति यत् कः कः लेखः लेखविशेषं प्रति नयति तदा तल्लेखम् उद्घाटयित्वा पार्श्वस्थे केभ्यः पृष्ठेभ्यः सम्बद्धम् इति पदबन्धे क्लिक्करोतु। झटित्येव सर्वेषामपि तल्लेखसम्बद्धानां पृष्ठानां सूचिका द्रक्ष्यते।

पृष्ठ-सम्बन्धितानि परिवर्तनानि

भवद्भिः एतस्य विषये किंचित् पूर्वभूमिकायाः पश्चादेव पठनीयम्। एतस्य परिचयः अधस्तात् पुनः दीयते।

सञ्चिका आरोप्यताम् (संचिकाम् उद्भारयतु)

सञ्चिका तु फ़ाइल् (File) इति। चित्राणि, सङ्गीतांशाः, चलचित्राणि चेत्यादीनि सङ्गणकेषु सञ्चिकारूपेण एव वर्तन्ते। विकिपीडियायां लेखेषु समये समये चित्राणां, सङ्गीतांशानां, चलचित्रादीनां वा आवश्यकता भवति। कुतः आगच्छन्ति खलु तानि चित्रादीनि?

उदाहरणरूपेण दर्शितं चित्रम्।
उदाहरणं दृश्यते अत्र

अथ तानि चित्रादीनि बहुषु अन्येषु जालस्थलेषु (on websites) यदा कदा प्रतिलिप्यधिकारमुक्तानि विद्यन्ते (एतन्नाम सुपरीक्षणीयम्), अथवा सदस्येभ्यः स्वयमेव रच्यन्ते। अत्र पार्श्वे उदाहरणरूपेण चित्रमेकं दर्शितमस्ति।

एतादृशानि चित्रादीनि तु लेखेषु प्रयोक्तुं, प्रथमं विकिपीडिया संजालस्थलं प्रति (sa.wikipedia.org इत्यस्मिन्) अथवा विकिमीडिया कॉमन्स इत्यस्य सञ्जालस्थलं प्रति (http://commons.wikimedia.org/wiki/Main_Page इत्यस्मिन्) नेतव्यानि, तर्हि तेषां प्रयोगः लेखेषु कर्त्तुं शक्यते। किञ्चित्सञ्जालस्थलं प्रति तेषाम् आनयनं तु उद्‌भारणम् इति उच्यते अस्माभिः। तस्मात् "संचिकाम् उद्भारयतु" इति वाक्यमवाप्तम्। परन्तु सञ्चिकायाः उद्‌भारणात् पूर्वं तस्याः प्रतिलिप्याधिकारः (अप्युक्तः सर्वाधिकारः, कॉपीराइट् वेति) सम्यक् परीक्षणीयम्। चेत् सा कृतिः तु मुक्ताधिकारा न अस्ति तदा नैव तस्याः प्रयोगः कर्त्तव्यः, नैव च सा उद्‌भारितव्या।

उद्‌भारणार्थं भवान् सञ्चिकाम् उद्‌भारयतु इत्यस्मिन् क्लिक्करोतु। तेन नवीनमेकं पृष्ठं उद्‌घाट्यते। तस्मिन् "Choose File" इत्येतद् दृश्यते। तत्र क्लिक्कृत्य भवानेकं सञ्चिका-चयन-गवाक्षं प्राप्नोति। तत्र सञ्चिकां चित्वा भवान् Open इत्यत्र क्लिक्करोतु, सञ्चिका-विषये च वाञ्छितां सूचनां यथास्थानं ददातु। पुनश्च तत्र संचिकाम् उद्भारयतु इत्यस्मिन् क्लिक्करोतु। भवतः सञ्चिका यथानाम विकिपीडियायाम् उद्भारिता भवति। भवता तस्याः सञ्चिकायाः यथेष्टं प्रयोगं कर्त्तुं शक्यते।

विशिष्ट-पृष्ठानि

विशिष्ट-पृष्ठानि खलु असामान्यानि पृष्ठानि। तानि महत्त्वाधायीनि पृष्ठानि अपि विद्यन्ते। विकिपीडियायां कौशलं प्राप्तुं एतेषां पृष्ठानाम् अर्थज्ञानम् अतीव आवश्यकम्। बहुविधानि च एतानि पृष्ठानि। तेषां परिचयः प्रायेण उपयोगिताक्रमेण अत्र दीयते।

सदस्य एवम् अधिकार

अस्मिन् वर्गे प्रयोक्तृ-सम्बन्धिन्यः सूचनाः द्रष्टुं/परिवर्तयितुं वा शक्यन्ते।

इष्टतमानि

एतत्तु तदेव वरीयांसि इति पृष्ठं यस्य तु नाम भवतः पृष्ठस्य दक्षिणपार्श्वे उपरि सदैव वर्तते। अनेन भवान् स्वकीयायाः लेखायाः (of your account) मनोऽनुकूलं विन्यासं कर्त्तुं शक्नोति। अत्र प्रमुखासु सुविधासु एताः सन्ति-

  • अत्र भवान् स्वकीयानां हस्ताक्षराणां प्रारूपं परिवर्तयितुं शक्नोति। हस्ताक्षराणां प्रारूपाः विकि-प्रारूपे भवन्ति। परिवर्तनार्थं तत्र दृश्यमानायां निवेशपेटिकायां स्वनूतन-हस्ताक्षराणि योजयतु।
  • विद्युत्पत्र : एतत्तु विद्युत्पत्रसङ्केतः भवतः। चेद् भवान् स्वकीयं विद्युत्पत्रसङ्केतं (e-mail id) ददात्यत्र, तर्हि चेद् भवान् भविष्यत्काले स्वकीयं कूटशब्दं (विकिपीडिया-लेखायाः) विस्मरेत्, तदनेन विद्युत्पत्रसङ्केतेन पुनः प्रेष्यं स्यात्। परन्तु न तस्य प्रदानम् आवश्यकमत्र।
  • भवान् सम्पादनम् इति प्रभागे क्लिक्कृत्य स्वकीयायाः सम्पादनपेटिकायाः आकारम् अपि परिवर्तयितुं शक्नोति। कथमिति? तत्र तु अध: पंक्त्याः, पंक्ति इति विकल्पाः सन्ति (क्षम्यतां तत्र व्याकरणगताः त्रुटयः, यस्मात् तेषां शोधनाय कालः आवश्यकः)। प्रथमायां पेटिकायां प्रतिपङ्क्तिगतानाम् अक्षराणां सङ्ख्या निर्दिश्यते, द्वितीयायां च सर्वासां पङ्क्तीनां सङ्ख्या निर्दिश्यते।
  • सद्योजातानि परिवर्तनानि- यथा हि पूर्वे उक्तम्- नूतनपरिवर्तनानि इत्यनेन एतत् समबद्धम्। दर्शितानां नूतनपरिवर्तनानां सङ्ख्या अपि निर्धारयितुं शक्या, अपि च कतिषु दिवसेषु जातानि परिवर्तनानि दर्शितव्यानीति अपि निर्देशयितुं शक्यम्। तानि अत्र पिटकेषु दातव्यानि।
  • दृष्टिसूची विकल्पाः(निरीक्षासूची)- अत्र निरीक्षासूच्याः यथेष्टं रूपायनं कर्तुं शक्यते। प्रथमं तु अत्र दिवसानां सङ्ख्यां दातुं शक्यते येषु दिवसेषु निरीक्षासूचीगतानां लेखानां परिवर्तनानि अस्यां स्युः। अपि च अधिकतमानि कतिसङ्ख्याकनि परिवर्तनानि अत्र स्युः इत्यपि दातुं शक्यते।
  • खोज ऑप्शन्स्- अस्य संस्कृतपर्यायस्तु अन्वेषण-विकल्पाः इति। अत्र हि विकिपीडियायाम् अन्वेषणसमये प्रयोज्यमानाः विकल्पाः निर्धार्यन्ते। तद्यथा- प्रत्येके पृष्ठे दर्श्यमानानां परिणामानां सङ्ख्या; अन्वेषणार्थं नामाकाशस्य निर्देशनम् इत्यादयः।
  • विविधः- विविधाः अन्ये विकल्पाः केचिद् अत्र विद्यन्ते।
  • उपकरण (गैज़ेट)- इयं तु उपकरणानाम् आवलिः। अत्र यथेष्टम् उपकरणं चित्वा तु प्रयोक्ता तस्य प्रयोगार्थं समर्थीभवति। प्रमुखं तत्र उपकरणमस्ति हॉट्कैट् (Hotcat) इत्याख्यम्। उपकरणेनानेन लेखेषु वर्गाः सरलतया योक्तुं शक्यन्ते।
  • किञ्चिदपि परिवर्तनं कृत्वा इष्टतमानि इति प्रभागे, तत्र संरक्ष्यताम् इत्यत्र क्लिक्करणीयम्। येन हि तानि परिवर्तनानि रक्ष्यन्ते।


अस्मिन् पृष्ठे अधुनावधि यावत् प्रमुखानां सर्वेषामपि विषयाणां परिचयः प्रदत्तः। कालेन अत्र अधिकाः केचिद् विषयाः अपि योक्तुं शक्यन्ते।

अधिकायै सूचनायै द्रष्टव्यम्